मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
श्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । २०९
स्वयं बोद्धुमसमर्थत्वादित्यर्थः । तदर्थमनन्तेशः
कलां तत्त्वाविर्भावनसहां प्रक्षोभ्य जन्यजन-
नाभिमुखीं कृत्वा आत्मनः परं प्रकृष्टं करणं
विद्याख्यं सृष्टवान् । परत्वं चास्य साक्षात्सा-
ध्यस्यैवोपकारकत्वात् तदुत्तेजितज्ञानशक्तेरन्तः-
करणबहिष्करणैर्योग इति तेषामपरत्वम् ॥९॥
यदुक्त
तेन प्रकाशरूपेण
ज्ञानशक्तिप्ररोचिना ।
सर्वकारकनिष्पाद्य-
मवैति विषयं परम् ॥ १० ॥
तेन विद्याख्येन तत्त्वेन प्रकाशकत्वात्
ज्ञानशक्त्यभिव्यञ्जकेन सर्वैर्बुद्धीन्द्रियैः कर्मे-
न्द्रियैर्यथास्वं निर्वर्त्यं परं कर्तृविषयात् कार्यात्म-
कविषयात् अन्यत् ज्ञेयाख्यं, यद्वा परमिति
अव्यवहितं विषयं प्रतिबिम्बितबाह्यविषयत्वेन
संनिकृष्टं बुद्धितत्त्वमवैति जानाति । विद्या-
ख्येन करणेन किल प्रतिबिम्बितस्रक्चन्दनादि-
२७
२१० मृगेन्द्रतन्त्रे । [ ११०
बाह्यविषया भोग्यरूपा बुद्धिर्गृह्यते । यदाह
खेटकनन्दनः
‘बुद्धिर्विषयाकारा सुखादिरूपा समासतो भोग्या।’
( त० सं० १३ )
इति । तथा
‘रविवत्प्रकाशरूपो यदि नाम महांस्तथापि कर्मत्वात् ।
करणान्तरसापेक्षः शक्तो ग्राहयितुमात्मानम् ॥’ (त०सं०१४)
इति ॥ १० ॥
रागतत्त्वाभिव्यक्तिमाह
तदभिव्यक्तचिच्छक्ति-
दृष्टार्थोऽप्यपिपासितः ।
नैति तं जनकं रागं
तस्मादेवासृजत्प्रभुः ॥ ११ ॥
तेन विद्याख्येन तत्त्वेनाभिव्यक्तज्ञानशक्ति-
त्वात् दृष्टार्थोऽप्यणुरपिपासितोऽसंजाताभिलाषः
सन् नैति न भोग्याहरणाय गच्छति । अतस्त-
स्याभिलाषस्य जनकं रागं तत एव कलातत्त्वा-
त्प्रभवनशीलोऽनन्तेशनाथः ससर्ज ॥ ११ ॥
स तेन रञ्जितो भोग्यं
मलीमसमपि स्पृहन् ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २११
आदत्ते नच भुञ्जानो
विरागमधिगच्छति ॥ १२ ॥
तेन रागेण रञ्जितो जनिताभिष्वङ्गः सो-
ऽणुर्मलिनतममपि मायीयभोग्यमभिलषन्नुपा-
हरति, नचैवमुपभुञ्जानो विरज्यते । चुरादीना-
मणिजन्तत्वाच्च स्पृहन्नित्यदुष्टम् ॥ १२ ॥
कालतत्त्वनिरूपणायाह
इति प्रवृत्तः करणैः
कार्यरूढैः सभौवनैः ।
भोगभूमिषु ना भुङ्क्ते
भोगान्कालानुवर्तिनः ॥१३॥
इति एवमुक्तनीत्या कलोत्तेजितकर्तृत्वः सन्
प्रवृत्तो भोगोद्युक्तः ना पुरुषः कालेनानुवर्तिन-
स्तासु तासु भोगभूमिषु सुखदुःखादिरूपान्
भोगान् भुङ्क्ते । कैर्भुङ्क्ते इत्याह भौवनदेहसहितैः
करणैर्बुद्धीन्द्रियैः कर्मेन्द्रियैस्त्रिविधेनान्तःकर-
णेन । मलिनत्वात् क्रियाज्ञानशक्त्योः कर्मेन्द्रि-
यबुद्धीन्द्रियाणामपेक्षा । कीदृशैः करणैरित्याह
कार्यरूढैरविभुत्वतो निराश्रयाणामेषां चेष्टाय-
२१२ मृगेन्द्रतन्त्रे । [ १।१०
योगात् भूततन्मात्रात्मककार्याश्रयस्थैः सद्भिः।
उक्तं च खेटकनन्दनेन.
‘एतत्कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् ।
अविश्रुतत्वात्करणानि तु कार्यमधिष्ठाय चेष्टन्ते ॥’ (त० सं०४)
इति ॥ १३ ॥
अथ कोऽसौ कालो नाम, कुत उत्पन्नः, किं
वा करोतीति । अत्रोच्यते
त्रुट्यादिप्रत्ययस्यार्थः
कालो मायासमुद्भवः ।
कलयन्ना समुत्थाना-
न्नियत्या नियतं पशुम् ॥१४॥
त्रुटिलवनिमेषमुहूर्त्तादेः प्रत्ययस्य ज्ञानस्या-
र्थो निमित्तं यः, स कालः । ‘स मुहूर्त्तमास्ते,
प्रहरं भ्राम्यति’ इत्यादिप्रतीतिरजस्रपरिवर्तिनो
यस्माद्भवति, स मायात उत्पन्नः पशुत्वेन मलेन
युक्तमात्मानं कलयन् काल इत्युच्यते । यदाहुः
‘जलयन्त्रभ्रमावेगसदृशीभिः प्रवृत्तिभिः ।
स कालः कलयंस्तावत्कालाख्यां लभते ततः ॥’
इति । कीदृशं पशुं कलयन्नित्याह आ समुत्था-
नान्नियत्या नियतं, नियतेः समुत्थानं स्वकार-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१३
णादभिव्यक्तिः, तत आरभ्य यावत्संहारमसौ
पशुं कर्मजनिते सुखदुःखोपभोगे नियच्छति ।
नचायं कालस्य व्यापारस्तस्य कलनमात्र एव
चरितार्थत्वात् ॥ १४ ॥
अत्र पराशङ्का
ससाधनस्य भोगस्य
कर्मतन्त्रतया जगुः ।
केचिन्नियामकं कर्म
यदन्यदतिरिच्यते ॥ १५ ॥
अवश्यं तावद्भोगस्तत्साधनानि च भोक्तः
कर्माधीनानि तदपेक्षां विना भोगवैचित्र्यस्या-
नुपपत्तेरित्युक्तम् । तन्नियामकत्वं च तस्यैव
भविष्यति । ततश्च यदन्यन्नियत्याख्यं तत्त्वं
कल्प्यते, तदतिरिच्यते निष्प्रयोजनत्वात्तदधि-
कीभवति । तथाचोक्तं
'यस्माच्च येन च यथा च यदा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तथा च तदा च तच्च
तावच्च तत्र च विधातृवशादुपैति ॥'
२१४ मृगेन्द्रतन्त्रे । [ ११०
अथात्र परिहारः
भोगोऽर्थः सर्वतत्त्वानां
सोऽपि कर्मनिबन्धनः ।
कर्मैवास्तु शरीरादि
ततः सर्वमपार्थकम् ॥ १६ ॥
मा भून्नियतितत्त्वं, तदन्यान्यपि भोगसा-
धनानि तत्त्वानि कर्मनिबन्धनान्येव, तेषां चा-
वश्यं कर्मापेक्षित्वात् कर्मैव केवलं भोगसाध-
नमस्तु यद्विना अन्यानि अकिञ्चित्कारीणि ।
तथाच सति शरीरेन्द्रियविषयादेः सर्वस्यानर्थ-
क्यम् ॥ १६ ॥
अथ देहादिसापेक्षं
तत्पुमर्थप्रसाधकम् ।
ननु देहादिसव्यपेक्षं कर्म पुरुषार्थसाधन-
समर्थं, न केवलम् । नह्येकं जनकं, किं तर्हि,
सामग्र्येव कार्यजनिकेति ॥
अत्रोच्यते
ततो नियतिसापेक्ष-
मस्तु कर्म नियामकम् ॥ १७ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१५
एवं तर्हि यथा देहेन्द्रियादिभिः स्वस्वव्या-
पारप्रवृत्तैः सह कर्म पुरुषार्थसाधनक्षमम्, एवं
स्वकार्यनिष्पादकनियतितत्त्वसापेक्षं तत् निया-
मकमस्त्विति न कश्चिद्दोषः ॥ १७ ॥
पुंस्तत्त्वं तत एवाभूत्
पुंप्रत्ययनिबन्धनम् ।
आपूरकं प्रधानादे-
भौवने रुद्रसंश्रयम् ॥ १८ ॥
संहारसमये यदनन्तेशनाथेन विश्रामितं,
ततः तस्मादेव मायातत्त्वात्पुंस्तत्त्वमाविरभूदि-
त्यर्थः । पुंप्रत्ययनिबन्धनमिति पुंप्रतीतेर्हेतुः,
अनेन मायागर्भस्थेभ्योऽधिकारिरुद्राणुभ्यस्त-
तद्भुवननिवासिभ्यश्च वैलक्षण्यमुक्तं तेषां पुं-
स्प्रत्ययायोगात् । तच्च पुंस्तत्त्वं प्रधानादेस्तत्त्व-
व्रातस्यापूरकं पुरुषार्थत्वेन कार्यसहितस्य प्रधा-
नस्येष्टत्वात् । एवं छात्रहेतुकत्वादध्ययनस्य 'छा-
त्रा अध्यापकाः' इत्यादिवदापूरकशब्दो ज्ञेयः ।
भौवने चाध्वनि तत् पुंस्तत्त्वं रुद्रसंश्रयम् ।
तथाचोक्तं श्रीमत्खतन्त्रे
२१६ मृगेन्द्रतन्त्रे । [ ११०
'अतः पुरुषतत्त्वे तु भुवनानि निबोध मे ।
दिव्याम्भः सलिलौघे च············· ॥' (१०।१०६६)
इत्यादि । पुंरागसंपुटितरूपं च एतत्पुरुषतत्त्वं
रुद्राणामाश्रयत्वेनेष्टम् । यथोक्तं श्रीमत्किरणे
'वामदेवोऽथ भीमश्चाप्युग्रश्च भवसंज्ञकः ।
सर्वेशानैकवीरौ च प्रचण्डश्चेश्वरः पुमान् ॥
उमाभर्ता ह्यजोऽनन्त एकश्चैव शिवस्ततः ।
रागतत्त्वे स्थिता ह्येते रुद्रास्तीव्रबलोत्कटाः ॥
अत्रैव पुरुषो ज्ञेयः प्रधानगृहपालकः ।
इति ॥ १८ ॥
ततः प्राधानिकं तत्त्वं
कलातत्त्वादजीजनत् ।
सप्तग्रन्थिनिदानस्य
यत्तद्गौणस्य कारणम् ॥ १९ ॥
ततो मायातः पुंस्तत्त्वप्रसवादनन्तरं कला-
तत्त्वादव्यक्तं तत्त्वमुदपद्यत । कीदृगित्याह स-
प्तग्रन्थिनिदानस्य इत्यादि, यत्प्रधानं महदहङ्का-
रयोस्तन्मात्रपञ्चकस्येत्येवं सप्तानां ग्रन्थीनां का-
र्ययोनीनामुद्भवहेतोर्गौणस्य तत्त्वस्य कारणम् ।
यथाहि तस्य तस्य काञ्चनरत्नादेरुत्तरकालभा-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१७
विन्ध्यः करिपुरुषतुरङ्गादिरूपाः कटककुण्डलाद्या-
भरणात्मिका वा अर्थक्रियाः शक्तिरूपतया
स्थिताः, एवं शक्त्यात्मना स्थितस्वकार्यजन-
कतन्मात्राद्यन्थिसप्तककारणस्य गुणतत्त्वस्या-
व्यक्तादुद्भवः ॥ १९ ॥
ततो बुद्ध्याद्युपादानं
गौणं सत्त्वं रजस्तमः ।
तद्वृत्तयः प्रकाशाद्याः
प्रसिद्धा एव भूयसा ॥ २० ॥
तत इति तस्मात्प्राधानिकात्तत्त्वात् वक्ष्यमा-
णभावप्रत्ययसहिताया बुद्धेरुद्भवहेतुर्गौणं तत्त्वं
सत्त्वरजस्तमोरूपमजीजनदिति पूर्वेण संबन्धः।
तेषां च सत्त्वादीनां प्रकाशप्रवृत्तिनियमा-
त्मिकास्तिस्रो वृत्तयो बाहुल्येन प्रथिता इतीह
नोक्ताः ॥ २० ॥
त्रयो गुणास्तथाप्येकं
तत्त्वं तद्वियोगतः ।
एकैकश्रुतिरेतेषां
वृत्त्याधिक्यनिबन्धना ॥ २१ ॥
२६
२१८ मृगेन्द्रतन्त्रे । [ १।१०
त्रित्वेऽपि परस्परावियोगाद्गुणतत्त्वमेकं ज्ञेयम् ।
ननु
'ये चैके सात्त्विका भावा राजसा ये च तामसाः ।'
इत्यादौ भिन्नमेषां सत्त्वादीनां कार्यं श्रूयते, न
त्ववियोगादेकमेतत्तत्त्वमित्याह एकैकश्रुतिरि-
त्यादि, एषां गुणानामिदं सात्त्विकमिदं राज-
समिदं तामसमित्यादिका एकैकश्रुतिर्वृत्त्या-
धिक्यहेतुकी । अधिकवृत्ति सत्त्वं यस्य, स सा-
त्त्विकः पदार्थः, एवं राजसतामसौ विज्ञेयौ ॥
न तदस्ति जगत्यस्मि-
न्वस्तु किञ्चिदचेतनम् ।
यन्न व्याप्तं गुणैर्यस्मि-
न्नेको वामिश्रको गुणः ॥ २२ ॥
अस्मिन् जगति तादृगचेतनं वस्तु न कि-
ञ्चिदप्यस्ति, यद्गुणैर्न व्याप्तं, यत्र वामिश्रको-
ऽन्यासंपृक्त एक एव सत्त्वादिर्गुणः । उन्मग्न-
निमग्नादिवृत्तिसत्त्वादिगुणत्रयान्वितं सर्वं जग-
दिति तात्पर्यम् ॥ २२ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१९
एवं गुणतत्त्वमुक्त्वा बुद्धितत्त्वं वक्तुमाह
बुद्धितत्त्वं ततो नाना-
भावप्रत्ययलक्षणम् ।
परं तदात्मनो भोग्यं
वक्ष्यमाणार्थसंस्कृतम् ॥ २३ ॥
वक्ष्यमाणलक्षणा धर्मादयो भावास्तथा
विपर्ययाशक्त्यादयः प्रत्ययाः, त एव लिङ्गं
सत्तागमकं यस्य तत् अभिधास्यमानैरर्थैर्विषयैः
संस्कृतमुपरक्तं बुद्धितत्त्वं परं प्रकृष्टमव्यवहित-
मात्मनो भोग्यं विषयाणां भोग्यत्वेऽपि तत्प्र-
तिबिम्बितत्वेनासन्निकृष्टत्वादपकृष्टत्वं यतः ।
उक्तं च तत्रभवत्सद्योज्योतिःपादैः
'बुद्धिर्विषयाकारा सुखादिरूपा समासतो भोग्या।'
(त० सं० १३)
इति ॥ २३ ॥
भावान्वक्तुमाह
भावा बुद्धिगुणा धर्म-
ज्ञानवैराग्यभूतयः ।
२२० मृगेन्द्रतन्त्रे । [ ११०
सात्त्विका व्यत्ययेनैते
रागमुत्सृज्य तामसाः ॥ २४ ॥
धर्मज्ञानवैराग्यैश्वर्याख्या बुद्धिगुणा भाव-
संज्ञया विज्ञेयाः
'भावयन्ति यतो लिङ्गं तेन भावा इति स्मृताः ।'
एते च सात्त्विका बोद्धव्याः । व्यत्ययेन विप-
र्ययेणैते रागमुत्सृज्य वैराग्यविवर्जितास्ता-
मसाः अधर्माज्ञानानैश्वर्यरूपाः । अवैराग्यल-
क्षणस्तु भावो राजसः ॥ २४ ॥
प्रत्ययान् संचष्टे
प्रत्ययास्तदुपादाना-
स्तेऽष्टौ नव चतुर्गुणाः ।
सप्त पञ्च च विख्याताः
सिद्धाद्या वर्गशो मुने ॥ २५ ॥
ते धर्मादय उपादानमुत्पत्तिहेतुर्येषां ते
संसार्यणोः प्रत्यायनात्प्रत्यया इष्टाः । कियन्त
इत्याह अष्टौ नवेत्यादि, अष्टविधा सिद्धिर्नव-
विधा तुष्टिर्वक्ष्यमाणलक्षणा । उक्तं च सांख्यैः
'ऊहः शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ......................॥' (५१)
.
Wait, look at 'कौष्ठ्य': ष् + ठ + य. The 'ठ' in ष्ठ्य looks EXACTLY like the 'ठ' in कौण्ठ्यानि!
Yes! In 'कौष्ठ्य', you see ष्, then that round 'ठ', then '्य'.
In 'कौण्ठ्यानि', you see ण्, then that EXACT SAME round 'ठ', then '्या', then 'नि'!
It is 100% "कौण्ठ्यानि"!
Now look at the next word:
Letter 1:
Is it 'कै' or 'क्लै'?
Look at the left of 'क':
Wait! Look at the left vertical curve of 'क'.
Is there a 'ल' underneath?
Look at line 12: 'कापिलाः' - the 'पि' has a loop.
Look at 'क्लैब्य': in Sanskrit, 'क्ल' is written with a 'क' that has a 'ल' attached to its bottom-left leg.
Does this 'क' have anything attached?
Wait, look at 'कैन्यो...':
Wait, is the letter 'क' or is it 'क्ल'?
It's just 'क', with two strokes on top: 'कै'.
Now the next letter:
Is it 'न्यो' or 'ब्यो'?
Wait, look at 'ब्य' in 'विपर्ययभेदा-' (line 15):
In line
२२२ मृगेन्द्रतन्त्रे । [ ११०
किं तदित्याह
सांसिद्धिका वैनयिकाः
प्राकृताश्च भवन्त्यणोः ॥२६॥
एते भावाः सांसिद्धिकादिभेदात्त्रिधा संसा-
र्यणोर्भवन्ति ॥२६॥
अथ तेषां सांसिद्धिकादीनां स्वरूपमभिधत्ते
विशिष्टधर्मसंस्कार-
समुद्दीपितचेतसाम् ।
गुणः सांसिद्धिको भाति
देहाभावेऽपि पूर्ववत् ॥ २७ ॥
विशिष्टेनेष्टापूर्तादिधर्मसंस्कारेण सम्यगु-
द्दीपितं चेतो येषां तेषां न परं देहसंयोगे
यावद्देहाभावेऽपि प्राग्वद्यो गुणः प्रकाशते, स
सांसिद्धिको नाम बोद्धव्यः ॥ २७ ॥
लोकधीगुरुशास्त्रेभ्यो
भाति वैनयिको गुणः ।
यस्तु सयथावत्स्थितलोकबुद्धेर्गुरुतः शास्त्राद्वा
समर्जितः, स वैनयिको भाति प्रकाशते ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २२३
समर्जितो वैनयिको
मनोवाक्तनुचेष्टया ॥ २८ ॥
यो मनोवाक्तनुचेष्टया शुद्धव्यापारेणार्जितः,
स वैनयिको बोद्धव्यः ॥ २८ ॥
प्राकृतो देहसंयोगे
व्यक्तः स्वप्नादिबोधवत् ।
यः पुनः स्वप्नमदमूर्च्छाप्रबुद्धस्य यथाप्रस्तुत-
संस्कार इव देहसंयोग एव व्यज्यते, न देहा-
पायेऽपि, स प्राकृतो नाम गुणो विज्ञेयः ॥
अथैतेभ्यः सांसिद्धिकादिभ्यो धर्मेभ्यः फ-
लविशेषान्वक्तुमाह
स्वर्गो मुक्तिः प्रकृतित्वाविघातौ
योनिक्रान्तिर्निरयावाप्तिबन्धौ ।
रूपेष्वर्था विनयप्राकृतेषु
संपद्यन्ते सविघाताः क्रमेण ॥ २९॥
तत्र तावद्वैनयिकेषु रूपेषु क्रमेणार्थाः संप-
द्यन्ते स्फीतिमुपयान्ति । के त इत्याह स्वर्ग
इत्यादि, धर्मात्स्वर्गः, ज्ञानान्मुक्तिः, वैराग्यात्प्र-
२२४ मृगेन्द्रतन्त्रे । [ ११०
कृतिलयः, ऐश्वर्यादविघातः यथेष्टसिद्धिरि-
त्यर्थः । अथाधर्मात्तिर्यगादियोनिक्रान्तिः, अ-
ज्ञानान्निरयावाप्तिः, अवैराग्याद्वन्धः, अनैश्व-
र्याद्विघातः ॥ २९ ॥
अथ सांसिद्धिकेषूच्यन्ते
वश्याक्रान्तिस्तत्परिज्ञानयोगो
भोगानिच्छा विघ्नसंघव्यपायः ।
भोगासक्तिर्न्यकृतिर्देहलब्धि-
र्विघ्नश्चार्थास्तेषु सांसिद्धिकेषु ॥ ३०
धर्मादिषु सांसिद्धिकेषु सत्स्विदमिदं संप-
द्यत इति पूर्वेण संबन्धः । किं किमित्यत्राह
वश्याक्रान्तिरित्यादि, वश्याक्रान्तिः सांसिद्धि-
काद्धर्मात्, तत्परिज्ञानयोगस्तादृग्विधाज्ज्ञानात्,
भोगेष्वनभिलाषो वैराग्यात्, विघ्नसमूहापगम
ऐश्वर्यात्, भोगेष्वासक्तिः सांसिद्धिकादधर्मात्,
न्यकृतिर्न्यक्कारस्तथाविधादज्ञानात्, देहलब्धिर-
वैराग्यात्, कार्येषु विघ्नोऽनैश्वर्यादिति ॥ ३० ॥
इति श्रीमद्भट्टविद्याकण्ठात्मजनारायणकण्ठकृतौ मृगेन्द्रवृत्तौ
मायाकार्यविचारप्रकरणं दशमम् ॥ १० ॥
अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( एकादशः पटलः )
इत्थं भावान्विचार्य प्रत्ययान् प्रागुद्दिष्टान्
लक्षयितुं समनन्तरोपसंहृतप्रकरणशेषभूतं प्र-
करणान्तरमाह
अथ सिद्ध्यादिवर्गाणां
लेशात्सामान्यलक्षणम् ।
कथ्यते विप्लवो मा भूत्
समासोक्तेः प्रभेदशः ॥ १ ॥
अथेति भावोक्त्यनन्तरं प्रत्ययसंबन्धिनां
सिद्धितुष्ट्यादिवर्गाणां संक्षेपात्साधारणं लक्षणं
कथ्यते । किमर्थमित्याह विप्लवो मा भूदिति,
प्रभेदशः प्रविभागशः वर्गशः या संक्षेपोक्तिः
कृता, तस्याः सकाशाद्विप्लवो मतिसंमोहो मा
भूत् । तेऽष्टौ नव चतुर्गुणाः सप्त पञ्च चेत्ये-
२९
२२६ मृगेन्द्रतन्त्रे । [ १।११
तावता संक्षिप्तप्रभेदकथनेन बुद्धिविप्लवो यः
शङ्क्यते, स एवंविधा तुष्टिरित्थंविधा सिद्धि-
रित्येवं सामान्यलक्षणे संक्षिप्ते कृते न भव-
तीत्येतदर्थमिदमित्यर्थः ॥ १ ॥
अथ तदुच्यते
पुंप्रकृत्यादिविषया
बुद्धिर्या सिद्धिरत्र सा ।
तुष्टिर्नुरकृतार्थस्य
कृतार्थोऽस्मीति या मतिः ॥२॥
पुंस्यात्मनि, प्रकृतावव्यक्ते आदिग्रहणा-
द्ध्यक्ते च या बुद्धिर्विज्ञानं, सा सिद्धिरित्युच्यते ।
या त्वकृतार्थस्य नुः पुंसः कृतार्थोऽस्मीति बुद्धिः,
सा तुष्टिः ॥ २ ॥
अशक्तिः कारकापाये
सदर्थाप्रभविष्णुता ।
किञ्चित्सामान्यतोऽन्यत्र
मतिरन्या विपर्ययः ॥ ३ ॥
कारकाणामन्तःकरणबहिष्करणानामपाये
विनाशे सति विद्यमानेऽप्यर्थे अप्रभवणशील-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २२०
त्वमशक्तिरन्धबधिरादेरिव रूपशब्दादौ । कि-
ञ्चित्साधारण्यादन्यस्मिन्नन्यादृशी बुद्धिर्विपर्ययः
मरुमरीचिकास्विव जलावगतिः ॥ ३ ॥
प्रकाशकतया सिद्धि-
र्व्यक्तादेः सत्त्वभावजा ।
प्रकाशार्थप्रवृत्तत्वा-
द्रजोंशप्रभवापि च ॥ ४ ॥
सैषा सिद्धिर्व्यक्त्यादिप्रकाशकत्वात् सा-
त्त्विकी सत्त्वस्य प्रकाशस्वरूपत्वात् । किंच
प्रकाशार्थप्रवृत्ततया हेतुभूतया रजोंशप्रभवा-
प्यसौ सिद्धिर्ज्ञेया । नह्यमिश्रा गुणा जनका
इत्युक्तम् ॥ ४ ॥
यतः
तुष्टिर्मिथ्यास्वरूपत्वा-
त्तमोगुणनिबन्धना ।
सुखरूपतया ब्रह्म-
न्सात्त्विक्यप्यवसीयते ॥ ५ ॥
२२८ मृगेन्द्रतन्त्रे । [ १।११
अकृतार्थस्य कृतार्थोऽस्मीति बुद्धिस्तुष्टि-
र्योक्ता, सेयं मिथ्यारूपत्वात् तमोगुणलक्षणा,
सुखरूपतया सात्त्विक्यप्यवगम्यते ॥ ५ ॥
अशक्तिरप्रवृत्तत्वा-
त्तामसी दुःखभावतः ।
राजस्यपि गुणो दृष्टः
कार्ये कारणसंश्रयः ॥ ६ ॥
अप्रवृत्तिरूपा अशक्तिरुक्ता । अतश्चासौ ता-
मसी, दुःखहेतुत्वाच्च राजस्यपि विज्ञेया। यो हि
कार्येऽशक्त्याख्ये दुःखरूपोऽप्रभविष्णुतारूपो
वा गुणोऽस्ति, सोऽवश्यं कारणाश्रयः रजस्तमो-
लक्षणकारणजनित इत्यर्थः ॥ ६ ॥
विपर्ययस्तमोयोनि-
र्मिथ्यारूपतया स च ।
सामान्यमात्रकाभासा-
त्सत्त्वात्मेति विनिश्चितः ॥७॥
विपर्ययस्य मिथ्यारूपत्वात् तमःप्रभवत्वम्।
स च विपर्ययः साधारण्यमात्रप्रथनात्प्रकाश-
रूपः सत्त्वात्मकोऽपि निश्चितः ॥ ७ ॥