मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
DevanagariSanskritpublished448 पृष्ठ
पृष्ठ 69, कुल 448 में से
संदर्भ में पढ़ेंपृष्ठ 69
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३९
स्वं रूपं दर्शयामास
वज्री देवः शतक्रतुः ।
तरुणादित्यसंकाशं
स्तूयमानं मरुद्गणैः ॥ १८ ॥
प्रत्यग्रार्कभास्वरं देवैर्गणैश्च स्तूयमानमा-
त्मीयं रूपं वज्रपाणिर्देवः शतक्रतुः प्रकटी-
चकार । तेजोतिशययोगस्य हेतुतया शतक्रतु-
र्वज्रीति च विशेषणद्वयम् । कुलिशस्य स्वभाव
एवायं यदद्भुतप्रभाभास्वरत्वं, शतक्रतुत्वाच्च
तज्जनितपुण्यप्रभावादद्भुतभूरिमहःसमूहत्वमि-
ति ॥ १८ ॥
ते तमृग्भिर्यजुर्भिश्च
सामभिश्चास्तुवन्नताः ।
सोऽब्रवीदुच्यतां कामो
जगत्सु प्रवरोऽपि यः ॥ १९ ॥
ते वव्रिरे शिवज्ञानं
श्रूयतामिति सोऽब्रवीत् ।