सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 145, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 145

प्रमाणप्रकरणम् १२३
एतेन शक्त्यनुमानमपि व्युदस्तं वेदितव्यम्, पुरा च सविस्तरमतीन्द्रिय-
शक्तिनिराकरणं कृतमेव।
तेनादृष्टक्रियाशक्तिस्त्वलक्षणमिति क्षमम्।
नेदं सामान्यतोदृष्टमिति पूर्वोक्तमेव तत्॥
इति मतुपि वतौ वा प्रत्यये वर्त्तमाने
त्रिविधमिदमिहोक्तं युक्तमेवानुमानम्।
परकविरचितानां लक्षणानां त्वमुष्मि-
न्सति न भवति शोभा भास्वतीवेन्दुभासाम्॥
बौद्धोक्तप्रतिबन्धदूषणदिशा तल्लक्षणं दूषितं
भूयोदृष्टमितान्वयैककरणं शोच्यं पुनः शाबरम्।
सांख्यानां तु कुतो ऽनुमानघटनोपादानरूपा यत-
स्तेषां जातिरसौ च तद्विकृतिवद्भिन्नेति दुःस्थो ऽन्वयः॥
अनुमानस्य त्रिकाळविषयत्वम्
इदमिदानीं चिन्त्यते, यदेतदिन्द्रियादिसन्निकर्षजत्वादिना लक्षितमस्मदादि-
प्रत्यक्षं तत्किल प्रायशो वर्त्तमानकालविशिष्टवस्तुविषयम्, एवमिदमनुमानम-
पि किं तद्गोचरमेव किं वा कालान्तरपरिच्छेदे ऽपि क्षममिति तदुच्यते, त्रिका-
लविषयमनुमानमिति, कस्मात् त्रैकाल्यग्रहात् त्रिकालयुक्ता अर्था अनुमानेन गृ-
ह्यन्ते, भूता नदीपूरेण वृष्टिरनुमीयते सैव भविष्यन्ती मेघोन्नत्या धूमेन वर्त्तमा-
नोऽग्निरिति, अतश्च यन्मीमांसकैरुच्यते चोदना हि भूतं भवन्तं भविष्यन्तं
सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुं नान्यदिति त-
दयुक्तम्, चोदनावत्प्रमाणान्तरस्याप्येवंजातीयकविषयत्वोपपत्तेः, प्रत्यक्षमपि
योगिनां त्रिकालविषयमुक्तमस्मदादीनामपि क्व चिदिति।
काळाक्षेपः-
अत्र चोदयन्ति, काले सति त्रैकाल्यग्रहणं चिन्त्यं स एव तु दुरुपपादः त-
दभावे कस्य वर्त्तमानादिविभागो निरूप्यते।
न तावद् गृह्यते कालः प्रत्यक्षेण घटादिवत्।
चिरक्षिप्रविबोधो ऽपि कार्यमात्रावलम्बनः॥
न चामुनेव लिङ्गेन कालस्य परिकल्पना।
प्रतिबन्धो हि दृष्टो ऽत्र न धूमज्वलनादिवत्॥
प्रतिभासाऽतिरेकस्तु कथं चिदुपपत्स्यते।
प्रचितां कां चिदाश्रित्य क्रियाक्षणपरम्पराम्॥