सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 137, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 137

फलपूर्वकमनुमानमिति तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करण-
वाचिना सह सामानाधिकरण्यं न स्यात्तत्पूर्वकमनुमानमिति प्रत्यक्षफलेन
हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुपजन्यते सा चानुमानफलं नानुमानमि-
ति, उच्यते—उभयथा ऽपि न दोषः, कारणावमर्शे तावदिन्द्रियादिकरणपूर्वकं
तत्फलं लिङ्गदर्शनं यत् तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्व-
कशब्दस्य पाठ उपयुज्यते, फले ऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं य-
दविनाभावस्मरणं तदनुमानं करणमेव ततः परोक्षार्थप्रतिपत्तेः, यदुक्तं प्रत्युत्प-
न्नकारणजन्या स्मृतिरनुमानमिति स्पष्टमेव सामानाधिकरण्यम्, फले वा अनु-
मानशब्दं वर्णयिष्यामः अनुमितिरनुमानमिति, यतःशब्दं वा अध्याहरिष्यामः
प्रत्यक्षफलपूर्वकं परोक्षार्थप्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति, अत्र
हि प्रथमं लिङ्गदर्शनं ततः प्रतिबन्धस्मरणं ततः केषां चिन्मते परामर्शज्ञानं ततः
साध्यार्थप्रतीतिस्ततःप्रत्यक्षलक्षणावसरवर्णितेन क्रमेण हेयादिज्ञानमितीति प्र-
तीतिकलापे यथोपपत्ति कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवल-
मनुमानलक्षणक्षममिति गुरवो वर्णयां चक्रुः ।

सूत्रस्थस्य त्रिविधपदस्य कृत्यम्—

अन्ये पुनः उपमानाद्यतिव्याप्तिव्युदासाय त्रिविधग्रहणं व्याख्यातवन्तः,
तत्पूर्वकमनुमानमित्युच्यमाने सति उपमानादौ प्रसङ्ग इति त्रिविधग्रहणम्,
लिङ्गं वक्ष्यमाणकार्यादिभेदाद्वा त्रिविधं पक्षधर्मादिरूपत्रययोगाद्वा त्रिरूपं
त्रिविधमुच्यते, लिङ्गे च त्रिविधे सति तदालम्बनज्ञानमुपचारात्त्रिविधमभिधी-
यते, तेन प्रत्यक्षपूर्वकं त्रिविधलिङ्गालम्बनज्ञानमनुमानमित्युक्ते सति नातिव्याप्तिः।
ननु पूर्ववदादिभिः शब्दैः कार्यादिभेदवर्णनं ज्ञास्यामः पक्षधर्मादिरूपत्रयं तु
कथमेभिः शब्दैः प्रतिपाद्यते इति,
अत्राहुः वादादिकथात्रयेऽपि पूर्वमुपादीयमानत्वात्पक्षः पूर्वशब्देनोच्यते
सो ऽस्यास्त्याश्रयत्वेनेति पूर्ववल्लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति,
पक्षे उपयुक्ते सति शेषः सपक्षो भवति सो ऽस्यास्त्याश्रयत्वेनेति शेषवत्, एव-
मनेन सपक्षे वृत्तिरुक्ता भवति, सामान्यतोदृष्टमित्यनेन विपक्षाद्व्यावृत्तं लिङ्गमु-
च्यते, कथम्, अकारप्रश्लेषात् सामान्यतो ऽदृष्टमिति तिष्ठतु तावद्विशेषः सा-
मान्यतो ऽपि न दृष्टम्, क्वेति पक्षसपक्षयोर्वृत्तेरुक्तत्वात्परिशेषाद्विपक्षे सामा-
न्यतो ऽपि न दृष्टमित्यवतिष्ठते इत्थं त्रिरूपं लिङ्गमेभिः शब्दैरुक्तं भवति, त-
दालम्बनं ज्ञानमनुमानम् ।
तदेवं लक्षणे कश्चित्सर्वं सूत्रमयोजयत् ।
एवं तु ख्यापितं न स्यात्सूत्रकारस्य कौशलम् ॥