न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
प्रमाणप्रकरणम् १०९
ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशः ।
किं दिव्यचक्षुषामेषामनुमानप्रयोजनम् ॥
सामान्यद्वारको ऽप्यस्ति नाविनाभावनिश्चयः ।
वास्तवं हि न सामान्यं नाम किं चन विद्यते ॥
भूयोदर्शनगम्या ऽपि न व्याप्तिरवकल्पते ।
सहस्रशो ऽपि तद्दृष्टे व्यभिचारावधारणात् ।
बहुकृत्वो ऽपि वस्त्वात्मा तथेति परिनिश्चितः ।
देशकालादिभेदेन दृश्यते पुनरन्यथा ॥
भूयो दृष्ट्वा च धूमो ऽग्निसहचारीति गम्यताम् ।
अनग्नौ तु स नास्तीति न भूयोदर्शनाद्गतिः ॥
न चापि दृष्टमात्रेण गमकाः सहचारिणः ।
तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ॥
नियमश्चानुमानाङ्गं गृहीतः प्रतिपद्यते ।
ग्रहणं चास्य नान्यत्र नास्तितानिश्चयं विना ॥
दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि ।
तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ॥
अनग्निश्च कियान्सर्वं जगज्ज्वलनवर्जितम् ।
तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥
तदेवं नियमाभावात्सति वा ज्ञप्त्यसम्भवात् ।
अनुमानप्रमाणत्वदुराशा परिमुच्यताम् ॥
अनुमानविरोधो ऽपि यदि चेष्टविघातकृत् ।
विरुद्धाव्यभिचारो वा सर्वत्र सुलभोदयः ॥
अत एवानुमानानामपश्यन्तः प्रमाणताम् ।
तद्विस्त्रम्भनिषेधार्थमिदमाहुर्मनीषिणः ॥
हस्तस्पर्शादिना ऽन्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥
अपि च—
यत्नेनानुमितो ऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
अनुमानप्रामाण्यसमर्थनम्--
अत्राभिधीयते, किमयमनुमानस्वरूपाक्षेप एव क्रियते उत तत्तत्तार्किकोपल-
क्षिततल्लक्षणाक्षेप इति तत्रानुमानस्वरूपं चाशक्यनिह्नवमेव सर्वलोकप्रसिद्धत्वात् ।
अबलाबालगोपालहालिकाप्रमुखा अपि ।
बुध्यन्ते नियतार्थादर्थान्तरमसंशयम् ॥
अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।
लोकयात्रेति लोकाः स्युर्लिखिता इव निश्चलाः ॥
प्रत्यक्षदृष्टमपि पदार्थजातं तज्जातीयत्वलिङ्गव्यापारेण सुखसाधनम् इतर-
कारणमिति वा निश्चित्य तदुपाददते जहति वा लौकिकाः, अथाविचारितर-
मणीयतैव तत्त्वं न तु लक्षणनियमः शक्यक्रियस्तस्येति लक्षणाक्षेपो ऽयमुच्यते
सो ऽप्ययुक्तः यतः,
यं कं चिदर्थमालोक्य यः कश्चिन्ना वगभ्यते ।
कं चिदेवात्तिपत्यर्थमर्थः कश्चिदिति स्थितिः ॥
तत्र वस्तुस्वभावो ऽयमिति पादप्रसारिका ।
दृश्यते ह्यविनाभूतादर्थादर्थान्तरे मतिः ॥
अतो यद्दर्शनाद्यत्र प्रतीतिरूपजायते ।
तयोरस्त्यर्थयोः कश्चित्सम्बन्ध
सौ नियतो धूम इति मनसा प्रतिपद्यते ।
मनश्च सर्वविषयं केन वा नाभ्युपेयते ।
असन्निहितमप्यर्थमवधारयितुं क्षमम् ॥
न च सकलत्रिभुवनविवरनिरुद्धधूमाग्निव्यक्तिसार्थसाक्षात्कारणमुपयुज्यते
ज्वलनत्वादिसामान्यपुरःसरतया व्याप्तिग्रहणात् , यत्तूक्तं सामान्यं वास्तवं ना-
स्तीति तच्छब्दार्थचिन्ताप्रसङ्गे प्रतिसमाधास्यते ।
अपरे पुनः योगिप्रत्यक्षकल्पं यौक्तिकं सम्बन्धग्राहि प्रत्यक्षं प्रतिपेदिरे किल
धूमत्वाग्नित्वसामान्यपुरस्कारेण व्याप्यव्यापकयोरन्वयो नाम गृह्यताम्, व्य-
तिरेकस्त्वनग्निभ्यो धूमस्य ग्रहीतव्यः, अनग्नयश्चातिवितताः न च तेष्वनग्नि-
त्वं नाम सामान्यमस्ति, तेन समस्तत्रैलोक्यान्तर्गताग्न्यनग्निनिगतान्वयव्यतिरे-
कग्राहिप्रत्यक्षव्यतिरेकेण न प्रतिबन्धोऽवधृतो भवेत् अनवधृतश्च न प्रमा-
ङ्गमस्ति च प्रमेति युक्तं बलात्प्रतिबन्धग्राहकमेकस्मिन् क्षणे प्रत्यक्षमि-
दमशेषव्यक्तिविषयमसंचेद्यमानमपि कल्पितमिति यौक्तिकमुच्यते ।
अन्ये पुनः अत एव तत्कल्पनाभयाद्भूयोदर्शनपरिच्छिन्नसामान्यपुरःसरा-
न्वयमनपेक्षितव्यतिरेकनिश्चयमेव लिङ्गं गमकमभ्युपागमन् , यथोक्तम् , मम
त्वदृष्टिमात्रेण गमकाः सहचारिण इति, अयमाशयः—
भूयोदर्शनतस्तावदुदेति मतिरीदृशी ।
नियतो ऽयमनेनेति सकलप्राणिसाक्षिका ॥
तावता च गमकत्वमौत्सर्गिकं सिध्यति मीमांसकानां तु विपक्षे दर्शनं बा-
धकः प्रत्ययः न च सोस्ति नाद्य यावदनग्नौ धूमो दृष्टः, अनुत्पन्ने ऽपि बाध-
के तदाशङ्कनमयुक्तमित्युक्तं तैः, दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिकेति,
एतत्तु न चारु, व्यतिरेकनिश्चयमन्तरेण प्रतिबन्धग्रहणानुपपत्तेरित्युक्तत्वात्,
ज्ञापकत्वाद्वि नियमः स्वग्रहणमपेक्षते, नियमश्चायमुच्यते यत्तस्मिन्सति भव-
नं ततो विना न भवनमिति भूयोदर्शनं तच्च तस्मिन्सति भवनमित्यन्वयमात्र-
परिच्छेदादधं गृहीतो नियमः स्यात् ततो विना न भवनमित्यस्यार्थस्यापरिच्छे-
दादिति,
अपरे पुनः अनग्नित्वसामान्यमन्तरेणापि योगिप्रत्यक्षकल्पनामकूर्वन्त
एव मानसप्रत्यक्षगम्यमन्वयव्यतिरेकमाहुः, धूमाग्निसामान्ये तावत्सहचरिते
उपलब्धे तद्गतदभावावपि सहचरितावुपलभ्येते एव, धूमत्वसामान्यस्यानग्नौ ज-
लादावदर्शनात् , सर्वगतत्वे ऽपि सामान्यानां वृत्तिभेदो नियामक इति वक्ष्यते
यद्यपि चानग्नित्वाद्यभावसामान्यं नास्ति तथा ऽपि प्रतिषेध्याग्नित्वसामान्यानु-
गमसिद्धैव तदभावानुगमग्रहणं सिध्यति सकलव्यक्तिज्ञानमनङ्गं व्याप्तिनिश्चये ।
भावसामान्ययोर्यद्वत्तथैव तदभावयोः ।
भावयोः साहचर्यं यदन्वयं तत्प्रचक्षते ॥
व्यतिरेकं तु मन्यन्ते साहित्यं तदभावयोः ।
साध्यसाधनभावस्तु भवेद्यत्राप्यभावयोः ॥
तयोरेवान्वयस्तत्र व्यतिरेकस्तु भावयोः ।
तदेवमभावान्वयवद्भावव्यतिरेको ऽपि प्रत्यक्षगम्यो भवत्येव ।
इयानेव विशेषस्तु भावयोर्यादृशी ययोः ।
व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः ॥
अभावयोस्तु गम्यगमकभावे भावयोर्व्याप्तिप्रत्ययो द्रष्टव्यः, एवं च प्रति-
षेध्यानुगमपूर्वकसामान्यभावद्वयानुगमप्रत्ययोपपत्तेरन्वयतद्व्यतिरेकनिश्चये ऽपि
न योगिप्रत्यक्षमुपयुज्यते भावाभावसाहचर्यमवधार्य मनसा नियमज्ञानसिद्धे-
रित्यलं निर्बन्धेन, तस्मान्नियमवत्तद्ग्रहणोपायो ऽप्यस्तीति सिद्धम् ।
गृहीते नियमे यावत्पुनः क चिद्धर्मिणि धूमादेर्लिङ्गस्य ग्रहणं न वृत्तं तावन्न
भवति लिङ्गिनो ऽवगतिरिति सम्बन्धग्रहणकालापेक्षया द्वितीयं तल्लिङ्गदर्शनम-
पेक्षितव्यम्, सैवेयं पक्षधर्मतोच्यते, पक्षधर्मान्वयव्यतिरेकनिश्चये सत्यपि प्रत्य-
क्षागमविरोधेन प्रतिपक्षोपनिपातेन वा न गमकत्वमिति तदपरं लक्षणद्वयमुपदि-
ष्टम्, अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति, तदेवमनुभवसिद्धत्वादनुमान-
स्वरूपमिव तस्य लक्षणमपि तान्त्रिकविरचितमवाचकं लक्षणं तत्स्वयमनवद्यमा-
वेद्यताम् , न तु तद्द्द्वेषेण लक्ष्यमप्यनुमानं निह्नोतुं युक्तम् ,
यत्पुनरभाणि प्रमाणस्य गौणत्वादनुमानादर्थनिश्चयो दुर्लभ इति तन्न-
बुद्ध्यामहे, न हि प्रमाणस्य किं चिद्गौणत्वमिह पश्यामः, पक्षधर्मादि-
पदानि यदि नाम व्याख्यातृभिर्गौणानि प्रयुक्तानि किमेतावता प्रमाणं गौणी-
भवेत् , शब्
हेतौ सुप्रतिबद्धे हि नैताः सन्ति विडम्बनाः ॥
तादृशा चानुमानेन पुंसो ऽर्थमधिगच्छतः ।
नान्धेन तुल्यता हस्तस्पर्शानुमितवर्त्मना ॥
यत्नेनानुमितो यो ऽर्थः कुशलैरनुमातृभिः ।
अभियोगशतेनापि सो ऽन्यथा नोपपाद्यते ॥
सुशिक्षिततराः प्राहुः द्विविधमनुमानम्, किं चिदुत्पन्नप्रतीति किं चिदुत्पा-
द्यप्रतीति ईश्वराद्यनुमानं तु उत्पाद्यप्रतीति ।
तत्र धूमानुमानादेः प्रामाण्यं केन नेष्यते ।
अतो हि साध्यं बुध्यन्ते तार्किकैरङ्गता अपि ॥
यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् ।
अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः ॥
ऋजूनां जायते तस्मान्न तावदनुमेयधीः ।
यावत्कुटिलितं चेतो न तेषां विटतार्किकैः ॥
एवं तु कथयद्भिस्तैः परं नास्तिक्यमात्मनः ।
ख्याप्यते स्म जडत्वं वा नानुमानाप्रमाणता ॥
न हि सम्बन्धग्रहणोपायवैचित्र्यादप्रमाणता भवितुमर्हति ।
आगमेनानुमानेन तर्कव्युत्पादनेन वा ।
प्रत्यक्षेण गृहीतो वा सम्बन्धो न विशिष्यते ॥
ईश्वराद्यनुमानानां तत्प्रसङ्गे सविस्तरम् ।
द्रढिमानं च वक्ष्याम इत्यलं बहुभाषितैः ॥
प्रमाणमुपगम्यतां तदनुमानमेवंविधै-
रविप्लुतपराक्रमं भवदुदीरितैर्दूषणैः ।
अनभ्युपगमे पुनर्विगतचेष्टिताः प्राणिनो
भवेयुरुपलोपमा इति हि पूर्वमावेदितम् ॥
अनुमानलक्षणसूत्रार्थः—
अथेदानीं सूत्रमनुसरामः, तत्पूर्वकमित्यादि, अनुमानमिति लक्ष्यनिर्देशः,
तत्पूर्वकमिति लक्षणम्, तदिति सर्वनाम्ना प्रक्रान्तं प्रत्यक्षमवमृश्यते तत्
पूर्वं कारणं यस्य तत्तत्पूर्वकम् , एतावत्युच्यमाने निर्णयोपमानादौ तत्पूर्वके
प्रसङ्गो न व्यावर्तते इति तद्व्यावृत्तये द्विवचनान्तेन विग्रहः प्रदर्शयितव्यः,
ते द्वे प्रत्यक्षे पूर्वे यस्येति यदेकमविनाभावग्राहि प्रत्यक्षं व्याख्यातं यच्च द्वितीयं
लिङ्गदर्शनं ते द्वे प्रत्यक्षे अनुमानस्यैव कारणं नोपमनादेः, तत्र प्रतिबन्धग्राहि
प्रत्यक्षं स्मरणद्वारेण तत्कारणं लिङ्गदर्शनं तु स्वत एव ।
१५ न्या०
ननु प्रत्यक्षमात्रस्य प्रकृतत्वादप्रकृतावमर्शित्वाच्च सर्वनाम्नः कुतो ऽयं विशे-
षप्रतिलाभः, उच्यते—उदाहरणसाधर्म्यात्साध्यसाधनं हेतुरिति वक्ष्यते, हेतुरेव
चानुमानं यदिह लक्ष्यं निर्दिष्टम्, न चागृहीतमुदाहरणसाधर्म्यं तद्वैधर्म्यं वा
साध्यसाधनं भवतीति तद्ग्रहणोपायो ऽपेक्षितव्यः, प्रत्यक्षव्यतिरिक्ततदवगमो-
पायपरिकल्पने चानवस्थादूषणमसकृदभिहितमिति प्रत्यक्षस्यैव तदुपायत्वमतः
अनुमानकारणभूतप्रत्यक्षापेक्षया प्रत्यक्षमात्रप्रक्रमे ऽपि सर्वनाम्ना तद्विशेष आ-
क्षिप्यते यत्प्रतिबन्धग्राहि प्रत्यक्षं यच्च द्वितीयं लिङ्गदर्शनमिति,
ननु प्रत्यक्षविशेषद्वयपूर्वकत्वमनुमानाभासेष्वपि सव्यभिचारविरुद्धादिषु
सम्भवतीत्यतिव्याप्तिः मैवम्—हेतुलक्षणेन साध्यसाधनग्रहणेन तत्प्रतिक्षेपात्
प्रतिबन्धस्वरूपं हि तत्रैव निपुणमभिधास्यते इह तु तद्ग्रहणोपायमात्रमुच्य-
ते सम्यक् प्रवृत्ते च प्रतिबन्धग्राहिणि प्रत्यक्षे व्याप्तिविप्लवाभावान्नानुमानाभा-
सप्रसङ्गः, सामान्यलक्षणानुवादेन च विशेषलक्षणे वर्ण्यमाने तत एव प्रमाणा-
भासव्युदाससिद्धेः केवलमिदानीं समानजातीयोपमानादिव्यवच्छेदो वचनीय इति
स एव तत्पूर्वकपदेनोपात्तः अर्थोत्पन्नमव्यभिचारि व्यवसायात्मकमिति फलवि-
शेषणानां सर्वप्रमाणेष्वनुवृत्तेः ।
युगपच्च क्वचिन्नास्ति व्यापारः शब्दलिङ्गयोः ।
अतो नाव्यपदेशत्वविशेषणमिहार्थवत् ॥
द्वयोरपि च शब्दलिङ्गयोः ज्ञापकत्वेन स्वरूपग्रहणापेक्षत्वात् ज्ञानायौगप-
द्येन च युगपद्ग्रहणासम्भवात् ।
नन्वेवं निरस्यतामतिव्याप्तिः अव्याप्तिस्तु कथं निरसिष्यते आगमादि-
पूर्वकाणामनुमानानामसंग्रहात्, तेष्वपि मूलभूतं प्रत्यक्षमेव कारणमिति के-
चिदाहुः । यथोक्तम्—
यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत् ।
तत्रापि मौलिकं लिङ्गं प्रत्यक्षादेव गम्यते ॥ (१) इति,
यद्वा प्राधान्याभिप्रायेण प्रत्यक्षपूर्वकत्वमुच्यते न नियमार्थमिति ना-
व्याप्तिः, तानीति वा पुनस्तावदवबोधाय विग्रहः कर्तव्यः तानि प्रत्यक्षादीनि
पूर्वं यस्येति, यद्यपि प्रत्यक्षमेव लक्ष्यत्वेन प्रस्तुतं तथा ऽपि व्यवच्छेद्यतया ऽनु-
मानादीनामपि प्रकृतत्वं न वार्यते ।
अत्र चोदयन्ति—तदिति करणावमर्शो वा स्यात् फलावमर्शो वा,
करणावमर्शो इन्द्रियादिकरणपूर्वकं ज्ञानं तत्फलं तत्पूर्वकं चानुमानमिति पूर्वश-
ब्दस्य द्विः पाठः स्यात्, स चाश्रुत्वा कल्पनीयः फलावमर्शो तु प्रत्यक्ष-
( १ ) श्लोकवार्तिकेऽनुमानग्रन्थे श्लोकः १७१ ।
फलपूर्वकमनुमानमिति तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करण-
वाचिना सह सामानाधिकरण्यं न स्यात्तत्पूर्वकमनुमानमिति प्रत्यक्षफलेन
हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुपजन्यते सा चानुमानफलं नानुमानमि-
ति, उच्यते—उभयथा ऽपि न दोषः, कारणावमर्शे तावदिन्द्रियादिकरणपूर्वकं
तत्फलं लिङ्गदर्शनं यत् तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्व-
कशब्दस्य पाठ उपयुज्यते, फले ऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं य-
दविनाभावस्मरणं तदनुमानं करणमेव ततः परोक्षार्थप्रतिपत्तेः, यदुक्तं प्रत्युत्प-
न्नकारणजन्या स्मृतिरनुमानमिति स्पष्टमेव सामानाधिकरण्यम्, फले वा अनु-
मानशब्दं वर्णयिष्यामः अनुमितिरनुमानमिति, यतःशब्दं वा अध्याहरिष्यामः
प्रत्यक्षफलपूर्वकं परोक्षार्थप्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति, अत्र
हि प्रथमं लिङ्गदर्शनं ततः प्रतिबन्धस्मरणं ततः केषां चिन्मते परामर्शज्ञानं ततः
साध्यार्थप्रतीतिस्ततःप्रत्यक्षलक्षणावसरवर्णितेन क्रमेण हेयादिज्ञानमितीति प्र-
तीतिकलापे यथोपपत्ति कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवल-
मनुमानलक्षणक्षममिति गुरवो वर्णयां चक्रुः ।
सूत्रस्थस्य त्रिविधपदस्य कृत्यम्—
अन्ये पुनः उपमानाद्यतिव्याप्तिव्युदासाय त्रिविधग्रहणं व्याख्यातवन्तः,
तत्पूर्वकमनुमानमित्युच्यमाने सति उपमानादौ प्रसङ्ग इति त्रिविधग्रहणम्,
लिङ्गं वक्ष्यमाणकार्यादिभेदाद्वा त्रिविधं पक्षधर्मादिरूपत्रययोगाद्वा त्रिरूपं
त्रिविधमुच्यते, लिङ्गे च त्रिविधे सति तदालम्बनज्ञानमुपचारात्त्रिविधमभिधी-
यते, तेन प्रत्यक्षपूर्वकं त्रिविधलिङ्गालम्बनज्ञानमनुमानमित्युक्ते सति नातिव्याप्तिः।
ननु पूर्ववदादिभिः शब्दैः कार्यादिभेदवर्णनं ज्ञास्यामः पक्षधर्मादिरूपत्रयं तु
कथमेभिः शब्दैः प्रतिपाद्यते इति,
अत्राहुः वादादिकथात्रयेऽपि पूर्वमुपादीयमानत्वात्पक्षः पूर्वशब्देनोच्यते
सो ऽस्यास्त्याश्रयत्वेनेति पूर्ववल्लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति,
पक्षे उपयुक्ते सति शेषः सपक्षो भवति सो ऽस्यास्त्याश्रयत्वेनेति शेषवत्, एव-
मनेन सपक्षे वृत्तिरुक्ता भवति, सामान्यतोदृष्टमित्यनेन विपक्षाद्व्यावृत्तं लिङ्गमु-
च्यते, कथम्, अकारप्रश्लेषात् सामान्यतो ऽदृष्टमिति तिष्ठतु तावद्विशेषः सा-
मान्यतो ऽपि न दृष्टम्, क्वेति पक्षसपक्षयोर्वृत्तेरुक्तत्वात्परिशेषाद्विपक्षे सामा-
न्यतो ऽपि न दृष्टमित्यवतिष्ठते इत्थं त्रिरूपं लिङ्गमेभिः शब्दैरुक्तं भवति, त-
दालम्बनं ज्ञानमनुमानम् ।
तदेवं लक्षणे कश्चित्सर्वं सूत्रमयोजयत् ।
एवं तु ख्यापितं न स्यात्सूत्रकारस्य कौशलम् ॥
" "पदोद्गीत" "निर्मलन्न्यायलक्षणाः"
Wait, why "निर्मलन् न्यायलक्षणाः"?
Wait, could it be:
"तत्पूर्वकपदोद्गीतं निर्मलन् न्यायलक्षणाः ।"?
Wait, look at the word:
त-त्पू-र्वा-क-प-दो-द्गी-त-नि-र्म-ल-न्या-य-ल-क्ष-णाः
Wait, count syllables:
तत् (1) पूर् (2) व (3) क (4) प (5) दोद् (6) गी (7) त (8)
निर् (1) म (2) लन् (3) न्या (4) य (5) ल (6) क्ष (7) णाः (8)
Wait!
If it's:
तत् पूर् व क | प दोद् गी त |
1 2 3 4 | 5 6 7 8 | (8 syllables)
निर्मु...
Wait, in Anustubh:
Pathyā: syllables 5, 6, 7 are usually:
In odd pada: ⏑ – – (laghu, guru, guru) or similar.
In even pada: ⏑ – ⏑ (laghu, guru, laghu).
Let's check the meter:
Pada 1 (odd):
तत् (G) पूर्व (G) क (L)
प्रमाणप्रकरणम् ११७
च्मात्रानुमेया, अत एव तस्य वस्तुनो ऽनन्यत्वात्स्वभावानुमानमिदमिष्यते, स
स्वभावो ऽनुवर्णित इति,
अत्राहुः सर्वमिदमविदितानुमानप्रयोगक्रमस्य दुर्मतेश्चोद्यम्, न कार्यमत्र
पक्षीक्रियते न सत्ता साध्यते न व्यधिकरणो हेतुः प्रयुज्यते अपि तु पयोधरा
एव धर्मिणः अदूरकालभाविन्या वृष्ट्या तद्वन्तः साध्यन्ते विशिष्टोन्नतिरूपध-
र्मादियोगेनेति न पूर्वकथितदोषावसरः, यथा अग्निमानयं धूमः बहुलपाण्डुता-
दिधर्मयोगित्वान्महानसावधृतधूमवदिति, धूम एवाग्निमत्तया ऽनुमीयते एवं
समनन्तरोत्पादितवृष्टयो ऽमी जीमूताः सातिशयोन्नत्यादिधर्मयोगित्वात्पूर्वोपल-
ब्धपर्जन्यवद् इति जलधरा एव भविष्यद्वृष्टिमत्तया ऽनुमीयन्ते यथाह भट्टः—
तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात्प्रमेयता ।
सा देशस्याग्नियुक्तस्य धूमस्यान्यैश्च कल्पिता इति (१) ॥
यत्तु पूर्वं कारणमुच्यते इति तत्सत्यम्, पूर्वमस्यास्तीति पूर्ववत्कारणगत-
मुन्नतत्वादिधर्मजातमुच्यते तदेव लिङ्गमिति ग्रन्थदोषो ऽपि न कश्चित् , न च
कारणमात्रस्य हेतुत्वं ब्रूमो येनास्य विधुरप्रत्ययोपनिपातादिकृतो व्यभिचारः
स्यात् , अपि च विशिष्टमेव कारणं हेतुः न च कारणविशेषो दुरवगमः ।
गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः ।
रोलम्बगवलव्यालतमालमलिनत्विषः ॥
त्वङ्गत्तडिल्लतासङ्गपिशङ्गेत्तुङ्गविग्रहाः ।
वृष्टिं व्यभिचरन्तीह नैव प्रायः पयोमुचः ॥
अनभ्युपगमे चैवमनुमानस्य जीवितम् ।
न स्याद्धूमविशेषाणामपि बोद्धुमशक्तिः ॥
यदपि कार्यप्रत्यक्षत्वमाशङ्कितं तदप्ययुक्तम् , न ह्यत्र वृष्ट्यनुमानसमये एव
शिरसि सलिलकणाः पतन्तः पयोदमुक्ता दृश्यन्ते, परोक्षे लिङ्गिनि ज्ञानमनुमा-
नमिति च विशेषणोपादानात् , यत्र तत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति तदु-
दाहरणं भविष्यति, अपि च अनुपजातावयवक्रियतया ऽनाशङ्क्यमानविनाशे-
ऽन्यतन्तौ जातया क्रियया पटनिष्पत्त्यनुमाने क्रियमाणे पटप्रत्यक्षताकाले व्यव-
धानसम्भवात्, तथा हि, एकतस्तावत् अन्यतन्तौ क्रियादर्शनम् अविनाभावस्म-
रणम् परामर्शज्ञानम् अनुमेयप्रतीतिरिति त्रिचतुराः क्षणाः अन्यतस्तु क्रिया क्रि-
यातो विभागः विभागात्पूर्वसंयोगनिवृत्तिः ततः उत्तरसंयोगोत्पादः ततः पटनि-
( १ ) श्लोकवार्तिकेऽनुमाग्रन्थे श्लोकः ४७ ।
ष्पत्तिः निष्पन्ने पटे क्षणान्तरे रूपादिगुणारम्भः रूपादिजन्मनि पटस्य समवा-
यिकारणत्वात् कारणस्य कार्यादवश्यं पूर्वकालभावित्वम्, अतो निष्पन्नो ऽपि
नूनमेकस्मिन् क्षणे नीरूपः पटो भवतीति न तदैव प्रत्यक्षः, ततः क्षणान्तरे रूपो-
त्पादाद्रूपवद् द्रव्यमिन्द्रियसन्निकर्षात्प्रत्यक्षं भविष्यतीत्यतिबहव एते क्षणा अतो
न कार्यप्रत्यक्षत्वम्, नापि विधुरप्रत्ययादिना कार्यानुत्पत्तिरनुत्पन्नावयवक्रियस्व-
विशेषणोपादनेन तद्विनाशानाशङ्कनात्क्रियातश्चोत्तरोत्तरकार्याणामवश्यम्भा-
वित्वात् ।
यदपि हेतुना यः समग्रेणेत्यादिना योग्यतानुमानं व्याख्यातं तदप्यसाधु
स्वभावानुमानस्य निरस्तत्वात्, लोकश्च कारणाद्विकलात्कार्यमेव कल्पयति
न योग्यतामित्यलं प्रसङ्गेन ।
शेषवत्पदस्यार्थः--
शेषवदिति यत्र कार्येण कारणमनुमीयते यथा नदीपूरेणोपरितने देशे
वृष्टिरिति, अत्रापि वृष्टिमदुपरितनदेशसंसर्गलक्षणो नदीधर्मः तद्धर्मेणैव
विशिष्टेन पूर्णतादिना ऽनुमीयते, वृष्टिमत्पृष्ठदेशसंसृष्टा इयं नदी फेनिलक-
लुषत्वादिविशिष्टपूरोपे तत्वात् पूर्वोपलब्धैवंविधधुनीवत्, अयं देशो वा
वृष्टिविशिष्टदेशान्तरसंसृष्टः विशिष्टनदीपूरवत्त्वेनानुमीयते इति प्राक्तनवैधिक-
रण्यादिचोद्यचक्रस्येहापि नास्ति प्रसरः, फलतस्त्वियं वाचोयुक्तिः कार्येण का-
रणमनुमीयते इति परमार्थतस्तु धर्मो धर्मवत्त्वेन धर्मिवाननुमीयते इति स्थितिः,
यदाह भट्टः--
स एव चोभयात्मा ऽयं गम्यो गमक एव च ।
असिद्धेनैकदेशेन गम्यः सिद्धेन बोधक इति (१) ॥
यत्तु सेतुभङ्गाहिमविलयनादिनापि नदीपूरोपपत्तिर्दृष्टेति तत्राप्युच्यते ।
आवर्त्तवर्त्तनाशा लिविशालकलुषोदकः ।
कल्लोलविकटास्फालस्फुरत्फेनच्छटान्वितः ॥
वहद्वहलशैवलवनशाद्वलसंकुलः ।
नदीपूरविशेषो ऽपि शक्येत न निवेदितुम् ॥
प्रमातुरपराधो ऽयं विशेषं यो न पश्यति ।
नानुमानस्य दोषो ऽस्ति प्रमेयाव्यभिचारिणः ॥
रोधोपघातसादृश्यव्यभिचारनिबन्धनम् ।
अनुमानाप्रमाणत्वमतो वक्तुमसांप्रतम् ॥
( १ ) श्लोकवार्तिके अनुमानग्रन्थे श्लोकः २४।
प्रमाणप्रकरणम् ११९
पारम्पर्येण वृष्टिश्च नदीपूरस्य कारणम् ।
पतद्घनपयोबिन्दुसंदोहस्पन्दनक्रमात् ॥
सामान्यतो दृष्टपदस्यार्थः ।
सामान्यतोदृष्टं तु यदकार्यकारणभूताल्लिङ्गात्तादृशस्यैव लिङ्गिनो ऽनुमा-
नं यथा कपित्थादौ रूपेण रसानुमानम् , रूपरसयोः समवायिकारणमेकं कपि-
त्थादि द्रव्यं न तु तयोरन्योन्यं कार्यकारणभावः, शाक्यदृष्ट्या ऽपि वर्त्तमानयोः
क्षणयोरितरेतरकार्यकारणता न सम्भवत्येव, धर्मिणश्च रूपवत्त्वेन रसवत्तानु-
मानाद् असिद्धादिचोद्यानां पूर्ववदनवकाशो वक्तव्यः, यत्पुनर्भाष्यकारेण भास्क-
रस्य देशान्तरप्राप्त्या गत्यनुमानमुदाहृतं तदयुक्तम् , देशान्तरप्राप्तेर्गतिकार्यत्वा-
त्कार्येण कारणानुमानं शेषवदेवेदं स्यात् ।
अपि च देशान्तरप्राप्तिर्देशान्तरसंयोगः न च (१)दशशतांशोर्देशान्तरेण
शैलादिना संयोगः सम्भवति नभसा तु भवन्नपि दिशा वा दुर्लक्ष्यः प्रत्यक्षेतर-
वृत्तित्वात् पवनवनस्पतिसंयोगवत् मातृगर्भसंयोगवद्वा ।
अथ देशान्तरे तरणिदर्शनं हेतुरुच्यते तस्यापि गतिकार्यता पारम्पर्येण वि-
द्यत एव गत्या प्राप्तिः प्राप्त्या च तत्र दर्शनमिति, अथ देशान्तरे उपवने दर्शनं
पक्षीकृत्य दर्शनत्वेन च दर्शनशब्दवाच्यत्वेन च वा तस्य गतिपूर्वकत्वमनुमीयते
देशान्तरे दिवाकरदर्शनं गतिपूर्वकं देशान्तरदर्शनत्वात्तच्छब्दवाच्यत्वाद्वा देव-
दत्तदेशान्तरदर्शनवदिति तथा ऽपि पारम्पर्येण गतिकार्यता न निवर्त्तत एव, न
हि दर्शनत्वं गोत्वादिवत्सामान्यमस्ति किं तु भावप्रत्ययेनात्र दर्शनोत्पादिका श-
क्तिरुच्यते सा च नातीन्द्रिया नित्या का चिद् अपि तु स्वरूपसहकारिस्वभावै-
वेति दृश्यमानं च देशान्तरप्राप्त्यात्मकमिति गतिकार्यम् , एवं दर्शनशब्दवा-
च्यत्वे ऽपि हेतूकृते वक्तव्यम् , गत्या देशान्तप्राप्तिः जन्यते तया तत्र दर्शनं ते-
न शब्दप्रयोगः स एव वाच्यत्वमिति भावप्रत्ययेनोक्तः तस्मात्सर्वथा गतिका-
र्यत्वानपायाच्छेषवदेवेदमनुमानम् ।
तदेतद्भाष्यकारीयमुदाहरणमीदृशम् ।
रूपाद्रसानुमानं तु तस्माद्युक्तमुदाहृतम् ॥
अकार्यकारणप्रायहेतूनां च प्रदर्शितः ।
भदन्तकलहे(२) ऽस्माभिरुदाहरणविस्तरः ॥
( १ ) दशशतांशोः-सूर्यस्य ।
( २ ) भदन्तो-
Here is the line-by-line transcription of the Sanskrit text from the page:
१२० न्यायमञ्जर्याम्
अनुमानत्रैविध्यान्तरम्—
एवं तावन्मतुब्व्याख्यया त्रैविध्यमनुमानस्य वर्णितम्, एतत्तु फल्गुप्रायमिव
मन्यन्ते नियमात्मकसम्बन्धबलादेव लिङ्गस्य गमकत्वमुक्तं न कार्यादिस्वरूपेण
तत्किमीदृशत्रैविध्येन दर्शितेनेति वतिप्रत्ययमाश्रित्यान्यथा व्याचक्षते, पूर्व-
वदिति अत्र संबन्धग्रहणकाले लिङ्गलिङ्गिनोः प्रत्यक्षतः स्वरूपमवधार्य पुन-
स्तादृशैव लिङ्गेन तादृगेव लिङ्गी गम्यते तत्पूर्वेण तुल्यं वर्त्तते इति पूर्ववद-
नुमानम्, यथा महानसे धूमाग्नी सहचरितौ दृष्ट्वा पुनः पर्वते धूमाग्न्यनुमानम्,
ननु प्रत्यक्षप्रतीत्या विषयगतसकलविशेषासाक्षात्कारणक्षमया तुल्या नानु-
मानिकी मतिरिति कथं क्रियातुल्यत्वं तदभावात्कथं वतिः, सत्यमेवम्, तथापि
वह्नेरेव तादृशस्य वैलक्षण्यापादकविशेषावच्छिन्नस्य लिङ्गेन ग्रहणाददूरवि-
प्रकर्षेण क्रियातुल्यत्वमुपपत्स्यते, शेषवन्नाम परिशेषः स च प्रसक्तप्रतिषेधे ऽन्य-
त्राप्रसङ्गाच्छिष्यमाणसंप्रत्ययः, यथा क चित्प्रदेशे धूमेनाग्निमात्रे ऽनुमिते किं-
मिन्धनो ऽयमग्निरिति विमर्श प्रसक्तानां तृणपर्णकाष्ठादीनां प्रतिषेधान्मूत्राष-
णादीनामप्रसङ्गाच्च गोमयेन्धनो ऽग्निः परिकल्प्यते, यथा वा शब्दे द्रव्यकर्मत्व-
प्रतिषेधात्सामान्यादावप्रसङ्गाच्च गुणत्वानुमानं वक्ष्यते, सामान्यतोदृष्टं तु यत्र
संबन्धकाले ऽपि लिङ्गस्वरूपमप्रत्यक्षं नित्यपरोक्षमेव सामान्यतोव्याप्तिग्रहणा-
दनुमीयते यथा शब्दाद्युपलब्ध्या श्रोत्रादि करणम्, इन्द्रियाणामतीन्द्रियत्वान्न
कदा चित्प्रत्यक्षगम्यत्वम् अथ च छेदनादिक्रियाणां परश्वधादिकरणपूर्वकत्वेन
व्याप्तिग्रहणाच्छब्दाद्युपलब्धिक्रियाणां करणपूर्वकत्वमनुमीयते ।
अत्र वतिव्याख्याने चोदयन्ति, पूर्ववदेवमेकमनुमानमुक्तं स्यान्न त्रिविधम्,
यतो न तावदनवगतव्याप्तिकं लिङ्गं गमकं भवति विशेषाणामनन्तत्वेन च त-
दन्वयव्यतिरेकयोर्दुर्अवगमत्वात्सर्वत्र सामान्येनैव व्याप्तिग्रहणम्, यच्चैत्थं व्याप्ति-
ज्ञानं तत्तुल्यं त्रितये ऽपि अतः सर्वं पूर्ववदेव स्याद्वृतेः सर्वत्र सम्भवात् ।
तदेतदयुक्तम्, अवान्तरविशेषस्य सुस्पष्टस्य भावात्, व्याप्तिपूर्वकमनुमा-
नमित्येतावता यद्येकविधमुच्यते तत्सत्यम्, एवं प्रकारमेवेदं तस्मिन्सत्यपि तु
साम्ये भेदान्तरसम्भवात्त्रैविध्यमस्य प्रतिपाद्यते, तथा हि, धूमज्वलनयोः पूर्वं
प्रत्यक्षेण ग्रहणादिदानीं तेनैव धूमेन स एवाग्निरनुमीयते इति पूर्ववदिदमनुमा-
नमुच्यते यत्प्रत्यक्षपूर्वकमिति प्रसिद्धम् ।
ननु धूमान्तरेण वह्न्यन्तरानुमानं किं न प्रत्यक्षपूर्वकम्, क एवमाह न
पूर्ववदिति, कथं तर्हीदमुच्यते तेनैव धूमेनेति, जात्यभिप्रायमेतदुच्यते न व्य-
क्त्यभिप्रायम् ।
ननु सामान्यतस्तर्हि तत्परिच्छेदात्सामान्यतोदृष्टमेवेदं स्यात्, न सामा-
न्यतोदृष्टस्य नित्यपरोक्षानुमेयैकविषयत्वात् , प्रसक्तप्रतिषेधादिना च नियतसा-
ध्यपरिच्छेदहेतुः परिशेषानुमानमुच्यते, यथा गोमयेन्धनदहनानुमानमुदाहृतं
शब्दे वा गुणत्वकल्पनम् , सामान्यतोदृष्टं तु नित्यपरोक्षविषयमुदाहृतमेव श्रो-
त्राद्यनुमानम् , तदेवं भेदसम्भवात्त्रिविधमनुमानमिति युक्तम् ।
आस्तां वोदाहरणभेदः एकत्रप्युदाहरणे त्रैविध्यमभिधातुं शक्यते, यथा
इच्छादिकार्यमाश्रितं कार्यत्वाद् घटवद् इत्याश्रयमात्रे साध्ये पूर्ववदनुमानम् ,
प्रसक्तशरीरेन्द्रियाद्याश्रयप्रतिषेधेन विशिष्टाश्रयकल्पने तदेव परिशेषानुमानम् ,
अनुमेयस्य नित्यपरोक्षत्वात् तदेव सामान्यतोदृष्टं च ।
सामान्यतोदृष्टशेषवदनुमानयोर्भेदः
ननु परिशेषस्य सामान्यतोदृष्टस्य च को विशेषः, उच्यते—परिशेषानुमा-
नप्रवृत्तावन्यः पन्थाः सामान्यतोदृष्टस्यान्यः, इच्छादिकार्यं देहादिविलक्षणाश्रयं
शरीरादिषु बाधकप्रमाणोपपत्तौ सत्यां कार्यत्वादिति सामान्यतोदृष्टस्य क्रमः,
परिशेषानुमानस्य तु इत्थं प्रवृत्तिः इच्छादेराश्रयत्वेन प्रसक्तानि शरीरेन्द्रियम-
नांसि निषिध्यन्ते दिकालादौ च तत्प्रसङ्गो नास्ति तत्पारिशेष्यादात्मैव तदाश्रय
इति, परिशेषानुमाने च सर्वत्र नैष नियमः साध्यस्यातिपरोक्षत्वमिति गोमया-
ग्निकल्पनादिदर्शनात्, सामान्यतोदृष्टं तु नित्यपरोक्षविषयमेवेति सूक्तं त्रैविध्यम् ।
अपरे पुनः अदृष्टस्वलक्षणविषयं शक्तिक्रयानुमानं सामान्यतोदृष्टमुदाहरन्ति
देवदत्तादावपि क्रियायाः परोक्षत्वात् , चलतीति प्रत्यये हि न देवदत्तस्वरूपाति-
रिक्तक्रियातत्त्वप्रतिभासः ।
य एव देवदत्तात्मा तिष्ठत्प्रत्ययगोचरः ।
चलतीत्यपि संवित्तौ स एव प्रतिभासते ॥
अविरलसमुल्लसत्संयोगविभागप्रबन्धविषयत्वाच्चलतीति प्रत्ययस्य न सर्वदा
तदुत्पादः, कथं तर्हि नित्यपरोक्षे क्रियास्वलक्षणे ऽनुमानं क्रमते इति चेत् का-
र्यस्य कादाचित्कत्वेन कारणपूर्वकत्वात् परिदृश्यमानस्य द्रव्यस्वरूपस्य कारण-
त्वे सर्वदा कार्योत्पादनप्रसङ्गात् सर्वदा तत्स्वरूपसद्भावाद्, न च सर्वदा का-
र्यमुत्पद्यते इति तदतिरिक्तक्रियानुमानम् , एवं शक्तावपि द्रष्टव्यम्, क्रियाश-
क्तिस्वरूपस्य च नित्यपरोक्षत्वात्तददृष्टस्वलक्षणविषयमनुमानमुच्यते न तु वि-
शेषविषयं विशेषव्याप्तिग्रहणस्यासम्भवादिति ।
तदिदमनुपपन्नम् , परिस्पन्दरूपस्योत्क्षेपणादिभेदवतः कर्मणः चलत्यादिप्र-
तीतौ प्रकाशमानत्वेन प्रत्यक्षत्वाद् न तस्य नित्यानुमेयत्वम् , संयोगविभागाल-
म्बनत्वे तु संयुज्यते विभज्यते इति प्रतीतिः स्याद् न चलतीति यथाविषयं प्रत्य-
योदयात् , संवेदनानुसारिणी च विषयव्यवस्था अन्यथा घटप्रत्यये ऽपि परस्या-
१६ न्या०
यहाँ प्रस्तुत पृष्ठ का मूल देवनागरी में अक्षरशः पंक्तिबद्ध (line-by-line) लिप्यन्तरण तथा उसका सुगम हिन्दी अनुवाद एवं दार्शनिक व्याख्या दी जा रही है:
मूल संस्कृत पाठ (Transliteration)
१२२ न्यायमञ्जर्याम्
लम्बनता स्यात् , संयोगविभागालम्बनत्वे सति तिष्ठत्यपि चलत्प्रत्ययः प्राप्नोति
तत्रापि संयोगविभागसम्भवात् , स्थाणौ च श्येनसंयोगविभागवति चलतीति
प्रतिभासो भवेत् , अविरलतदुपजनप्रबन्धे ऽपि भूतभाविनोः संयोगविभाग-
योः परोक्षत्वाद्वर्त्तमानयोर्ग्रहणं , तौ च चलित्वा ऽपि स्थिते देवदत्ते स्त इति
तत्रापि कथं न चलतीति प्रत्ययः ।
निरन्तरं च संयोगविभागश्रेणिदर्शनात् ।
भूमावपि भवेद् बुद्धिश्चलतीति मनुष्यवत् ॥
अथ मनुषे यत्क्रियाजन्यत्वं संयोगविभागयोस्तत्रैव चलतीत्यादिबुद्धिः
नान्यत्र देवदत्तक्रिया च तौ जन्येते न निष्क्रियया भूम्येति न तस्यां तथा
प्रत्ययः, यद्येवं क्रियान्वयव्यतिरेकानुविधानात्क्रियालम्बन एवायं प्रत्ययो न
संयोगविभागालम्बनः, तदालम्बनत्वे हि तयोर्द्वयवृत्तित्वाविशेषाद्विशेषे कारणं
वाच्यं येन पुरुष एवायं प्रत्ययो न भूमामिति, देवदत्तक्रियाजन्यत्वेन तु न वि-
शेषो यतः क्रियायाः परोक्षत्वे सति तदेव न विद्मः किमसो देवदत्ताश्रया क्रि-
या किं वा भूम्याश्रितेति, संयोगविभागकार्यानुमानस्योभयत्रापि तुल्यत्वात् , न
च देवदत्ते गच्छति भूमावनवरतवहद्वातसंयोगविभागवत्यपि वा तरङ्गिणीती-
रपाषाणे चलतीति प्रत्ययो दृष्टः, तस्मात्क्रियाविषय एव चलतीति प्रत्ययो न
संयोगविभागालम्बनः, संयोगविभागाग्रहणे ऽपि च निरालम्बे विहायसि विह-
रति विहंगमे चलतीति संवेदनं दृश्यते, न च गगनसंयोगः प्रत्यक्षः प्रत्यक्षे-
तरवृत्तित्वाद् गन्धवहमहीरुहसंयोगवद्, विततालोकावयव्याकाशस्तत्संयोगश्च
पक्षिणः प्रत्यक्ष इति चेन्नैतदेवम्—
तमालनीलजीमूतसमूहपिहिताम्बरे ।
निशीथे सान्धकारे ऽपि चलत्खद्योतदर्शनात् ॥
न तत्रालोकावयवी न च कश्चन तिमिरावयवी वा विद्यते इति केन संयो-
गो गृह्यते विभागो वा, भूकम्पोत्पाते च जाते चलति वसुमतीति मतिरस्ति न
तत्र संयोगविभागौ गृह्येते बहुलनिशीथे च नतराम्, तस्मान्न संयोगाद्यालम्ब-
ना चलतीति मतिरपि तु क्रियालम्बनैवेति, न च नित्यपरोक्षा क्रिया ऽनुमातुम-
पि शक्या कार्यस्य कारणपूर्वकत्वेन भवन्
प्रमाणप्रकरणम् १२३
एतेन शक्त्यनुमानमपि व्युदस्तं वेदितव्यम्, पुरा च सविस्तरमतीन्द्रिय-
शक्तिनिराकरणं कृतमेव।
तेनादृष्टक्रियाशक्तिस्त्वलक्षणमिति क्षमम्।
नेदं सामान्यतोदृष्टमिति पूर्वोक्तमेव तत्॥
इति मतुपि वतौ वा प्रत्यये वर्त्तमाने
त्रिविधमिदमिहोक्तं युक्तमेवानुमानम्।
परकविरचितानां लक्षणानां त्वमुष्मि-
न्सति न भवति शोभा भास्वतीवेन्दुभासाम्॥
बौद्धोक्तप्रतिबन्धदूषणदिशा तल्लक्षणं दूषितं
भूयोदृष्टमितान्वयैककरणं शोच्यं पुनः शाबरम्।
सांख्यानां तु कुतो ऽनुमानघटनोपादानरूपा यत-
स्तेषां जातिरसौ च तद्विकृतिवद्भिन्नेति दुःस्थो ऽन्वयः॥
अनुमानस्य त्रिकाळविषयत्वम्
इदमिदानीं चिन्त्यते, यदेतदिन्द्रियादिसन्निकर्षजत्वादिना लक्षितमस्मदादि-
प्रत्यक्षं तत्किल प्रायशो वर्त्तमानकालविशिष्टवस्तुविषयम्, एवमिदमनुमानम-
पि किं तद्गोचरमेव किं वा कालान्तरपरिच्छेदे ऽपि क्षममिति तदुच्यते, त्रिका-
लविषयमनुमानमिति, कस्मात् त्रैकाल्यग्रहात् त्रिकालयुक्ता अर्था अनुमानेन गृ-
ह्यन्ते, भूता नदीपूरेण वृष्टिरनुमीयते सैव भविष्यन्ती मेघोन्नत्या धूमेन वर्त्तमा-
नोऽग्निरिति, अतश्च यन्मीमांसकैरुच्यते चोदना हि भूतं भवन्तं भविष्यन्तं
सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुं नान्यदिति त-
दयुक्तम्, चोदनावत्प्रमाणान्तरस्याप्येवंजातीयकविषयत्वोपपत्तेः, प्रत्यक्षमपि
योगिनां त्रिकालविषयमुक्तमस्मदादीनामपि क्व चिदिति।
काळाक्षेपः-
अत्र चोदयन्ति, काले सति त्रैकाल्यग्रहणं चिन्त्यं स एव तु दुरुपपादः त-
दभावे कस्य वर्त्तमानादिविभागो निरूप्यते।
न तावद् गृह्यते कालः प्रत्यक्षेण घटादिवत्।
चिरक्षिप्रविबोधो ऽपि कार्यमात्रावलम्बनः॥
न चामुनेव लिङ्गेन कालस्य परिकल्पना।
प्रतिबन्धो हि दृष्टो ऽत्र न धूमज्वलनादिवत्॥
प्रतिभासाऽतिरेकस्तु कथं चिदुपपत्स्यते।
प्रचितां कां चिदाश्रित्य क्रियाक्षणपरम्पराम्॥
१२४ न्यायमञ्जर्याम्
न चैष ग्रहनक्षत्रपरिस्पन्दस्वभावकः ।
कालः कल्पयितुं युक्तः क्रियातो नापरो ह्यसौ ॥
मुहूर्त्तयामाहोरात्रमासत्व^यनवत्सरैः ।
लोके काल्पनिकैरेव व्यवहारो भविष्यति ॥
यदि त्वेको विभुर्नित्यः कालो द्रव्यात्मको मतः ।
अतीतवर्त्तमानादिभेदव्यवहृतिः कुतः ॥
केषां चिन्मतेन कालस्य प्रत्यक्षत्वम्--
एवमाक्षिप्ते सति—
प्रत्यक्षगम्यतामेव के चित्कालस्य मन्वते ।
विशेषणतया कार्यप्रत्यये प्रतिभासनात् ॥
क्रमेण युगपत्क्षिप्रं चिरात्कृतमितीदृशः ।
प्रत्यया नावकल्पन्ते कार्यमात्रावलम्बनाः ॥
न हि विषयातिशयमन्तरेण प्रतिभासातिशयो ऽवकल्पते ।
अरूपो नन्वयं कालः कथं गृहीत चक्षुषा ।
रूपमेव त्वारूपं कथं गृहीत चक्षुषा ॥
कथं वा रूपवन्तो ऽपि परोक्षाः परमाणवः ।
तस्मात्प्रतीतिरन्वेष्या किं निमित्तपरीक्षया ॥
ननु द्रव्ये ऽयं नियमो न रूपादाै, द्रव्ये ऽपि नायं नियमः यद्रूपवत्तत्प्रत्यक्ष-
मिति येन परमाणूनां तथाभावः स्यात् , किं तु यत्प्रत्यक्षं तद्रूपवदिति, तदु-
क्तम् , त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्रवत्वादीनीति (१)नेदं दैविकं वचनं यदन-
तिक्रमणीयम्, न च वचनेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा व्यवस्थाप्यते प्रत्यक्षत्वं
हौ^न्द्रियकप्रतीतिविषयत्वमुच्यते तच्चेद्स्ति कालस्य नीरूपस्यापि प्रत्यक्षता केन
वार्यते, रूपित्वं तद् द्रव्याणामस्तु तथा दर्शनात् ,
न चानुद्घाटिताक्षस्य क्षिप्रादिप्रत्ययोदयः ।
तद्भावानुविधानेन तस्मात्कालस्तु चाक्षुषः ॥
स्वतन्त्र एव तर्हि घटादिवत्कस्मान्न गृह्यते काल इति चेद्वस्तुस्वभाव एष न
पर्यनुयोगार्हः, रूपिद्रव्यविशेषणतां गतस्य तस्य ग्रहणं न दण्डादिवत्स्वतन्त्र-
स्यापीति गगनादेस्त्वन्यविशेषणतया ऽपि न ग्रहणमस्तीति तस्याप्रत्यक्षत्वं न
त्वरूपत्वात् ।
अथ वदेद् विशेषणस्यापि रूपवत एव दण्डादेः चक्षुषा ग्रहणं न कालादेरि-
ति तद्युक्तम्, अरूपस्यापि सामान्यादेर्विशेषणस्य चक्षुषा ग्रहणात् , द्रव्ये नि-
( १ ) वैशेषिकदर्शने प्रशस्तपादभाष्ये प्रथमाह्निके ।
यम इति चेद् उक्तमत्र यदेव नयनकरणावगमगोचरे संचरति तदेव चाक्षुषं
रूपवद्रूपं वा द्रव्यमद्रव्यं वेति, एवं गुरु द्रव्यमिति कार्त्तस्वरादौ प्रतिभासाद्
गुरुत्वमपि प्रत्यक्षं न पतनानुमेयमेव ।
तस्मात्स्वतन्त्रभावेन विशेषणतया ऽपि वा ।
चाक्षुषज्ञानगम्यं यत्तत्प्रत्यक्षमुपेयताम् ॥
अत एव प्रत्यक्षः कालः, एवं समानन्यायत्वात्पूर्वापरादिप्रत्ययगम्या दिगपि
प्रत्यक्षा वेदितव्येति ।
कालस्यानुमेयत्वम्
अन्ये मन्यन्ते, दण्डी देवदत्तो नीलमुत्पलमिवद्विषयातिरेकस्याग्रहणात्प्र-
त्ययातिशयस्य च परोक्षकालपक्षे ऽपि तत्कारणकस्योपपत्तेरनुमेय एव कालः ।
अप्रत्यक्षत्वमात्रेण न च कालस्य नास्तिता ।
युक्ता पृथिव्यधोभागचन्द्रमःपरभागवत् ॥
अप्रतिभासमानो ऽपि कालः संस्कार इवेन्द्रियसहचरितः
चिरेणास्तं गतो भानुः शीतांशुः शीघ्रमुद्गतः ।
उदिताविव दृश्येते युगपद्भौमभार्गवौ ॥
इति दृश्यते प्रतिभासः, न च ग्रहान्तरपरिस्पन्दकारणक एष शक्यते वक्तु-
मनवस्थाप्रसङ्गात्, तस्मान्न ग्रहादिपरिस्पन्दः कालः किं तु वस्त्वन्तरं यत्कृतो
ऽयं क्रमादिव्यवहारः ।
ननु भवत्कल्पितो ऽपि कालः किं स्वत एव क्रमस्वभावः हेत्वन्तराद्वा, स्व-
तस्तस्य तत्स्वभावत्वे कार्यस्यैव पटादेः परिदृश्यमानस्य तत्स्वाभाव्यं भवतु किं
कालेन, हेत्वन्तरपक्षे त्वनवस्था तस्यापि हेत्वन्तरापेक्षत्वादिति ।
तदेतद्बालिशचोद्यम्, शुक्लगुणादावप्येवं वक्तुं शक्यत्वात्, गुणस्य स्वतः
शुक्लस्वभावत्वे द्रव्यस्यैव तद्वक्तुं किं गुणेन गुणान्तरकल्पने त्वनवस्थेति, अथ
तत्र तथा दर्शनान्नेदं चोद्यं यदिहापि समानम्, कार्येषु पटादिषु निमित्तान्तरकृतः
क्रमादिव्यवहारो निमित्तान्तरे निमित्तान्तरं न मृग्यमिति, तस्मादस्ति युगपदा-
दिव्यवहारहेतुः कालः, अतश्चैवम्—
दृष्टः परापरत्वस्य दिक्कृतस्य विपर्ययः ।
युवस्थविरयोः सो ऽपि विना कालं न सिध्यति ॥
दूरतरदिगवच्छिन्नो देवदत्तादिः पर इति प्रतिभासते निकटदिगवच्छिन्नस्तु
अपर इति, तदत्र न कालव्यतिरिक्तं कारणमुपपद्यते इत्यतो ऽनुमीयते कालः,
सचायमाकाशवत्सर्वत्रैकः कालः यथा ऽऽकाशलिङ्गस्य शब्दस्य सर्वत्राविशेषा-
द्विशेषलिङ्गाभावाच्चैकः आकाशः, सर्वत्र तद्व्यवहाराद्विभुः, अवयवाश्रयानुप-
लम्भाद् निरवयवः, अनाश्रितश्चानाश्रितत्वादेव द्रव्यम्, अत एवावयवविभा-
गादिनाशकारणानुपपत्तेर्नित्य इति ।
कालत्रैविध्यम्
नन्वेवं चैकत्वात्कालस्य कुतो वर्त्तमानादिविभागः तदभावात्कथं त्रिकाल-
विषयमनुमानमुच्यते, उच्यते न तात्त्विकः कालस्य भेदो वर्त्तमानादिः, किं त्व-
सन्नप्यसौ व्यवहारसिद्धये केन चिदुपाधिना कल्प्यते, कः पुनरसावुपाधिः क्रि-
येति ब्रूमः ।
ननु तस्या अपि न स्वतो वर्त्तमानादिभेदः तद्भावे वा सैव तथा भवतु किं
कालेन, मैवम्, उत्पत्तिस्थितिनिरोधयोगिफलावच्छेदेन नानाक्षणपरम्परात्मिका-
पि क्रियेत्युच्यते सा वर्त्तमानादिभेदवती च, तथा हि, स्थाल्यधिश्रयणात्प्रभृति
आ तदवतरणादुत्पद्यमानौदनाख्यफलावच्छेदात्क्रिया वर्त्तमानोच्यते पचतीति
तदवच्छेदाद् घटाकाशवत्कालो ऽपि तावान् वर्त्तमान इत्युच्यते, अभिनिर्वृत्त-
फलावच्छेदात्मा परिस्पन्दसन्ततिरतीता भवति अपाक्षीदिति तदवच्छेदात्का-
लो ऽप्यतीत उच्यते, अनारब्धफलावच्छेदाद्भविष्यन्ती क्रियोच्यते पच्यतीति
तथा कालो ऽपीत्येवं सोपाधिकः काले एव वर्त्तमानादित्रयव्यवहारः, अतश्च
यदुच्यते वृक्षात्पततः पर्णस्य भूतभविष्यन्तावध्वानौ दृश्येते न वर्त्तमानः तस्मा-
द्वर्त्तमानः कालो नास्तीति तदसंबद्धम्, अध्वव्यङ्ग्यत्वाभावात्कालस्य, न ह्यध्व-
व्यङ्ग्यः कालभेदः किं तु यथोक्तक्रमेण क्रियाव्यङ्ग्य एवेति, क्रियापरिकल्पित-
भेदनिबन्धनश्चायं क्षणलवकाष्ठाकलानालिकामुहूर्त्तयामाहोरात्रमासत्वयनसंव-
त्सरयुगमन्वन्तरकल्पव्यवहार इत्यलं प्रसङ्गेन ।
तिथ्यादिभेदावधारणं च वैदिककर्मप्रयोगाङ्गम्, पौर्णमास्यां पौर्णमास्या
यजेत अमावश्यायाममावश्यया यजेतेति, एवं वसन्ताद्यृतुभेदो ऽपि तदङ्गं वसन्ते
ब्राह्मणो ऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः वर्षासु रथकार इति, स
चायमृतुतिथ्यादिविभागः क्रिययैव ज्योतिःशास्त्रोपदिष्टविशिष्टराशिसंसृष्टच-
न्द्रादिग्रहगतया लक्ष्यते लौकिकेन च लक्षणेन तेन तेनेति, तद्यथा—
चञ्च्वग्रचुम्बिताताम्रचूताङ्कुरकदम्बकैः ।
कथ्यते कोकिलैरेव मधुरमधुरकूजितैः ॥
दिवाकरकरालातपातनिर्दग्धवीरुधः ।
मार्गाः समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः ॥
शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्बरैः ।
प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥
मौक्तिकाकारविस्तारितारानिकरचित्रितम् ।
शरत्पिशुनतां याति यमुनाम्भोनिभं नभः ॥
आयामियामिनीभोगसफलाभोगविभ्रमाः ।
हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः ॥
आस्कन्दन्दलत्कुन्दकलिकोत्करदन्तुराः ।
वदन्ति शिशिरं वातास्तुषारकणकर्कशाः ॥
तस्मादेको ऽप्ययं कालः क्रियाभेदाद्विभिद्यते ।
दिङ्निरूपणम्—
एतेन सदृशन्यायान् मन्तव्या दिक्समर्थिता ॥
पूर्वपश्चिमादिप्रत्ययानां केवलवृक्षादिप्रत्ययवैलक्षण्येन कारणान्तरानुमाना-
त्, दिग्लिङ्गाविशेषादेकत्वे ऽपि दिशो दशविधाः, प्रदक्षिणावर्त्तपरिवर्त्तमानमा-
र्त्तण्डमण्डलमरीचिनिचयचुम्ब्यमानकाञ्चनाचलकटकसंयोगोपाधिकृतः पूर्वप-
श्चिमादिभेदः कल्प्यते, पूर्वा पूर्वदक्षिणा दक्षिणा दक्षिणपश्चिमा पश्चिमा पश्चि-
मोत्तरा उत्तरा उत्तरपूर्वा अधस्तनी ऊर्ध्वा चेति, देवतापरिग्रहवशाच्च पुनरेषैव
दिग्दशधोच्यते, ऐन्द्री आग्नेयी याम्या नैर्ऋती वारुणी वायव्या कौबेरी ऐशा-
नी नागीया ब्राह्मी चेति ।
ननु च येनैव प्रत्ययेन प्रत्यक्षेण लिङ्गेन वा सता दिक्कालाववगम्येते तेनैव
तयोर्भेदग्रहणात्कथमेकत्वं तदवगमसमय एव तथा भेदप्रतिभासात्, उक्तमत्र स-
र्वत्र तत्प्रत्ययाविशेषादिति, व्यत्ययदर्शनाच्च यैवैकत्र पूर्वा दिक्सैवान्यत्र दक्षि-
णेति गृह्यते 'प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिण' इति, कालेऽपि चि-
रक्षििप्रादिविभागश्चाव्यवस्थित एव दृश्यते यो हि अनागत इति परिस्फुरति
कालः स एव वर्तमानो भवति भूतो भवति च, तथा च चिरमपि शीघ्रीभवति
शीघ्रमपि चिरीभवति, तस्मात्तद्भेदो ऽप्यौपाधिक इति सिद्धम् ।
समानतन्त्रे दिक्कालौ वैतत्येन विचिन्तितौ ।
तन्नेह लिख्यते लोके द्वेष्या हि बहुभाषिणः ॥
सिद्धः कालश्चाक्षुषो लैङ्गिको वा तन्नानात्वं सिद्धमौपाधिकं च ।
तस्माद्युक्तं निश्चिकाय त्रिकालग्राहीत्येवं सूत्रकारो ऽनुमानम् ॥
इत्यनुमाननिरूपणम्
अथोपमानलक्षणम्-
अनुमानान्तरमुपमानं विभागसूत्रे पठितमिति तत्क्रमेण तस्य लक्षण-
मुच्यते ।
प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥ ६ ॥
अत्र वृद्धनैयायिकास्तावदेवमुपमानस्वरूपमाचक्षते, संज्ञासंज्ञिसम्बन्धप्र-
तीतिफलं प्रसिद्धेतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम् , गवया-
र्थी हि नागरको ऽनवगतगवयस्वरूपस्तदभिज्ञमारण्यकं पृच्छति कीदृग्गवय
इति स तमाह यादृशो गौस्तादृशो गवय इति, तदेतद् वाक्यमप्रसिद्धस्य प्रसि-
द्धेन गवा सादृश्यमभिदधत्तद्द्वारकमप्रसिद्धस्य गवयसंज्ञाभिधेयत्वं ज्ञापयती-
त्युपमानमुच्यते ।
ननु शब्दस्वभावत्वादस्याप्तोपदेशः शब्द इत्यनेन गतार्थत्वान्नेदं प्रमाणान्त-
रं भवेत्, न च संज्ञासंज्ञिसम्बन्धपरिच्छेदफलत्वेन प्रमाणान्तरता वक्तव्या फ-
लवैचित्र्येण प्रमाणानन्त्यप्रसङ्गात्, लौकिकानि हि वचनानि वैदिकानि च
विधिनिषेधबोधकानि नानाफलान्यपि भवन्ति न शब्दतामतिक्रामन्ति ।
उच्यते-यत्र शब्दप्रत्ययादेव तत्प्रणेतृपुरुषप्रत्ययादेव वा अर्थतथात्वमुपा-
यान्तरानपेक्षमवगम्यते स आगम एव तत्तदर्थप्रतीतेः, यत्र तु पुरुषः प्रती-
त्युपायमपरमुपदिशति तत्र तत एवोपायात्तदर्थावधारणम्, उपायमात्रावगमे तु