सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 142, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 142

Here is the line-by-line transcription of the Sanskrit text from the page:

१२० न्यायमञ्जर्याम्
अनुमानत्रैविध्यान्तरम्—
एवं तावन्मतुब्व्याख्यया त्रैविध्यमनुमानस्य वर्णितम्, एतत्तु फल्गुप्रायमिव
मन्यन्ते नियमात्मकसम्बन्धबलादेव लिङ्गस्य गमकत्वमुक्तं न कार्यादिस्वरूपेण
तत्किमीदृशत्रैविध्येन दर्शितेनेति वतिप्रत्ययमाश्रित्यान्यथा व्याचक्षते, पूर्व-
वदिति अत्र संबन्धग्रहणकाले लिङ्गलिङ्गिनोः प्रत्यक्षतः स्वरूपमवधार्य पुन-
स्तादृशैव लिङ्गेन तादृगेव लिङ्गी गम्यते तत्पूर्वेण तुल्यं वर्त्तते इति पूर्ववद-
नुमानम्, यथा महानसे धूमाग्नी सहचरितौ दृष्ट्वा पुनः पर्वते धूमाग्न्यनुमानम्,
ननु प्रत्यक्षप्रतीत्या विषयगतसकलविशेषासाक्षात्कारणक्षमया तुल्या नानु-
मानिकी मतिरिति कथं क्रियातुल्यत्वं तदभावात्कथं वतिः, सत्यमेवम्, तथापि
वह्नेरेव तादृशस्य वैलक्षण्यापादकविशेषावच्छिन्नस्य लिङ्गेन ग्रहणाददूरवि-
प्रकर्षेण क्रियातुल्यत्वमुपपत्स्यते, शेषवन्नाम परिशेषः स च प्रसक्तप्रतिषेधे ऽन्य-
त्राप्रसङ्गाच्छिष्यमाणसंप्रत्ययः, यथा क चित्प्रदेशे धूमेनाग्निमात्रे ऽनुमिते किं-
मिन्धनो ऽयमग्निरिति विमर्श प्रसक्तानां तृणपर्णकाष्ठादीनां प्रतिषेधान्मूत्राष-
णादीनामप्रसङ्गाच्च गोमयेन्धनो ऽग्निः परिकल्प्यते, यथा वा शब्दे द्रव्यकर्मत्व-
प्रतिषेधात्सामान्यादावप्रसङ्गाच्च गुणत्वानुमानं वक्ष्यते, सामान्यतोदृष्टं तु यत्र
संबन्धकाले ऽपि लिङ्गस्वरूपमप्रत्यक्षं नित्यपरोक्षमेव सामान्यतोव्याप्तिग्रहणा-
दनुमीयते यथा शब्दाद्युपलब्ध्या श्रोत्रादि करणम्, इन्द्रियाणामतीन्द्रियत्वान्न
कदा चित्प्रत्यक्षगम्यत्वम् अथ च छेदनादिक्रियाणां परश्वधादिकरणपूर्वकत्वेन
व्याप्तिग्रहणाच्छब्दाद्युपलब्धिक्रियाणां करणपूर्वकत्वमनुमीयते ।
अत्र वतिव्याख्याने चोदयन्ति, पूर्ववदेवमेकमनुमानमुक्तं स्यान्न त्रिविधम्,
यतो न तावदनवगतव्याप्तिकं लिङ्गं गमकं भवति विशेषाणामनन्तत्वेन च त-
दन्वयव्यतिरेकयोर्दुर्अवगमत्वात्सर्वत्र सामान्येनैव व्याप्तिग्रहणम्, यच्चैत्थं व्याप्ति-
ज्ञानं तत्तुल्यं त्रितये ऽपि अतः सर्वं पूर्ववदेव स्याद्वृतेः सर्वत्र सम्भवात् ।
तदेतदयुक्तम्, अवान्तरविशेषस्य सुस्पष्टस्य भावात्, व्याप्तिपूर्वकमनुमा-
नमित्येतावता यद्येकविधमुच्यते तत्सत्यम्, एवं प्रकारमेवेदं तस्मिन्सत्यपि तु
साम्ये भेदान्तरसम्भवात्त्रैविध्यमस्य प्रतिपाद्यते, तथा हि, धूमज्वलनयोः पूर्वं
प्रत्यक्षेण ग्रहणादिदानीं तेनैव धूमेन स एवाग्निरनुमीयते इति पूर्ववदिदमनुमा-
नमुच्यते यत्प्रत्यक्षपूर्वकमिति प्रसिद्धम् ।
ननु धूमान्तरेण वह्न्यन्तरानुमानं किं न प्रत्यक्षपूर्वकम्, क एवमाह न
पूर्ववदिति, कथं तर्हीदमुच्यते तेनैव धूमेनेति, जात्यभिप्रायमेतदुच्यते न व्य-
क्त्यभिप्रायम् ।
ननु सामान्यतस्तर्हि तत्परिच्छेदात्सामान्यतोदृष्टमेवेदं स्यात्, न सामा-