न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 148, कुल 654 में से
संदर्भ में पढ़ेंचिरेणास्तं गतो भानुः शीतांशुः शीघ्रमुद्गतः ।
उदिताविव दृश्येते युगपद्भौमभार्गवौ ॥
इति दृश्यते प्रतिभासः, न च ग्रहान्तरपरिस्पन्दकारणक एष शक्यते वक्तु-
मनवस्थाप्रसङ्गात्, तस्मान्न ग्रहादिपरिस्पन्दः कालः किं तु वस्त्वन्तरं यत्कृतो
ऽयं क्रमादिव्यवहारः ।
ननु भवत्कल्पितो ऽपि कालः किं स्वत एव क्रमस्वभावः हेत्वन्तराद्वा, स्व-
तस्तस्य तत्स्वभावत्वे कार्यस्यैव पटादेः परिदृश्यमानस्य तत्स्वाभाव्यं भवतु किं
कालेन, हेत्वन्तरपक्षे त्वनवस्था तस्यापि हेत्वन्तरापेक्षत्वादिति ।
तदेतद्बालिशचोद्यम्, शुक्लगुणादावप्येवं वक्तुं शक्यत्वात्, गुणस्य स्वतः
शुक्लस्वभावत्वे द्रव्यस्यैव तद्वक्तुं किं गुणेन गुणान्तरकल्पने त्वनवस्थेति, अथ
तत्र तथा दर्शनान्नेदं चोद्यं यदिहापि समानम्, कार्येषु पटादिषु निमित्तान्तरकृतः
क्रमादिव्यवहारो निमित्तान्तरे निमित्तान्तरं न मृग्यमिति, तस्मादस्ति युगपदा-
दिव्यवहारहेतुः कालः, अतश्चैवम्—
दृष्टः परापरत्वस्य दिक्कृतस्य विपर्ययः ।
युवस्थविरयोः सो ऽपि विना कालं न सिध्यति ॥
दूरतरदिगवच्छिन्नो देवदत्तादिः पर इति प्रतिभासते निकटदिगवच्छिन्नस्तु
अपर इति, तदत्र न कालव्यतिरिक्तं कारणमुपपद्यते इत्यतो ऽनुमीयते कालः,
सचायमाकाशवत्सर्वत्रैकः कालः यथा ऽऽकाशलिङ्गस्य शब्दस्य सर्वत्राविशेषा-
द्विशेषलिङ्गाभावाच्चैकः आकाशः, सर्वत्र तद्व्यवहाराद्विभुः, अवयवाश्रयानुप-
लम्भाद् निरवयवः, अनाश्रितश्चानाश्रितत्वादेव द्रव्यम्, अत एवावयवविभा-
गादिनाशकारणानुपपत्तेर्नित्य इति ।
कालत्रैविध्यम्
नन्वेवं चैकत्वात्कालस्य कुतो वर्त्तमानादिविभागः तदभावात्कथं त्रिकाल-
विषयमनुमानमुच्यते, उच्यते न तात्त्विकः कालस्य भेदो वर्त्तमानादिः, किं त्व-
सन्नप्यसौ व्यवहारसिद्धये केन चिदुपाधिना कल्प्यते, कः पुनरसावुपाधिः क्रि-
येति ब्रूमः ।
ननु तस्या अपि न स्वतो वर्त्तमानादिभेदः तद्भावे वा सैव तथा भवतु किं
कालेन, मैवम्, उत्पत्तिस्थितिनिरोधयोगिफलावच्छेदेन नानाक्षणपरम्परात्मिका-
पि क्रियेत्युच्यते सा वर्त्तमानादिभेदवती च, तथा हि, स्थाल्यधिश्रयणात्प्रभृति
आ तदवतरणादुत्पद्यमानौदनाख्यफलावच्छेदात्क्रिया वर्त्तमानोच्यते पचतीति
तदवच्छेदाद् घटाकाशवत्कालो ऽपि तावान् वर्त्तमान इत्युच्यते, अभिनिर्वृत्त-
फलावच्छेदात्मा परिस्पन्दसन्ततिरतीता भवति अपाक्षीदिति तदवच्छेदात्का-