मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 81, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ५१
चापोहति, तत्सर्वं यथावसरमग्रे वक्ष्यामः ।
कीदृशस्याणोरित्याह पूर्वव्यत्यासितस्येति पूर्वै-
रनादिकालीनैर्मलकर्ममायापरमेश्वरनिरोधश-
क्त्याख्यैर्यथासंभवं हेतुतया स्थितैर्व्यत्यासि-
तस्य परमेश्वराद्वैसादृश्यं प्रापितस्य तत्प्रेर्यस्य
बन्धान्तरयोगिनश्च । अयमर्थः—मलेनेश्वरनि-
रोधशक्त्या कर्मभिश्च सद्भिरणोरशिवत्वं, त-
तश्च बन्धान्तरयोगः, तदपोहने तु शिवत्वम् ।
एवं च शिववैसादृश्ये त एवानादयो हेतवः ।
शिवस्त्वप्रतिबद्धनिरतिशयसर्वार्थदृक्क्रियाशक्तिः
तेषां योग्यतामपेक्ष्य अनुग्रहे प्रवृत्तः पाशव्रात-
मपोहति निरस्यति । 'उपसर्गादस्यत्यूह्योर्वा व-
चनम्' इत्यपोहतिपदम् । तदेवमखिलतन्त्रार्थ-
सूचनादेतन्मूलसूत्रम् । तथाचेहैव व्याख्या-
नावसरे वक्ष्यति
'यत्र बीज इवारूढो महातन्त्रार्थपादपः ।
आभाति मूलसूत्रं तदथशब्दाद्यलङ्कृतम् ।'
इति ॥ १ ॥
१ अथानादिमलापेत इति पूर्वोक्तश्लोकात्मकं मूलसूत्रम्, तदात्मकं
बीजम् । तदन्यत् सर्वश्लोकात्मको महातन्त्रात्मकः पादपः ।