सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 65, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 65

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५
न्वेष्टव्यम् । यदि चिरकालप्रवृत्तत्वेन बहुजनो-
द्घोष्यमाणत्वं, तद्युक्तमेव । अन्यथा प्रवाद एव
नासौ, तथाच सति नास्य मिथ्यात्वम् । चिर-
तरमनेकजनप्रथितत्वेऽपि कुतोऽस्योद्भव इत्येवं
विधिमूलं परीक्ष्यते, तर्ह्यागमपरीक्षैवेयं, न
लोकवादविचारः । नैंचैतदेवं, यतो भवद्भि-
रपि श्रुतिरूपादागमादन्य एव सज्जनसेवितो
व्यवहारः शिष्टाचाराख्यो धर्ममूलत्वेनाभ्यु-
पगत इत्यलं प्रद्वेषेण ॥ १४ ॥
तदेवं संमूलेन लोकप्रवादेनेश्वराख्यवि-
शिष्टदेवतासंभवः । तथाहि
उपमन्युर्हरं दृष्ट्वा
विमन्युरभवन्मुनिः ।
किं न नामाखिलजनप्रतीतमेतद्यन्मुनिरुप-
मन्युः परमेश्वरेण वरप्रदानेनानुगृहीतः । तथाच
महाभारते आनुशासनिके पर्वणि भगवद्व्यास-
मुनिनोपमन्युवाक्यं प्रदर्शितं
'आह मां भगवान्नीशः प्रहसन्निव शङ्करः ।
वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुङ्गव ॥
१ आगमपरीक्षापर्यन्तः किमर्थं यत्नः क्रियते । त्वयापि शिष्टाचारः स्वीकृतः
इत्यत आह नचेति । २ 'वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।'