सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५
न्वेष्टव्यम् । यदि चिरकालप्रवृत्तत्वेन बहुजनो-
द्घोष्यमाणत्वं, तद्युक्तमेव । अन्यथा प्रवाद एव
नासौ, तथाच सति नास्य मिथ्यात्वम् । चिर-
तरमनेकजनप्रथितत्वेऽपि कुतोऽस्योद्भव इत्येवं
विधिमूलं परीक्ष्यते, तर्ह्यागमपरीक्षैवेयं, न
लोकवादविचारः । नैंचैतदेवं, यतो भवद्भि-
रपि श्रुतिरूपादागमादन्य एव सज्जनसेवितो
व्यवहारः शिष्टाचाराख्यो धर्ममूलत्वेनाभ्यु-
पगत इत्यलं प्रद्वेषेण ॥ १४ ॥
तदेवं संमूलेन लोकप्रवादेनेश्वराख्यवि-
शिष्टदेवतासंभवः । तथाहि
उपमन्युर्हरं दृष्ट्वा
विमन्युरभवन्मुनिः ।
किं न नामाखिलजनप्रतीतमेतद्यन्मुनिरुप-
मन्युः परमेश्वरेण वरप्रदानेनानुगृहीतः । तथाच
महाभारते आनुशासनिके पर्वणि भगवद्व्यास-
मुनिनोपमन्युवाक्यं प्रदर्शितं
'आह मां भगवान्नीशः प्रहसन्निव शङ्करः ।
वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुङ्गव ॥
१ आगमपरीक्षापर्यन्तः किमर्थं यत्नः क्रियते । त्वयापि शिष्टाचारः स्वीकृतः
इत्यत आह नचेति । २ 'वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।'

३६ मृगेन्द्रतन्त्रे । [ १११
दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितस्त्वसि ।
अनया वत्स सद्भक्त्या तेऽत्यर्थं प्रीतवानहम् ॥
तस्मात्सर्वान्प्रदास्यामि वरान्ये मनसि स्थिताः ।'
इति ॥
अथोच्यते मिथ्यैतदुपमन्युनात्मप्रभावक-
थनायोक्तम् , अत्र हि किं प्रमाणं यदेवमसौ
भगवतानुगृहीत इति । तदसद्यस्मात्
कथं तस्य वचो मिथ्या
यस्य वश्यः पयोनिधिः ॥१५॥
यस्य किल सकलमुनिजनप्रत्यक्षपरिदृश्य-
मानः क्षीराब्धिः स्वाधीनः, तस्य वचसः किं
नाम मिथ्यात्वम्। अयमाशयः-परमेश्वरात् प्रा-
प्तवरोऽहमित्यनृतवादित्वं तदानीं तस्य भवेत् ,
यदि दुग्धोदधिवशीकारः प्रचुरमुनिजनप्रत्यक्षो
न स्यात् । यदि च संवादीन्यपि वचांसि
मिथ्या, तर्हि न किंचित्सत्यवचनम् । प्रशा-
न्तरागद्वेषाणां साक्षात्कृतभूतभविष्यदर्थानां
मुनीनामपि मिथ्यावादित्वाभ्युपगमे, मन्वा-
१ प्रामाणिकानि ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३७
द्वयोऽपि दत्तदक्षिणास्त्वयेत्यहो स्वदर्शनकौश-
लम् ॥ १५ ॥
किंच
क्रोडीकृतो हि पाशेन
विषज्वालावलीमुचा ।
हुङ्कृत्य मोचितः पत्या
दृष्टः श्वेतो घनैर्जनैः ॥ १६ ॥
विषानलार्चिःपरंपराक्षेपभीषणेनाशीविषपा-
शेन विवशीकृतः श्वेतः पातीति पतिस्तेन
पत्या त्राणशीलेन परमेश्वरेण हुङ्कारमात्रं कृत्वा
क्रोधाग्निना भस्मीकृत्य मोचितः इति घनैर्वि-
रलैर्भूयोभिर्जनैरस्मत्सजातीयैर्मुनिप्रभृतिभिश्च
दृष्टः । अत्रापि त्रिकालदर्शिभिर्देवैश्च प्रवर्तिते
प्रवादे यद्यसमा२श्वासस्तर्हि आगममेव न स-
हत इति वक्तव्यं, तथाच सति श्रुतिरपि
१ कदाचित

३८ मृगेन्द्रतन्त्रे । [१।१
असहनस्य भवतः प्रामाण्यलाभे दैन्येन भीत-
भीता मुखमन्वीक्षत इति तदनुकम्पया संर-
क्ष्यतामतिसाहसम् । ननु मिथ्यात्वहेतूनां
दोषाणां कर्त्राश्रयत्वादकृतकत्वेन नित्यत्वात्
श्रुतेस्तस्याः प्रामाण्याय कोऽयमुपहासः । न
कश्चित्, किंतु कर्तृभावनिश्चये प्रमाणं नो-
त्पश्यामः प्रत्युत 'स्वयंभुवे नमस्कृत्य' इत्या-
दिवाक्यवत् रचनावत्त्वात् कर्तृव्यापारावि-
नाभावित्वमुत्प्रेक्षामह इत्यलमनेन । प्रकृत-
मनुसरामः ॥ १६ ॥
इति वादानुषङ्गेण
हरशंसाप्रहर्षितान् ।
साश्रुगद्गदवाचस्ता-
न्वीक्ष्य प्रीतोऽभवद्धरिः ॥१७॥
उक्तवदेवतास्तित्वप्रस्तावायायातपरमेश्वर-
प्रशंसाहर्षप्रवृत्तानन्दाश्रुवशादविस्पष्टगिरस्ता-
न्भरद्वाजादीन् दृष्ट्वा इन्द्रस्तान्प्रति परं तुतोष
इत्येवं हारीतमुनिः स्वशिष्यानाह ॥ १७ ॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३९
स्वं रूपं दर्शयामास
वज्री देवः शतक्रतुः ।
तरुणादित्यसंकाशं
स्तूयमानं मरुद्गणैः ॥ १८ ॥
प्रत्यग्रार्कभास्वरं देवैर्गणैश्च स्तूयमानमा-
त्मीयं रूपं वज्रपाणिर्देवः शतक्रतुः प्रकटी-
चकार । तेजोतिशययोगस्य हेतुतया शतक्रतु-
र्वज्रीति च विशेषणद्वयम् । कुलिशस्य स्वभाव
एवायं यदद्भुतप्रभाभास्वरत्वं, शतक्रतुत्वाच्च
तज्जनितपुण्यप्रभावादद्भुतभूरिमहःसमूहत्वमि-
ति ॥ १८ ॥
ते तमृग्भिर्यजुर्भिश्च
सामभिश्चास्तुवन्नताः ।
सोऽब्रवीदुच्यतां कामो
जगत्सु प्रवरोऽपि यः ॥ १९ ॥
ते वव्रिरे शिवज्ञानं
श्रूयतामिति सोऽब्रवीत् ।

४० मृगेन्द्रतन्त्रे । [ १।१
किंत्वेकोऽस्तु मम प्रष्टा
निखिलश्रोतृसंमतः ॥२०॥
ते भरद्वाजादयस्तं प्रत्यक्षीकृतस्वस्वरूपमिन्द्रं
ऋग्यजुःसामभिः प्रह्वाः सन्तस्तुष्टुवुः । स च
सर्वजगत्प्रवरो वरो भवद्भिरभ्यर्थ्यतामिति
तानाह । ते तदैवमुक्ताः पारमेश्वरं ज्ञानं शास्त्रं
वृतवन्तः । स तु तदभ्यर्थितं ज्ञानोपदेशं दातुं
तान् प्रतिवचनं श्रूयतामित्याह, किंतु ममैक
एव भवतां मध्यात् सकलश्रोतृजनाभिमतो
यथावसरमनुक्तवस्तुनः प्रष्टा भवतु, सर्वैश्चैव
भवद्भिः श्रूयतामिति ॥ २० ॥
एवं भगवता शक्रेणोक्ते सति
अथ तेषां भरद्वाजो
भगवानग्रणीरभूत् ।
वाग्मी प्रगल्भः पप्रच्छ
न्यायतः सुरपूजितम् ॥ २१ ॥
अथानन्तरं, तेषां मध्यादैश्वर्यादिगुणयो-
गात् भगवान् विविधशास्त्राभ्यासाधिवासप्रश-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ४१
स्यवाग्युक्तत्वाच्च वाग्मी, प्रष्टव्यावसरेषु अकौ-
शलाप्रतिपत्त्याद्ययोगात् प्रगल्भश्च भरद्वाजो
मुनिर्नार्यत इति न्यायेन शिष्योचितया
नीत्या युक्त्युपपन्नपूर्वपक्षकरणेन वा इन्द्रमपृ-
च्छदिति ॥ २१ ॥
आह
कथं महेश्वरादेत-
दागतं ज्ञानमुत्तमम् ।
किं च चेतसि संस्थाप्य
निर्ममे भगवानिदम् ॥ २२ ॥
यदेतद्भगवता अस्मभ्यमुपदेष्टुमारब्धमित-
रेभ्यो ज्ञानेभ्यः सातिशयफलत्वाच्छ्रेष्ठतमं ज्ञानं,
तत्कथं महेश्वरात् प्रशान्तस्वरुपान्निष्कळाच्छि-
वात्प्रसृतम् । ज्ञानं हि द्विरूपमवबोध-
रूपं शब्दरूपं च । तदवबोधरूपं शब्दरूपा-
रूढं सर्वेषु प्रवर्तते । तत्रादितः परमेश्वरादव-
बोधरूपमेव तावत्कथं प्राप्तं, कथंच शब्दरू-
१ ज्ञायतेऽनेनेति ज्ञानं शास्त्रं शब्दसमुदाय इति यावत् ।
६

४२ मृगेन्द्रतन्त्रे । [ १।१
पतामेत्य बहुभेदभिन्नं संपन्नम् । किंचाकलय्य१,
भगवानिदमकरोत् । नह्यनभिसं२हितप्रयोजनः
कश्चित्कर्ता किंचित्कार्यं कुर्वन् दृष्टः । तस्य च
भगवत एतत्करणे किं कारणमित्यर्थः ॥ २२ ॥
अथात्र प्रतिवचनम्
सृष्टिकाले महेशानः
पुरुषार्थप्रसिद्धये ।
विधत्ते विमलं ज्ञानं
पञ्चस्रोतोऽभिलक्षितम् ॥ २३ ॥
सर्गप्रारम्भे परमेश्वरेण पुरुषार्थस्य भुक्ति-
मुक्त्यात्मनः संपत्त्यर्थं विमलमित्यवबोधात्मनो
नादरूपत्वेन प्रथमं प्रसृतत्वादगृहीतोपाधि-
भेदं, परतस्तूर्ध्वप्राग्दक्षिणपश्चिमोत्तरस्रोतःप-
ञ्चकेनाभितः समन्तात्प्रसृतत्वेन लक्षितमिति
सदाशिवरूपेण दर्शनात्मतां प्रापितं, ज्ञानं नि-
र्तिमिति क्रमः । प्रयोजनं च पूर्वप्रश्नि-
तमुपवर्णितम् ॥ २३ ॥
१ आकलय्य विचार्य । २ निष्प्रयोजनः ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ४३
किंच
तद्वर्तिवाचकव्रात-
वाच्यानष्टौ महेश्वरान् ।
सप्तकोटिप्रसंख्याता-
न्मन्त्रांश्च परमेऽध्वनि ॥ २४ ॥
मन्त्रोद्धारप्रकरणाभिधास्यमानज्ञानमध्यव-
र्तिनो वाचकव्रातस्य मन्त्रगणस्य ये वाच्या अन-
न्तादयोऽष्टौ विद्येशास्तांस्तथा मायीयस्याशुद्ध-
स्याध्वनस्तत्कालमनाविर्भावाच्छुद्धविद्याभुवने
कृतस्थितीन् सप्तकोटिसंख्यातान् मन्त्रान् परमे-
श्वरो विधत्त इति पूर्वेण संबन्धः । कालसामान्ये-
ऽपि प्रथमलकारस्य स्पष्टत्वात् सृष्टिकाले व्यधा-
दित्यर्थः, प्रतिसर्गकालं वा तथा करोतीति
वर्तमानतैव । तत्र विद्येश्वराणां वामादिशक्ति-
योगित्वेन स्वसमप्रभावाविर्भावनं नाम करणं,
मन्त्राणां त्वागमापगमात् प्रकटीकृतदृक्क्रियत्व-
म् । उभयेषामप्येषां परमेश्वराज्ज्ञानक्रियाश-
क्त्योरुद्दीपनं ज्ञेयम्, न पुनर्मुक्ताणुवन्निर्मलीक-

४४ मृगेन्द्रतन्त्रे । [ २।१
रणमधिकारमलेनापरत्वान्मुक्तेरस्या इति व-
क्ष्यामः ॥ २४ ॥
तदेवं मन्त्रमहेश्वरान्मन्त्रांश्चोक्त्वा, मन्त्रेश्वरा-
न्वक्तुमाह
अष्टादशाधिकं चान्य-
च्छुतं मायाधिकारिणाम् ।
मन्त्रेश्वराणामूर्ध्वाध्व-
स्थितेशोपमतेजसाम् ॥ २५ ॥
मायायामधिकारिणो मायाधिकारिणस्तेषा-
मुपरितनशुद्धाध्ववर्तिविद्येश्वरसमानधाम्नाम-
ष्टादशाधिकं शतं विधत्त इति पूर्वेणैव संबन्धः ।
तत्र मण्डलिनोऽष्टौ वक्ष्यमाणाः, क्रोधाद्या-
श्चाष्टावेव, रुद्राणां च ब्रह्माण्डधारकाणां शतं,
श्रीकण्ठवीरभद्रौ चेत्येवमष्टादशोत्तरं शतं प्रा-
ग्वन्मन्त्रेश्वरत्वे शिवेन नियुक्तमित्यर्थः ॥ २५ ॥
[L1

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ४५
तेष्वनन्तादिषु मन्त्रमहेश्वरेषु, मण्डल्यादिषु
च मन्त्रेश्वरेष्वभिव्यक्तो देव इदमित्यनन्तरोप-
क्रान्तं ज्ञानं प्रकाशयति । कस्मिन्विषये, किमर्थं
प्रकाशयतीत्याह योग्येषु सिद्धये परिपक्काञ्-
नत्वान्निरतिशयश्रेयःप्रेप्सुषु भुक्त्यर्थं मुक्त्यर्थं
च वक्तीत्यर्थः । अतोऽन्येष्विति एतच्छास्त्रा-
र्हेभ्यो येऽन्ये अपरिपक्काञ्जनतया पशुशास्त्रा-
नुवर्तिनस्तेषु विषयेषु यः कापिलपाञ्चरात्रादि-
प्राप्योऽर्थः सम्यगिति तदुक्तयोग्यतानुसारेणो-
पपद्यते अनुगुणो भवति, तं प्रकाशयति ।
पशुशास्त्रप्रणेतॄनधिष्ठाय तत्तच्छास्त्रप्रकाशन-
मपि पारम्पर्येण कुरुत इति यावत् ॥ २६ ॥
अथास्य ज्ञानस्यास्मभ्यमभिधीयमानस्य कि-
मभिधानमित्याह
शिवोदीर्णमिदं ज्ञानं
मन्त्रमन्त्रेश्वरेश्वरैः ।
कामदत्वात्कामिकेति
प्रगीतं बहुविस्तरम् ॥ २७ ॥

४६ मृगेन्द्रतन्त्रे । [ १।१
परमेश्वरात्प्रोक्तेन क्रमेण प्रसृतमेतज्ज्ञानं
शास्त्रं स्कन्दस्य देव्यास्तदन्येषां च पृथक्
पृथक् श्रोतॄणां बहुत्वान्बहुभेदत्वेन विस्तरम-
भिमतकामदत्वात् कामिकत्वेनोपदेष्टृभिर्मन्त्रा-
णां मन्त्रेश्वराणां चेश्वरैर्मन्त्रमहेश्वरैरनन्तादि-
भिरुपदिष्टम् ॥ २७ ॥
तेभ्य आगमय्य कस्मै कियता ग्रन्थेन को
दत्तवानित्याह
तेभ्योऽवगत्य दृग्ज्योति-
र्ज्वालालीढस्मरद्रुमः ।
ददावुमापतिर्मह्यं
सहस्रैर्भवसंमितैः ॥ २८ ॥
तेभ्योऽनन्तेशादिभ्यस्तृतीयनेत्राग्निशिखा-
निर्दग्धस्मरतरुर्भगवानुमापतिरधिगम्य भवसं-
ख्यैरेकादशभिः सहस्रैः संक्षिप्य मह्यमदात् ॥
सोऽहमिदानीं
तत्रापि विस्तरं हित्वा
सूत्रैः सारार्थवाचकैः ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १७
वक्ष्ये निराकुलं ज्ञानं
तदुक्तैरेव भूयसा ॥ २९ ॥
तत्रापि अर्थवादानुवादरूपं विस्तरं त्यक्त्वा,
सारार्थाभिधायिभिर्बाहुल्येन क्वचित्तदुक्तैः, क्व-
चिच्चात्मीयैर्निराकुलं ऋजुं ज्ञानं शास्त्रमभिधास्ये
इतीन्द्रो मुनीनाहेति हारीतः स्वशिष्यान्
ब्रूते ॥ २९ ॥
इति श्रीमद्भट्टविद्याकण्ठात्मजभट्टनारायणकण्ठकृतौ मृगेन्द्र-
टीकायामुपोद्घातप्रकरणं प्रथमम् ॥ १ ॥

अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( द्वितीयः पटलः )
अथानादिमलापेतः
सर्वकृत्सर्वविच्छिवः ।
पूर्वव्यत्यासितस्याणोः
पाशजालमपोहति ॥ १ ॥
संबन्धाभिधेयप्रयोजनानि प्रथममेव वि-
वेचितानि । अथेत्यानुषङ्गिकसंबन्धादिकथना-
दनन्तरं विद्याख्यः पादः प्रक्रम्यते । अत्र च
शास्त्रे पतिपशुपाशाख्यास्त्रयः पदार्थाः । पशूना-
मस्वातन्त्र्यात् पाशानामाचैतन्यात् तद्विलक्षणस्य
पत्युः १पञ्चविधकृत्यकारित्वम्, तत्कारकाणि
स्वशक्तिरूपाणि मायादीनि च, क्रिया च दीक्षा-
ख्या, तत्फलं च पशूनामनुग्रहाख्येन कर्मणा
परकैवल्यासादनमित्यादि अभिधास्यमानम् ।
तद्गर्भीकारेणेदं मूलसूत्रम् । अनादिमलापेत
इति। अनादिशब्दः क्रियाविशेषणम् । अनादि
१ सृष्टिस्थितिसंहाराविर्भावतिरोभावात्मकं पञ्चविधं कृत्यम् ।

कृत्वा मलापेतः स्वभावनिर्मलः परमेश्वरः१,
तथा अनादिश्चासौ मलापेतश्च तत्प्रसादात्२
प्रध्वस्तसमस्तमलो मुक्ताणुवर्गः, किंच अना-
देर्मलादपेतः स्वाभाविकमलविदारणात् पर-
मेश्वरेण प्रकटीकृतदृक्क्रियः३ किंचिदवशेषि-
तत्त्वादादिमता अधिकारमलेन युक्तो मन्त्रम-
न्त्रेश्वरमन्त्रमहेश्वरवर्ग इत्येवं समासत्रयकर-
णात् मुक्ताणुभिर्विद्येश्वरादिभिश्च सहितः प-
तिपदार्थः अत्र सूचितः। तस्य च त्रिविधस्यापि
सर्वज्ञता सर्वकर्तृत्वं च विद्यते, मुक्तात्मनां
तु सत्यपि सर्वार्थदृक्क्रियत्वे पाशजालापोहन-
सामर्थ्यमस्ति, नत्वपोहनकर्तृत्वम्। यतस्ते क-
रणीयस्याभावात् न प्रवर्तन्ते, अतः स्वात्मन्येव
श्रेयोयोगाच्छिवत्वमेतेषां, विद्येश्वराणां शिव-
पदप्राप्तिहेतुत्वात्, भगवतस्तु सर्वानुग्रहप्रवृ-
त्त्वात्। तथाच मुक्तात्मनामप्रवृत्तत्वात् वि-
द्येश्वराणां च परमेश्वरपारतन्त्र्यात् स्वतन्त्रः स
भगवान्। किं करोतीत्याह पूर्वव्यत्यासितस्याणोः
१ परमेश्वरः पतिः। २ अनादिरपि मुक्ताणुवर्गः ईश्वरप्रसादात् प्रध्वस्त-
समस्तमलः अधिकारमलरहितः। ३ प्रकटीकृते दृक्क्रिये यस्य सः, यस्य
परमेश्वरेण दृक्शक्तिः क्रियाशक्तिश्च प्रकटीकृते।
७

पाशजालं व्यपोहतीति अणोरिति विज्ञाना-
कलप्रलयाकलसकलत्वेन त्रिरूपस्य, तथा वि-
ज्ञानाकलप्रलयाकलात्मनोर्विपर्यवसितमलेश्व-
रशक्त्यधिकारतदन्यथाभावभेदात् प्रत्येकं द्वि-
विधयोः, सकलस्यापि त्रिबन्धनबद्धस्य, कुत-
श्चिदुपायात्प्रक्षीणकर्मतया केवलकलादियु-
क्तस्य च, एवं द्विप्रकारस्यास्यैव च प्रत्येकं
विदेहसदेहभेदात् प्रतिभेदं च मलाद्यधिकार-
विरहिणस्तद्युक्तस्य चेत्यष्टप्रकारस्य, इत्थमनेक-
भेदभिन्नस्यात्मनः परमेश्वरः पाशजालं यथा-
संभवमपोहतीति संबन्धः । यस्य च यथा
१ विपर्यवसितो मलो यया सा विपर्यवसितमला नाशितमलेति यावत्,
तादृशी या ईश्वरशक्तिस्तया कृताधिकारः, तया अकृताधिकारश्च, ताभ्यां भे-
दाभ्यां भिन्नौ विज्ञानाकलप्रलयाकलौ । ईश्वरशक्तिनाशितमलः सन् ईश्वरशक्ति-
दत्ताधिकारवान् विज्ञानाकलः प्रथमः । ईश्वरशक्तिनाशितमलः सन् ईश्वर-
शक्तिदत्ताधिकाररहितः विज्ञानाकलो द्वितीयः । एवमीश्वरशक्तिनाशितमलः
सन् ईश्वरशक्तिदत्ताधिकारवान् प्रलयाकलः प्रथमः, ईश्वरशक्तिनाशितमलः
सन् ईश्वरशक्तिदत्ताधिकाररहितः प्रलयाकलो द्वितीयः ।
२ त्रिविधबन्धनबद्धो विदेहसकलः १ उपायात्प्रक्षीणकर्मा केवलकलादि-
युक्तो विदेहसकलः २ त्रिविधबन्धनबद्धः सदेहसकलः ३ उपायात्प्रक्षीण-
कर्मा केवलकलादियुक्तः सदेहसकलः ४ त्रिविधबन्धनबद्धविदेहो मला-
द्यधिकारयुक्तः सकलः ५ उपायात्प्रक्षीणकर्मा केवलकलादियुक्तविदेहो
मलाद्यधिकाररहितः सकलः ६ त्रिविधबन्धनबद्धविदेहो मलाद्यधिकार-
रहितः सकलः ७ उपायात्प्रक्षीणकर्मा केवलकलादियुक्तविदेहो मलाद्यधि-
काररहितः सकलः ८ इत्यष्ट भेदाः ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ५१
चापोहति, तत्सर्वं यथावसरमग्रे वक्ष्यामः ।
कीदृशस्याणोरित्याह पूर्वव्यत्यासितस्येति पूर्वै-
रनादिकालीनैर्मलकर्ममायापरमेश्वरनिरोधश-
क्त्याख्यैर्यथासंभवं हेतुतया स्थितैर्व्यत्यासि-
तस्य परमेश्वराद्वैसादृश्यं प्रापितस्य तत्प्रेर्यस्य
बन्धान्तरयोगिनश्च । अयमर्थः—मलेनेश्वरनि-
रोधशक्त्या कर्मभिश्च सद्भिरणोरशिवत्वं, त-
तश्च बन्धान्तरयोगः, तदपोहने तु शिवत्वम् ।
एवं च शिववैसादृश्ये त एवानादयो हेतवः ।
शिवस्त्वप्रतिबद्धनिरतिशयसर्वार्थदृक्क्रियाशक्तिः
तेषां योग्यतामपेक्ष्य अनुग्रहे प्रवृत्तः पाशव्रात-
मपोहति निरस्यति । 'उपसर्गादस्यत्यूह्योर्वा व-
चनम्' इत्यपोहतिपदम् । तदेवमखिलतन्त्रार्थ-
सूचनादेतन्मूलसूत्रम् । तथाचेहैव व्याख्या-
नावसरे वक्ष्यति
'यत्र बीज इवारूढो महातन्त्रार्थपादपः ।
आभाति मूलसूत्रं तदथशब्दाद्यलङ्कृतम् ।'
इति ॥ १ ॥
१ अथानादिमलापेत इति पूर्वोक्तश्लोकात्मकं मूलसूत्रम्, तदात्मकं
बीजम् । तदन्यत् सर्वश्लोकात्मको महातन्त्रात्मकः पादपः ।

५२ मृगेन्द्रतन्त्रे । [ १।२
अथैतत्सूचितार्थप्रकाशनार्थमुत्तरसूत्रं
त्रिपदार्थं चतुष्पादं
महातन्त्रं जगत्पतिः ।
सूत्रेणैकेन संहृत्य
प्राह विस्तरशः पुनः ॥ २ ॥
पाशसद्भावे १ह्यात्मनां जन्मस्थितिध्वंसति-
रोभावानुग्रहकृत् भगवान् भवतीति पतिपशु-
पाशात्मव्यतिरिक्तं न किंचित्पदार्थान्तरं प्र-
योजनवदेष्वेवान्येषामन्तर्भावादिति त्रिपदा-
र्थत्वमुक्तम् । किंच पाशजालमपोहतीत्यपो-
हतिक्रियाक्षिप्ताः क्रियाचर्यायोगपादाः, प-
तिपशुपाशोक्त्याक्षिप्तश्च विद्यापाद इति पा-
दचतुष्टयोपक्षेपः कृतः । महातन्त्रमिति दर्श-
नान्तरेभ्योऽधिकफलत्वाच्छिवभेदकत्वेन पर-
त्वाद्वा महत् तन्त्रिततत्तत्प्रमेयत्वाच्च तन्त्रम् ।
एकेनैवामुना सूत्रेण संहृत्य संगृह्य पुन-
र्विस्तरेणैतदेव प्रमेयं जगत्पतिः श्रीकण्ठनाथः
प्राह ॥ २ ॥
१ पशूनाम् ।

मूलसूत्रात्सर्वकृत्सर्वविदिति विशेषणद्वयं
व्याचष्टे
जगज्जन्मस्थितिध्वंस-
तिरोभावविमुक्तयः ।
कृत्यं सकारकफलं
ज्ञेयमस्यैतदेव हि ॥ ३ ॥
तेन स्वभावसिद्धेन
भवितव्यं जगत्कृता ।
अर्वाक्सिद्धेऽनवस्था स्या-
न्मोक्षो निर्हेतुकोऽपिवा ॥ ४ ॥
जगतो जन्मवज्जन्तुचक्रस्य १भोगोपयोगि-
परिकरसहितस्य, पौनःपुन्येन तत्तद्विविधयो-
निषु २उद्भावनं जन्म, स्थितिस्तदिच्छानि-
रुद्धस्य सर्वलोकस्य ३स्वगोचरे नियोगः स्था-
पनं, ४ध्वंस आदानं जगद्योनावुपसंहारः, तिरो-
५भावो यथानुरूपाद्भोगादप्रच्यावः संरक्षणा-
ख्ययान्यत्रोक्तः । यदाह वार्तिककारः
१ भोगानुकूलकारकसहितस्य । २ सर्जनम् । ३ स्वर्गनरकादौ नियोजनम् ।
४ मायाख्ये एकत्रिंशत्तमे तत्त्वे जगद्योन्याख्ये । ५ आत्मनस्तिरोभावो नाम
स्वकीयकर्मानुगुणभोगादप्रच्यावोऽदूरीकरणम् ।

‘स्वसंस्कारोचिताद्भोगादप्रच्यावः शरीरिणाम् ।
प्रोक्तं संरक्षणं नाम न्यायेन परिकल्पनम् ॥’
इति । विमुक्तिशब्देनात्रानुध्यानरूपोऽनुग्रह
इत्येतत्परमेश्वरस्य संबन्धि पञ्चविधं कृत्यं, का-
रकैः शक्त्यादिभिः, फलेन च भुक्तिमुक्त्या-
त्मना सहितं ज्ञेयमवबोद्धव्यम् । एतच्च न मा-
यादिभिः कर्मभिर्वा निर्वर्तयितुं शक्यम-
चैतन्यात्, नापि पुरुषेणास्य मलनिरुद्धश-
क्तित्वात् । न चानीश्वरोऽत्र कर्ता युक्तः । यश्चै-
तत्सृष्ट्यादि कर्तुं शक्नोति, सोऽवश्यं तद्विषयज्ञः
चिकीर्षितकार्यविषयाणां ज्ञानविशेषाणामंशे-
नापि वैकल्ये तत्तत्कार्यानिष्पत्तेः । अतश्च सर्व-
कर्त्रा सर्वज्ञेन तेन च स्वभावसिद्धेन जगतः कर्त्रा
भवितव्यम् । अर्वागिति आदिमत्त्वेन सिद्धे त-
स्मिन्नभ्युपगम्यमाने यदि कारणात् कुतश्चित्तस्या-
सावनुग्रहस्तस्यापि कारणं, तत्कारणस्यापि कार-
णान्तरं मृग्यमित्यनवस्था । अथास्य विनैव
कारणं स्वत एव तथाविधमैश्वर्यं तदकस्मा-
जातं, तर्ह्येष निर्हेतुको मोक्षोऽन्यानपेक्षणात्
सर्वस्यैव स्यात्, तस्यापि वा न स्यात् । यदाहुः