मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 239, कुल 448 में से
संदर्भ में पढ़ेंश्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । २०९
स्वयं बोद्धुमसमर्थत्वादित्यर्थः । तदर्थमनन्तेशः
कलां तत्त्वाविर्भावनसहां प्रक्षोभ्य जन्यजन-
नाभिमुखीं कृत्वा आत्मनः परं प्रकृष्टं करणं
विद्याख्यं सृष्टवान् । परत्वं चास्य साक्षात्सा-
ध्यस्यैवोपकारकत्वात् तदुत्तेजितज्ञानशक्तेरन्तः-
करणबहिष्करणैर्योग इति तेषामपरत्वम् ॥९॥
यदुक्त
तेन प्रकाशरूपेण
ज्ञानशक्तिप्ररोचिना ।
सर्वकारकनिष्पाद्य-
मवैति विषयं परम् ॥ १० ॥
तेन विद्याख्येन तत्त्वेन प्रकाशकत्वात्
ज्ञानशक्त्यभिव्यञ्जकेन सर्वैर्बुद्धीन्द्रियैः कर्मे-
न्द्रियैर्यथास्वं निर्वर्त्यं परं कर्तृविषयात् कार्यात्म-
कविषयात् अन्यत् ज्ञेयाख्यं, यद्वा परमिति
अव्यवहितं विषयं प्रतिबिम्बितबाह्यविषयत्वेन
संनिकृष्टं बुद्धितत्त्वमवैति जानाति । विद्या-
ख्येन करणेन किल प्रतिबिम्बितस्रक्चन्दनादि-
२७