मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 80, कुल 448 में से
संदर्भ में पढ़ेंपाशजालं व्यपोहतीति अणोरिति विज्ञाना-
कलप्रलयाकलसकलत्वेन त्रिरूपस्य, तथा वि-
ज्ञानाकलप्रलयाकलात्मनोर्विपर्यवसितमलेश्व-
रशक्त्यधिकारतदन्यथाभावभेदात् प्रत्येकं द्वि-
विधयोः, सकलस्यापि त्रिबन्धनबद्धस्य, कुत-
श्चिदुपायात्प्रक्षीणकर्मतया केवलकलादियु-
क्तस्य च, एवं द्विप्रकारस्यास्यैव च प्रत्येकं
विदेहसदेहभेदात् प्रतिभेदं च मलाद्यधिकार-
विरहिणस्तद्युक्तस्य चेत्यष्टप्रकारस्य, इत्थमनेक-
भेदभिन्नस्यात्मनः परमेश्वरः पाशजालं यथा-
संभवमपोहतीति संबन्धः । यस्य च यथा
१ विपर्यवसितो मलो यया सा विपर्यवसितमला नाशितमलेति यावत्,
तादृशी या ईश्वरशक्तिस्तया कृताधिकारः, तया अकृताधिकारश्च, ताभ्यां भे-
दाभ्यां भिन्नौ विज्ञानाकलप्रलयाकलौ । ईश्वरशक्तिनाशितमलः सन् ईश्वरशक्ति-
दत्ताधिकारवान् विज्ञानाकलः प्रथमः । ईश्वरशक्तिनाशितमलः सन् ईश्वर-
शक्तिदत्ताधिकाररहितः विज्ञानाकलो द्वितीयः । एवमीश्वरशक्तिनाशितमलः
सन् ईश्वरशक्तिदत्ताधिकारवान् प्रलयाकलः प्रथमः, ईश्वरशक्तिनाशितमलः
सन् ईश्वरशक्तिदत्ताधिकाररहितः प्रलयाकलो द्वितीयः ।
२ त्रिविधबन्धनबद्धो विदेहसकलः १ उपायात्प्रक्षीणकर्मा केवलकलादि-
युक्तो विदेहसकलः २ त्रिविधबन्धनबद्धः सदेहसकलः ३ उपायात्प्रक्षीण-
कर्मा केवलकलादियुक्तः सदेहसकलः ४ त्रिविधबन्धनबद्धविदेहो मला-
द्यधिकारयुक्तः सकलः ५ उपायात्प्रक्षीणकर्मा केवलकलादियुक्तविदेहो
मलाद्यधिकाररहितः सकलः ६ त्रिविधबन्धनबद्धविदेहो मलाद्यधिकार-
रहितः सकलः ७ उपायात्प्रक्षीणकर्मा केवलकलादियुक्तविदेहो मलाद्यधि-
काररहितः सकलः ८ इत्यष्ट भेदाः ।