न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 149, कुल 654 में से
संदर्भ में पढ़ेंलो ऽप्यतीत उच्यते, अनारब्धफलावच्छेदाद्भविष्यन्ती क्रियोच्यते पच्यतीति
तथा कालो ऽपीत्येवं सोपाधिकः काले एव वर्त्तमानादित्रयव्यवहारः, अतश्च
यदुच्यते वृक्षात्पततः पर्णस्य भूतभविष्यन्तावध्वानौ दृश्येते न वर्त्तमानः तस्मा-
द्वर्त्तमानः कालो नास्तीति तदसंबद्धम्, अध्वव्यङ्ग्यत्वाभावात्कालस्य, न ह्यध्व-
व्यङ्ग्यः कालभेदः किं तु यथोक्तक्रमेण क्रियाव्यङ्ग्य एवेति, क्रियापरिकल्पित-
भेदनिबन्धनश्चायं क्षणलवकाष्ठाकलानालिकामुहूर्त्तयामाहोरात्रमासत्वयनसंव-
त्सरयुगमन्वन्तरकल्पव्यवहार इत्यलं प्रसङ्गेन ।
तिथ्यादिभेदावधारणं च वैदिककर्मप्रयोगाङ्गम्, पौर्णमास्यां पौर्णमास्या
यजेत अमावश्यायाममावश्यया यजेतेति, एवं वसन्ताद्यृतुभेदो ऽपि तदङ्गं वसन्ते
ब्राह्मणो ऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः वर्षासु रथकार इति, स
चायमृतुतिथ्यादिविभागः क्रिययैव ज्योतिःशास्त्रोपदिष्टविशिष्टराशिसंसृष्टच-
न्द्रादिग्रहगतया लक्ष्यते लौकिकेन च लक्षणेन तेन तेनेति, तद्यथा—
चञ्च्वग्रचुम्बिताताम्रचूताङ्कुरकदम्बकैः ।
कथ्यते कोकिलैरेव मधुरमधुरकूजितैः ॥
दिवाकरकरालातपातनिर्दग्धवीरुधः ।
मार्गाः समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः ॥
शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्बरैः ।
प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥
मौक्तिकाकारविस्तारितारानिकरचित्रितम् ।
शरत्पिशुनतां याति यमुनाम्भोनिभं नभः ॥
आयामियामिनीभोगसफलाभोगविभ्रमाः ।
हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः ॥
आस्कन्दन्दलत्कुन्दकलिकोत्करदन्तुराः ।
वदन्ति शिशिरं वातास्तुषारकणकर्कशाः ॥
तस्मादेको ऽप्ययं कालः क्रियाभेदाद्विभिद्यते ।
दिङ्निरूपणम्—
एतेन सदृशन्यायान् मन्तव्या दिक्समर्थिता ॥
पूर्वपश्चिमादिप्रत्ययानां केवलवृक्षादिप्रत्ययवैलक्षण्येन कारणान्तरानुमाना-
त्, दिग्लिङ्गाविशेषादेकत्वे ऽपि दिशो दशविधाः, प्रदक्षिणावर्त्तपरिवर्त्तमानमा-
र्त्तण्डमण्डलमरीचिनिचयचुम्ब्यमानकाञ्चनाचलकटकसंयोगोपाधिकृतः पूर्वप-
श्चिमादिभेदः कल्प्यते, पूर्वा पूर्वदक्षिणा दक्षिणा दक्षिणपश्चिमा पश्चिमा पश्चि-
मोत्तरा उत्तरा उत्तरपूर्वा अधस्तनी ऊर्ध्वा चेति, देवतापरिग्रहवशाच्च पुनरेषैव