सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

३५२ मृगेन्द्रतन्त्रे । [ १।१३
रधिकारिरुद्रैः प्रवर्तितास्ते तस्मिन् काले जग-
न्निर्माय यथास्वमधिकारं विदधति ॥ १८५ ॥
अत्र प्रकृतिस्थाशयत्वश्रुतेर्मुनिः संदिहानः
प्रक्ष्यति
कर्म धर्मादिकं तच्च
गुणत्वेन मतौ स्थितम् ।
गुणिनो न गुणोऽपैति
प्रकृतावुच्यते कथम् ॥ १८६॥
धर्माधर्मरूपं यत्कर्म तद्बुद्धेर्गुणत्वेन स्थित-
मित्युकम् ।
‘भावा बुद्धिगुणा धर्मज्ञानवैराग्यभूतयः।’
इत्यादिना । नहि गुणिनः सकाशाद्गुणस्या-
पगमो दृष्टः, न हि पटाच्छौक्ल्यं शर्करादेर्मा-
धुर्यं वा पृथक्कर्तुं शक्यम् । ततश्च प्रकृतिस्था-
शयत्वश्रुतिः कथमिति प्रश्नार्थः ॥ १८६ ॥
सिद्धान्तस्तु
सत्यं बुद्धिगुणः कर्म
नापैति गुणिनो गुणः ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५३
देहाक्षफलभूमीनां
तात्स्थ्यात् तत्रोपचर्यते ॥१८४॥
भवत्येव बुद्धिगुणत्वं प्रागुक्तरीत्या धर्माधर्मरू-
पस्य कर्मणः, गुणिनश्च सकाशान्न गुणस्य व्यप-
गमः, तत्र तु प्रकृतौ तत्कर्म स्थितमित्युपच-
र्यते। कस्मादुपचारबीजादित्याह, देहाक्षफलभू-
मीनां तात्स्थ्यात्। यतः प्रकृतिस्था एव भोक्तॄणां
शरीरेन्द्रियार्थभोगभूमयः तस्मात् कर्मापि त-
त्स्थत्वेनोक्तम् । बुद्धिस्थत्वेऽपि कर्माशयस्य
बुद्धेस्तत्स्थत्वात् प्रकृतिस्थाशयत्वमात्मनामुक्त-
मित्यविरोधः ॥ १८४ ॥
दृश्यन्ते च तात्स्थ्यादेरुपचारबीजादनेकवि-
धाः शब्दानामौपचारिक्यः प्रवृत्तयः। तथाहि
आधारे कारणे कार्ये
समीपे चोपकारके ।
धर्मार्थ्यनुकृतौ चेति
लक्षणां सूरयो जगुः ॥१८८॥
मुख्यार्थानुगमानुपपत्तेर्गौणार्थप्रतीतिकारि-
णीं लक्षणां सूरयस्तद्विदो जगुरूचुः । कुत्र कुत्रे
४५

त्याह आधार इत्यादि । तत्र तावदाधारे यथा
‘मञ्चाः क्रोशन्ति’ इति । अत्र हि मञ्चानाम-
धिकरणभूतानामाचैतन्याद्रोदनलक्षणेन क्रोश-
नार्थेनाननुगमादानर्थक्यात् तत्स्थानां बा-
लानां संबन्धि यत्क्रोशनं तत्तेषु तात्स्थ्यात्मक-
लक्षणयोक्तम् । कारणे तु लक्षणा यथा-‘शा-
लीन् वृष्टो देव’ इति । अत्र हि मुख्यया वृत्त्या
शालिवर्षणस्यार्थोऽनन्वित इति लक्षणया का-
लोचितायां वृष्टौ शालिकारणभूतायां प्रतिब-
न्धवैकल्ययोरसंभावनात् संपन्नमेव शालिल-
क्षणं कार्यमुपचर्यते । अथवा ‘आयुर्धृतम्’ इति
आयुष्कारणे घृते आयुषस्तत्कार्यस्योपचारः ।
एवं कार्येऽपि लक्षणा संभवति यथा-‘ऊर्णा
प्रावरणाः’ केचित् अपरे ‘तूलं वासाः’ इति । अत्र
किल सूत्रभावं विना भाविना कम्बलपटा-
दिभावेनापरिणतयोरूर्णातूलयोर्मुख्यया वृत्त्या
प्रावरणत्वमसंभावितं तत्कार्यस्य कम्बलपटा-
त्मन एव तदुपपत्तेः । ततश्च कम्बले पटादौ
च तयोः कारणभूतयोरूर्णाकार्पासयोरुपचारः
कृतः । समीपार्थलक्षणा यथा-‘गङ्गायां घोषः’

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५५

इति । अत्र हि मुख्यया वृत्त्या प्रवहज्जलरूपं
स्रोतः गुणवृत्त्या वा तद्विशेषं यदि किंचित्
गङ्गाशब्दः कथयेत् तदस्यासंभाव्यैव ग्रामा-
धिकरणतेति सामर्थ्यात् तत्सामीप्यलक्षणत्वेन
तद्व्यवतिष्ठते । उपकारकेऽपि लक्षणा दृश्यते
यथा—‘भिक्षा वासयन्ति’, ‘कारीषोऽध्यापयति’
इति । अत्र किल न भिक्षा तत्प्रावरणाञ्चलं
करेण गृहीत्वा गमननिषेधं कुर्वन्ति, नापि सर्व-
थास्मात् स्थानान्न गन्तव्यमिति प्रणयवचनैर-
वस्थापयन्ति, अपि तु प्रचुरान्नव्यञ्जनवत्यस्तृप्ति-
हेतुत्वात् निवसनक्रियायामुपकारकत्वेन संभा-
व्यमानाः प्रयोजकत्वेनोपचर्यन्ते । एवं च न
कारीषोऽङ्ग पुत्राधीष्वेति ब्रुवन् माणवकमध्या-
पयति, नापि तच्छरीरमनुप्रविश्य भूतवेताला-
दिभिरिवैनं पाठयति, किं तर्हि शीतापनुत्तिहेतु-
तयाध्ययनविध्युपकारकत्वेनानुकूल्यं भजंस्तत्प्र-
योजकत्वेनोपचरितः । किं च धर्माद्यनुकृता-
विति आदिग्रहणादाकारानुकृतौ जात्यनुकृतौ
वा । तत्र धर्मानुकृतौ यथा—‘सिंहो माणवकः’,
‘गौर्वाहीकः’ इति । अत्र किल लक्षणया सिं-

३५६ मृगेन्द्रतन्त्रे । [ २।१३
हृद्धर्माणां शौर्यादीनामनुकृत्यर्थं माणवके सा-
मानाधिकरण्येन सिंहशब्दः प्रवृत्तः, मुख्यया
वृत्त्या तस्य सिंहत्वस्यासंभवात्। वाहकेऽपि पुंसि
पृष्ठवहनत्वासंभवात् तिष्ठद्भक्षणगच्छत्तृणाद-
नादिबलीवर्दगतधर्मानुकरणाय गोशब्दः सा-
मानाधिकरण्येनोपचरितवृत्तिरेव प्रवृत्तः, मु-
ख्यया वृत्त्या तथानन्वयात्। एवमाकारानुकृतौ
यथा—सूच्यभेद्यैस्तमोभिरिति। अत्र हि तम-
सोऽमूर्तत्वात्सूचिभेद्यत्वं मुख्यवृत्त्या न संगत-
मतो लक्षणयातिनिबिडत्वं वक्तुमाकृतिः सूचि-
भेद्यत्वेनानुकृता। एवं नाम घनानि तमांसि
यद्वस्त्रादिवत् सूच्यादिना भेदमप्येषां वक्तुं
शक्यमित्यर्थः ॥ १८८ ॥
तदियता प्रासङ्गिकमुपचारबीजमनेकाका-
रमुदाहृत्य प्रकृतमुपसंहारक्रममनुसरन्नाह
एवं गुणादिसर्गाणां
परार्थे गुणकारणम् ।
कला लेढि कलां माया
स्वाधिकारपराङ्मुखी ॥ १८९॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५७
तन्निवृत्तौ निवर्तन्ते
देवास्तदधिकारिणः ।
सर्गस्थित्यादिको यस्मा-
दधिकारस्तदाश्रयः ॥ १९० ॥
गुणादिसर्गाणां प्रागुक्तनयेन परार्धसंज्ञके
कालेऽप्यतीते गुणकारणमव्यक्ताख्यं कला स्वा-
त्मन्युपसंहरति, तामपि कलां स्वस्मादधिका-
रात् पराङ्मुखी स्वव्यापारोपसंहारेच्छुर्माया
स्वात्मन्येवोपसंहरति । तस्य च मायाधिका-
रस्य निवृत्तौ तदधिकृताः सर्वे निवर्तन्ते विर-
तव्यापारा आसते, यस्मात्तेषां सर्गस्थित्यादि-
रूपोऽधिकारः सर्वो मायाश्रयः, तद्विरतौ च
कथं तेषां न विरामः स्यात् ॥ १९० ॥
इत्थमशुद्धेऽध्वनि प्रतिसञ्चर उक्तः इदानीं
शुद्धाध्वनि वक्तुमाह
एवं मन्त्रेशमुख्येषु
विशत्स्वभिमतं पदम् ।
विद्यामत्ति सदातत्त्वं
तद्विन्दुबैन्दवं ध्वनिः ॥ १९१ ॥

३५८ मृगेन्द्रतन्त्रे । [ १।१३
नादमत्ति परा शक्तिः
शक्तिमीष्टे स्वयं हरः ।
अनेनैव क्रमेण मन्त्रेश्वरप्रधानेषु मन्त्रमहे-
श्वरेष्वनन्तादिषु निवर्त्तिताधिकारत्वात् परकै-
वल्यप्रेप्सुषु सत्सु विद्यातत्त्वं सदाशिवतत्त्वे
समुपसंहृतवैभवं भवति । तच्च बैन्दवे, बैन्दवं
नादात्मनि, नादोऽपि परस्यां शक्तौ, तां तु
शक्तिं साक्षात्परमेश्वरः स्वात्मन्युपसंहरति क-
लाप्रसवां न करोति ॥
एवं च कृते सति परमेश्वरः
भविनां विश्रमायैवं
मायायाश्च परः शिवः ॥१९२॥
आकल्य स्वदृक्शक्त्या
स्वापं सृष्ट्यै प्रवर्तते ।
निजया ज्ञानशक्त्या भवभ्रमणखिन्नानां
भविनां यथोचितभोगोपयोगितनुकरणभुवना-
द्यनेककार्यप्रसवादपचितशक्तेश्च मायाख्यस्यो-
पादानकारणस्य विश्रमाय स्वापमव्यापृतत्वम् ।
इयता कालेन एते भविनो विश्राम्यन्ति, उप-
चितसामर्थ्यं च पुनः सर्गक्षमं मायाख्यं कारणं

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५९
संजायत इत्येवमाकलय्य परमेश्वरः सृष्ट्यर्थं
प्राग्वत्प्रवर्तते ॥
यथा चैतान्युक्तानि स्वस्मिन् स्वस्मिन् कारणे
विलीयन्ते एवमन्यदपीत्याह
एवं तत्त्वानि भावाश्च
भुवनानि वपूंषि च ॥ १९३ ॥
शुद्धाशुद्धाध्वनोर्विप्र
व्याख्यातानि समासतः ।
अनेनैव क्रमेणान्यदपि तत्त्वभावभुवनादि
सितासिताध्ववर्ति यत्किंचित्तस्मिंस्तस्मिन् का-
रणे प्रलीनं संक्षेपतो व्याख्यातं ज्ञेयम् ॥
अत्र मुनिः प्रक्ष्यति
विद्या पञ्चाणुदेहाश्च
बिन्दुर्नादोऽथ कारणम् ॥ १९४॥
पञ्चस्कन्धः परो मार्गः
क्व भावाः प्रत्ययाः स्थिताः ।
शुद्धाशुद्धयोरध्वनोस्तत्त्वभावभुवनानां सं-
क्षेपादेवंविधः स्वस्मिन्कारणे प्रतिसंचर इति

३६० मृगेन्द्रतन्त्रे । [ ११३
यद्भगवता अस्माकमादिष्टं तत्र विद्यासदा-
शिवबिन्दुनादपरशक्तिरूपे शुद्धेऽध्वनि भावाः
प्रत्ययाः क स्थिता इति प्रश्नार्थः ॥
अथात्र सिद्धान्तः
नादः सूक्ष्मः कला काल-
रागयुग्मे सपूरुषे ॥ १९५ ॥
स्थूलः पञ्चकलो नादः
पञ्चतत्त्वाश्रयो मुने ।
प्रधानादिचतुर्ग्रन्थि-
निधिबिन्दुश्चतुष्कलः ॥१९६॥
गर्वे मनोमुखा देवा
बुद्धौ भावादयः स्थिताः ।
पञ्चमन्त्रतनुर्देवः
स्थितस्तन्मात्रपञ्चके ॥१९७॥
सूक्ष्मभूतेषु मन्त्रेशा
मन्त्राः स्थूलेषु संस्थिताः ।
इदमत्र तात्पर्यम् । पञ्चस्कन्धस्याप्यस्य
शुद्धस्याध्वनो व्याप्यत्वेनाशुद्धोऽध्वा व्यव-
स्थितः । तत्र चोच्यमानवद्विशिष्टव्याप्तेर्बिन्दु-

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते। ३६१
तत्त्वस्यान्तर्गतत्वेन भावप्रत्ययानामवस्थितेर्न
कश्चिद्विरोधः । तथाहि सूक्ष्मः परो नादः
कलेति कलाव्याप्यत्वादुपचारतः कलाशब्द-
सामानाधिकरण्येनोक्तः, यथा निखिलनादबि-
न्द्वादिप्रमेयगर्भीकारेण तत्कारणं परनादस्व-
रूपमवस्थितमेवं समस्तासिताध्वक्रोडीकारेण
कला स्थितेति तद्भावेन तस्योपचारः कृतः ।
कालयुग्मे नियतिकालात्मके रागयुग्मे च
विद्यारागस्वरूपे संपुटे सपूरुष इति पुंस्त-
त्त्वसहिते, एतानि पञ्चतत्त्वान्याश्रयो यस्य
स पञ्चतत्त्वाश्रयः पञ्चकलः स्थूलो नादः ।
अनेनैव च क्रमेण प्रधानगुणमहदहङ्कारलक्षणं
यद्ध्वन्थीनां पाशरूपाणां प्रकृतीनां चतुष्टयं
तन्निधिरिति तद्गर्भः प्रागुक्तनिवृत्त्यादिकला-
चतुष्टयात्मको बिन्दुर्बोद्धव्यः । एतदन्तर्गते
गर्वेऽहङ्कारतत्त्वे मनसा सह करणदशकं,
बुद्धौ तु धर्माधर्मादयो भावाः, तदुपादानाश्च
प्रागुक्ताः प्रत्ययाः स्थिताः । इत्थं च सदा

३६२ मृगेन्द्रतन्त्रे । [ ११३
ज्ञानां व्याप्तिः । मन्त्राणां स्थूलेषु पृथिव्या-
दिष्वित्येवं शुद्धोऽप्यध्वैतत्प्रमेयगर्भीकारेणाव-
स्थित इत्यदोषः ॥
अथ व्याख्यातार्थोपसंहाराय व्याख्येयस्य
क्रियापादस्य चोपक्षेपाय श्लोकः
इति यदणुनिरोधि ध्वान्तबीजाद्यदृष्टं
पशुमतसृतदृग्भिः पाशजालं सुभूयः
तदुपशमनिमित्तं वक्ष्यमाणक्रियातो
रुचदविहतशक्तिः शाम्भवी मन्त्रसंपत्
इत्येवमुक्तेन प्रकारेणाणून् पशून् निरुणद्धि
अवश्यमिति अणुनिरोधि । ध्वान्तबीजादि म-
लकर्ममायामहेश्वररोधशक्त्यात्मकम् अनन्ता-
त्मावारकत्वेनानेकशक्तियोगात् सुष्ठु भूयो-
ऽतिशयेन भूयिष्ठं पशुमतेषु अनीश्वरशास्त्रेषु
सृता दृग्ज्ञानं येषां तैरदृष्टमनवगतम्, पाशा-
नां संबन्धि बन्धनहेतुत्वाज्जालमिव जालं त-
स्योपशमनहेतोरभिधास्यमानक्रियया हेतुभू-
तया देदीप्यमाना अप्रतिहतप्रभवा शिवम-
न्त्रसमृद्धिः । अयमाशयः-वक्ष्यमाणदीक्षाक्रि-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३६३
याक्रमोत्तेजितसहजसामर्थ्यया मन्त्रसमृद्ध्या म-
लकर्ममायादिपाशोपशान्तिनिमित्ततामेत्याभ्यु-
दयाय भवतीति, यस्मादचिन्त्यानुपममहिम्नां
मूलमन्त्राणां विषापहारादाविव मलकर्ममायी-
यपाशच्छेदने सामर्थ्यमव्याहतम् । तथा चाह
सिद्धगुरुः सद्योज्योतिर्मन्त्रतत्त्वकरणीयनिरूप-
णावसरे
‘विषवन्निकृन्तति पशोस्तूर्णं मलकर्मयोनिकार्याणि ।
आराधितस्तु सिद्धीर्यच्छति विविधाश्च साधकेन्द्रेभ्यः॥’
इति ॥ १९८ ॥
किमप्यनुपयोगि यद्यपि किंचिदप्रस्तुतं
प्रमेयमधिकृत्य तन्न खलु निष्फलं गर्जितम् ।
अपि त्ववसरोचितप्रकृतवस्तुमीमांसना-
न्मृगेन्द्रविवृताविह स्फुरतु तद्विदामादरः ॥
शाङ्करकण्ठश्रीमद्विद्याकण्ठादनुग्रहं लब्ध्वा ।
नारायणकण्ठ इमां तत्पुत्रो व्यचरयद्वृत्तिम् ॥
इति श्रीमद्भट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ भुवनाध्वप्रकरणम् ॥
समाप्तश्च विद्यापादः ॥
त्रयोदशं प्रकरणं समाप्तम् ॥

इस पृष्ठ पर मुद्रित पाठ अत्यधिक धुंधला (faded/washed out) होने के कारण अधिकांशतः अपाठ्य है। पृष्ठ पर केवल कुछ अत्यंत अस्पष्ट अवशेष दिखाई दे रहे हैं:

[अस्पष्ट / लुप्त]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
··· भक्तिः ··· [अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]
[अस्पष्ट]

अथ
श्रीमृगेन्द्रतन्त्रे ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते ।
योगपादे ।
( प्रथमः पटलः )
प्रभवति यतः सर्वज्ञत्वं यतोऽखिलकर्तृत्ता
प्रसरति तथा कार्ये चासौ परा प्रतिभा यतः ।
निरुपधि परं शान्तं धाम स्मरामि तदीशितुः
स्वयमपि विभोर्वागीश्वर्या गिरां यदगोचरः ॥
अथेदानीं योगपादः प्रारभ्यते । तत्र तावत्
‘अक्षात्मवितताद्बन्धात्परसं१ख्यानिरोधकात् ।
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ॥’
इति श्रुतेर्दीक्षाया एव निरतिशयकैवल्यावा-
प्तिहेतुत्वात् तस्याश्च सर्वस्या एव पशुपाशेश्व-
रस्वरूपनिरूपणोपायभूतेन समस्ताध्वव्याप्ति-
प्रदर्शकेन मन्त्रमन्त्रेश्वरादिमाहात्म्यनिश्चायकेन
ज्ञानेन विना निष्पादयितुमशक्यत्वात् तद्व-
१ ‘संख्या’ क. ।

२ मृगेन्द्रतन्त्रे । [ १११
बोधको विद्यापादः सपरिच्छदः पशुपाशेश्वर-
स्वरूपनिरूपणाय प्रथममुक्तः । ततः क्रिया-
पादोऽप्यनेकविधसाङ्गदीक्षाविधिप्रदर्शनायोप-
दिष्टः । सांप्रतं तु ज्ञानक्रियाक्रमज्ञेनापि सा-
धकपुत्रादिना समाध्याद्यनभ्यासादनात्मविदा
सता यथोपदिष्टस्वस्वव्यापारानुष्ठानं संपादयितुं
न शक्यमिति प्राणायामाद्यङ्गसहितो योगज्ञ-
प्तये योगपादो२पक्रमः । अत्र च प्रक्षीणपाश-
स्याणोः परमेश्वरस्वरूपावभासनं तात्पर्यमिति
तत्रवस्तुत्रयेण पशुपाशेश्वरलक्षणेन संबन्धो
व्यवस्थापितः । प्रयोजनं च तदुपन्यस्तं ज्ञेयम् ।
सौत्रोपि संबन्धः 'त्रिपदार्थं चतुष्पादं' इत्यु-
देशसूत्रप्रक्रमाल्लब्धः । वाक्यात्मकश्च
'चर्यायोगक्रियापादैर्विनियोगोऽभिधास्यते ।'
इत्यादिभिर्वाक्यैः । प्राकरणिकोऽपि समयिनः
पुत्रस्य गृहीताभिषेकयोश्च साधकाचार्ययोरव-
श्योपयोगि योगप्रकरणमित्युक्तमेतत् । पाटलि-
कस्त्वनन्तरपादपटलान्ते 'सुरयोगीशजुष्टम्'
इत्यनेनोपक्षिसः ।
१ 'संप्रति' क. । २ 'दप्रक्रमः' क. ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३
अथानात्मवतां मत्वा
स्वाधिकारं सुदुष्करम् ।
यतेरन्नात्मवत्तायै
देशिकाद्या जिगीषवः ॥ १ ॥
आत्मा विद्यते येषां ते आत्मवन्तः आ-
त्मारामत्वेन नियुक्तत्वात् साक्षात्कृतात्मस्व-
रूपाः । नित्ययोगे मतुप् । अनैवंविधानां देशि-
कपुत्रसमयिसाधकानां निजनिजाधिकारकर-
णमत्यर्थं दुष्करं बुद्ध्वा ते देशिकप्रभृतय उत्तरो-
त्तरभूमिकाजयैषिणस्तदर्थं यतेरन् प्रयत्नवन्तः
स्युरिति विधौ लिङ् ॥ १ ॥
अथ तावत् किमिदमात्मवत्त्वं नामेत्याह
तदात्मवत्त्वं योगित्वं
युज्यते शिवत्वलक्षणया स्वस्वरूपाभिव्यक्त्या-
वश्यमिति योगी, तस्य भावो योगित्वमात्मव-
त्त्वाविनाभावि । अत एव 'युजिर्योगे' इत्यस्य
धातोर्योगशब्दो ज्ञेयः न तु 'युज समाधौ'
इति, अस्य समाधिरूपस्य तदङ्गत्वेनेष्टत्वात् ॥
१ 'वन्तो ये' ख. । २ 'किंचैवंविधानां' क. ।

४ मृगेन्द्रतन्त्रे । [ ११९ ]
एतच्च
जिताक्षस्योपपद्यते ।
न ह्यवशीकृतेन्द्रियग्रामस्यान्यदपि कार्यं
निर्वहति किं पुनर्योगित्वम् । तथा चाहुः
'इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
संयमे² यत्नमातिष्ठेद्विद्वान्यन्तेव वाजिनाम् ॥'
इति । जितेन्द्रियस्य त्वचिरादेव स्वरूपलाभः ।
उक्तं च सनकेन
'इन्द्रियाणीन्द्रियार्थांश्च तन्मात्राणि मनस्तथा ।
नियम्य गत³संकल्पः परमात्मनि लीयते ॥'
इति ॥
कथं तज्जिताक्षत्वं स्यादित्याह
प्राणायामाद्यनुष्ठाना-
ज्जिताक्षत्वं शनैः शनैः ॥ २ ॥
वक्ष्यमाणलक्षणप्राणायामाद्यङ्गसप्तकाभ्या-
सात् जितेन्द्रियत्वं शनैः क्रमेण भवति । द्वि-
तीयः शनैःशब्दोऽभ्यासविषये, शनैर्वक्ष्यमाण-
मात्राविवर्धनक्रमेण प्राणायामादयोऽनुष्ठेयाः,
यस्मादतिमात्रमभ्यस्यतां वातगुल्मगुदोदावर्तो-
१ 'तस्य च' क. । २ 'मी' क. । ३ 'गति' क. ।

र्ध्वश्वासोन्मादस्मृतिमोषादयो योगविघ्नहेतवो
दोषा उद्भवेयुः ॥ २ ॥
अथ साङ्गं योगमुपदेष्टुमाह
प्राणायामः प्रत्याहारो
धारणा ध्यानवीक्षणे ।
जपः समाधिरित्यङ्गा-
न्यङ्गी योगोऽष्टमः स्वयम् ॥३॥
प्राणायामादीनि सप्ताङ्गानि योगंस्य, स तु
स्वयमष्टमोऽङ्गित्वेन ज्ञेयः ॥ ३ ॥
अथैषां प्राणायामादीनां लक्षणं वक्ति
प्राणः प्रागुदितो वायु-
रायामोऽस्य प्रखेदनम् ।
प्रेरणाकृष्टिसंरोध-
लक्षणं ऋतुदोषनुत् ॥ ४ ॥
प्राणादिवृत्तिभेदादेकस्यापि वायोः प्राणा-
पानादिपञ्चभेदत्वं तद्वृत्तयश्च विद्यापादे प्रद-
र्शिताः । तादृग्विधस्य तस्य वायोः खेदनं,
स्वातन्त्र्यभावादाधिक्येन बहिःप्रेरणम्, तस्यैव
१ 'योगस्तु' क. ।

६ मृगेन्द्रतन्त्रे । [ २११
चान्तस्तथाकर्षणं, संरोधश्च कुम्भीकरणं रेचन-
प्रवेशनविरामः, एवंलक्षणं यत् प्राणादीनां
प्रखेदनं स प्राणायामः । ऋतुशब्देनेन्द्रियाणि
संकल्पो वा तेषां दोषाः विहिताननुष्ठान-
निषिद्धाचरणकृताः तान्नुदति उपशमयतीति
तद्दोषनुत् । उक्तं हि
‘दह्यन्ते ध्मायमानानां धातूनां च यथा मलाः ।
प्राणायामैस्तथा दोषाः शाम्यन्तीन्द्रियगोचराः ॥’
इति ॥ ४ ॥
अथ प्रत्याहारस्य लक्षणम्
ततः सुखलवास्वादे
तेषां वृत्तस्य चेतसः ।
प्रत्याहारो विधातव्यः
सर्वतो विनिवर्तनम् ॥ ५ ॥
ततः प्राणायामाभ्यासादनन्तरं प्रत्याहारः
कार्यः । किंरूपोऽसावित्याह-तेषामिति, तेषा-
मिन्द्रियाणां संबन्धी वैषयिको यः सुखलव
आनन्दलेशस्तदास्वादे वृत्तस्य तत्परस्य चेतसः
सर्वेभ्य एवेन्द्रियार्थेभ्यः प्रत्याहरणं प्रत्याहारो
विधेयः ॥ ५ ॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ७
इत्थमनुतिष्ठतः किं स्यादित्याह
तेनेन्द्रियार्थसंसर्ग-
विनिवृत्तेश्चितो मतिः ।
धारणायोग्यतामेति
पदे स्वेच्छाप्रकल्पिते ॥ ६ ॥
तेन प्रत्याहारेण चितश्चित्तस्येन्द्रियार्थसंयो-
गात् प्रत्याहृतत्वात् या विनिवृत्तिः स्वव्यापार-
विरतिः तस्या हेतुभूतायाः स्वेच्छाप्रकल्पिते पदे
वक्ष्यमाणधारणायोग्यतां मतिरभ्येति । न चात्र
मतिर्बुद्धिः अपि तु मननं मतिः संकल्पाख्यश्चे-
तसो व्यापारः, तस्यैव धारणाश्रवणात् । यदाह
पतञ्जलिः 'देशबन्धश्चित्तस्य धारणा' ( १।३ )
इति । तथा 'धारणासु योग्यता मनसः।' ( ५३।२ )
इति ॥ ६ ॥
ध्यानं वक्तुमाह
चिन्ता तद्विषया ध्यानं
तच्चादिष्टं मुहुर्मुहुः ।
धारणानिरुद्धस्य चित्तस्य त्रिनेत्रपञ्चवक्रा-