मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 245, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१५
एवं तर्हि यथा देहेन्द्रियादिभिः स्वस्वव्या-
पारप्रवृत्तैः सह कर्म पुरुषार्थसाधनक्षमम्, एवं
स्वकार्यनिष्पादकनियतितत्त्वसापेक्षं तत् निया-
मकमस्त्विति न कश्चिद्दोषः ॥ १७ ॥
पुंस्तत्त्वं तत एवाभूत्
पुंप्रत्ययनिबन्धनम् ।
आपूरकं प्रधानादे-
भौवने रुद्रसंश्रयम् ॥ १८ ॥
संहारसमये यदनन्तेशनाथेन विश्रामितं,
ततः तस्मादेव मायातत्त्वात्पुंस्तत्त्वमाविरभूदि-
त्यर्थः । पुंप्रत्ययनिबन्धनमिति पुंप्रतीतेर्हेतुः,
अनेन मायागर्भस्थेभ्योऽधिकारिरुद्राणुभ्यस्त-
तद्भुवननिवासिभ्यश्च वैलक्षण्यमुक्तं तेषां पुं-
स्प्रत्ययायोगात् । तच्च पुंस्तत्त्वं प्रधानादेस्तत्त्व-
व्रातस्यापूरकं पुरुषार्थत्वेन कार्यसहितस्य प्रधा-
नस्येष्टत्वात् । एवं छात्रहेतुकत्वादध्ययनस्य 'छा-
त्रा अध्यापकाः' इत्यादिवदापूरकशब्दो ज्ञेयः ।
भौवने चाध्वनि तत् पुंस्तत्त्वं रुद्रसंश्रयम् ।
तथाचोक्तं श्रीमत्खतन्त्रे