न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 150, कुल 654 में से
संदर्भ में पढ़ेंदिग्दशधोच्यते, ऐन्द्री आग्नेयी याम्या नैर्ऋती वारुणी वायव्या कौबेरी ऐशा-
नी नागीया ब्राह्मी चेति ।
ननु च येनैव प्रत्ययेन प्रत्यक्षेण लिङ्गेन वा सता दिक्कालाववगम्येते तेनैव
तयोर्भेदग्रहणात्कथमेकत्वं तदवगमसमय एव तथा भेदप्रतिभासात्, उक्तमत्र स-
र्वत्र तत्प्रत्ययाविशेषादिति, व्यत्ययदर्शनाच्च यैवैकत्र पूर्वा दिक्सैवान्यत्र दक्षि-
णेति गृह्यते 'प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिण' इति, कालेऽपि चि-
रक्षििप्रादिविभागश्चाव्यवस्थित एव दृश्यते यो हि अनागत इति परिस्फुरति
कालः स एव वर्तमानो भवति भूतो भवति च, तथा च चिरमपि शीघ्रीभवति
शीघ्रमपि चिरीभवति, तस्मात्तद्भेदो ऽप्यौपाधिक इति सिद्धम् ।
समानतन्त्रे दिक्कालौ वैतत्येन विचिन्तितौ ।
तन्नेह लिख्यते लोके द्वेष्या हि बहुभाषिणः ॥
सिद्धः कालश्चाक्षुषो लैङ्गिको वा तन्नानात्वं सिद्धमौपाधिकं च ।
तस्माद्युक्तं निश्चिकाय त्रिकालग्राहीत्येवं सूत्रकारो ऽनुमानम् ॥
इत्यनुमाननिरूपणम्
अथोपमानलक्षणम्-
अनुमानान्तरमुपमानं विभागसूत्रे पठितमिति तत्क्रमेण तस्य लक्षण-
मुच्यते ।
प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥ ६ ॥
अत्र वृद्धनैयायिकास्तावदेवमुपमानस्वरूपमाचक्षते, संज्ञासंज्ञिसम्बन्धप्र-
तीतिफलं प्रसिद्धेतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम् , गवया-
र्थी हि नागरको ऽनवगतगवयस्वरूपस्तदभिज्ञमारण्यकं पृच्छति कीदृग्गवय
इति स तमाह यादृशो गौस्तादृशो गवय इति, तदेतद् वाक्यमप्रसिद्धस्य प्रसि-
द्धेन गवा सादृश्यमभिदधत्तद्द्वारकमप्रसिद्धस्य गवयसंज्ञाभिधेयत्वं ज्ञापयती-
त्युपमानमुच्यते ।
ननु शब्दस्वभावत्वादस्याप्तोपदेशः शब्द इत्यनेन गतार्थत्वान्नेदं प्रमाणान्त-
रं भवेत्, न च संज्ञासंज्ञिसम्बन्धपरिच्छेदफलत्वेन प्रमाणान्तरता वक्तव्या फ-
लवैचित्र्येण प्रमाणानन्त्यप्रसङ्गात्, लौकिकानि हि वचनानि वैदिकानि च
विधिनिषेधबोधकानि नानाफलान्यपि भवन्ति न शब्दतामतिक्रामन्ति ।
उच्यते-यत्र शब्दप्रत्ययादेव तत्प्रणेतृपुरुषप्रत्ययादेव वा अर्थतथात्वमुपा-
यान्तरानपेक्षमवगम्यते स आगम एव तत्तदर्थप्रतीतेः, यत्र तु पुरुषः प्रती-
त्युपायमपरमुपदिशति तत्र तत एवोपायात्तदर्थावधारणम्, उपायमात्रावगमे तु