न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
DevanagariHindipublished654 पृष्ठ
पृष्ठ 147, कुल 654 में से
संदर्भ में पढ़ेंपृष्ठ 147
यम इति चेद् उक्तमत्र यदेव नयनकरणावगमगोचरे संचरति तदेव चाक्षुषं
रूपवद्रूपं वा द्रव्यमद्रव्यं वेति, एवं गुरु द्रव्यमिति कार्त्तस्वरादौ प्रतिभासाद्
गुरुत्वमपि प्रत्यक्षं न पतनानुमेयमेव ।
तस्मात्स्वतन्त्रभावेन विशेषणतया ऽपि वा ।
चाक्षुषज्ञानगम्यं यत्तत्प्रत्यक्षमुपेयताम् ॥
अत एव प्रत्यक्षः कालः, एवं समानन्यायत्वात्पूर्वापरादिप्रत्ययगम्या दिगपि
प्रत्यक्षा वेदितव्येति ।
कालस्यानुमेयत्वम्
अन्ये मन्यन्ते, दण्डी देवदत्तो नीलमुत्पलमिवद्विषयातिरेकस्याग्रहणात्प्र-
त्ययातिशयस्य च परोक्षकालपक्षे ऽपि तत्कारणकस्योपपत्तेरनुमेय एव कालः ।
अप्रत्यक्षत्वमात्रेण न च कालस्य नास्तिता ।
युक्ता पृथिव्यधोभागचन्द्रमःपरभागवत् ॥
अप्रतिभासमानो ऽपि कालः संस्कार इवेन्द्रियसहचरितः