मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 82, कुल 448 में से
संदर्भ में पढ़ें५२ मृगेन्द्रतन्त्रे । [ १।२
अथैतत्सूचितार्थप्रकाशनार्थमुत्तरसूत्रं
त्रिपदार्थं चतुष्पादं
महातन्त्रं जगत्पतिः ।
सूत्रेणैकेन संहृत्य
प्राह विस्तरशः पुनः ॥ २ ॥
पाशसद्भावे १ह्यात्मनां जन्मस्थितिध्वंसति-
रोभावानुग्रहकृत् भगवान् भवतीति पतिपशु-
पाशात्मव्यतिरिक्तं न किंचित्पदार्थान्तरं प्र-
योजनवदेष्वेवान्येषामन्तर्भावादिति त्रिपदा-
र्थत्वमुक्तम् । किंच पाशजालमपोहतीत्यपो-
हतिक्रियाक्षिप्ताः क्रियाचर्यायोगपादाः, प-
तिपशुपाशोक्त्याक्षिप्तश्च विद्यापाद इति पा-
दचतुष्टयोपक्षेपः कृतः । महातन्त्रमिति दर्श-
नान्तरेभ्योऽधिकफलत्वाच्छिवभेदकत्वेन पर-
त्वाद्वा महत् तन्त्रिततत्तत्प्रमेयत्वाच्च तन्त्रम् ।
एकेनैवामुना सूत्रेण संहृत्य संगृह्य पुन-
र्विस्तरेणैतदेव प्रमेयं जगत्पतिः श्रीकण्ठनाथः
प्राह ॥ २ ॥
१ पशूनाम् ।