मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 248, कुल 448 में से
संदर्भ में पढ़ें२१८ मृगेन्द्रतन्त्रे । [ १।१०
त्रित्वेऽपि परस्परावियोगाद्गुणतत्त्वमेकं ज्ञेयम् ।
ननु
'ये चैके सात्त्विका भावा राजसा ये च तामसाः ।'
इत्यादौ भिन्नमेषां सत्त्वादीनां कार्यं श्रूयते, न
त्ववियोगादेकमेतत्तत्त्वमित्याह एकैकश्रुतिरि-
त्यादि, एषां गुणानामिदं सात्त्विकमिदं राज-
समिदं तामसमित्यादिका एकैकश्रुतिर्वृत्त्या-
धिक्यहेतुकी । अधिकवृत्ति सत्त्वं यस्य, स सा-
त्त्विकः पदार्थः, एवं राजसतामसौ विज्ञेयौ ॥
न तदस्ति जगत्यस्मि-
न्वस्तु किञ्चिदचेतनम् ।
यन्न व्याप्तं गुणैर्यस्मि-
न्नेको वामिश्रको गुणः ॥ २२ ॥
अस्मिन् जगति तादृगचेतनं वस्तु न कि-
ञ्चिदप्यस्ति, यद्गुणैर्न व्याप्तं, यत्र वामिश्रको-
ऽन्यासंपृक्त एक एव सत्त्वादिर्गुणः । उन्मग्न-
निमग्नादिवृत्तिसत्त्वादिगुणत्रयान्वितं सर्वं जग-
दिति तात्पर्यम् ॥ २२ ॥