सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 409, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 409

प्रमाणप्रकरणम् ३८७

दिवचनेष्वपभ्रष्टा अभ्यधिकतरामपभ्रंशदशां स्पृशन्तस्तेऽपि तामेव गवादिश-
ब्दमधुरमधिरोहेयुः न चैवमस्त्विति शक्यमभ्यनुज्ञातुमिदानीमेव अश्यतां तेषां
प्रत्यचत उपलब्धेरिति, तस्मादवश्यं तावदद्यत्वे परिदृश्यमानापभ्रंशदशा दुर्ब-
लबालाब्रलादिशब्दानां न गवादिशब्दान्स्पर्धितुमर्हति, ते चेन्न स्पर्धन्ते तदधुना-
गाव्यादयोपि प्रकारान्तरोपपत्तिसम्भावनाङ्कुरप्रभवाः सन्तो न गवादिशब्दसमा-
नविधित्वमध्यवसातुं शक्नुयुरिति तर्कयामः, तदुक्तं भगवता जैमिनिना, “शब्दे
प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्” इति(१) भाष्यकारेणापि व्याख्यातं “महता
प्रयत्नेन शब्दमुच्चरन्ति वायुः नाभेरुत्थितः उरसि विस्तीर्णः कण्ठे विवर्त्ति-
तो मूर्द्धानमाहत्य परावृत्तो वक्त्रे चरन्विविधान् शब्दानभिव्यनक्ति तत्रापराध्ये-
ताऽप्युच्चारयिता यथा शुष्के पतिष्यामीति कर्दमे पतति सकृदुपस्पृक्ष्यामीति
द्विरुपस्पृशति” इत्यादिना।

अपभ्रंशानामनादित्वाभावप्रतिपादनम्—

आह तर्हि विशेषे प्रमाणं वक्तव्यं यदेते गाव्यादयः प्रमादाद्यपराधनिबन्ध-
ना एव न गवादिशब्दसमानविधय इत्युच्यते, भवतु नः समीहितं संशयदशां
तावदानीतः ऽयमनादिगाव्यादिशब्दवाची महापुरुषः सम्बोध्यते भो महात्मन्नि-
त्थं पूर्वोक्तनीत्या संशये सति चिन्त्यतां किमेते गाव्यादयो गवादि समानयोग-
क्षेमा एव हस्तः करः पाणिरितिवद्भवन्तु किं वापराधसम्भावनया मार्गान्तर-
मालम्बन्तामिति, तत्रैकस्मिन्वाच्ये बहवस्तुत्यकक्ष्या वाचका इति नैष न्यायः,
कथं प्रत्यर्थं शब्दन्निवेशात्तेनैव सम्बन्धकरणसौकर्यादन्यसम्बन्धे यत्नगौरवप्रस-
ङ्गात्प्रत्यर्थं शब्दनिवेशे हि सति परस्परमव्यभिचारिणौ शब्दार्थौ भवतः स श-
ब्दस्तस्य वाचकः सोऽर्थस्तस्य वाच्य इति, अनेकशब्दवाच्यस्त्वेकोऽर्थस्तं वाच-
कं शब्दं न जहादपि तमन्तरेण शब्दाभिधेयतामपि यतः प्रतिपद्यते इति व्य-
भिचारः, अनेकार्थवाचिनि चैकस्मिन्वाचके इष्यमाणे शब्दोऽर्थं व्यभिचरेत्-
स्येवार्थान्तरस्यापि ततः प्रतिपत्तेरीत्थमनियमो ऽयमपप्लवेत, हस्तः करः पा-
णिरित्यादौवक्षाः पादा माषा इत्यादौ तु गतिरन्या नोपलभ्यते तेनानेकशब्दत्व-
मनेकार्थत्वं च दैवबलवत्तया ऽङ्गीकृतं प्रथमः पुनरेष ऋजुः पन्था यदेकस्य
वाचकस्यैको वाच्योऽर्थ इति च, इह गत्यन्तरमतिस्पष्टमस्ति प्रमादप्रभवत्वं नाम
तस्मिन्सति किमिति प्रथमप्राप्तो ऽयं प्रतिवाच्यं वाचकनियमक्रमो लङ्घ्यते, तेन
प्रमादापराधनिबन्धना गाव्यादयो न गवादिसमानमहिमान इत्युक्तम्,
किं च वाचकशक्तिः नाम सूक्ष्मा परमर्थापत्तिमात्रशरणावगमा न तन्मन्दता-
यामन्यतः कुतश्चिदवगन्तुं पार्यते, सा चेयमन्यथा ऽप्युपपद्यमाना गवादिभ्यो ऽर्थ-

( १ ) जैमिनिसूत्रम् । अ० १ पा० ३ सू० २९ तत्रैव शाबरभाष्ये ।