मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 242, कुल 448 में से
संदर्भ में पढ़ें२१२ मृगेन्द्रतन्त्रे । [ १।१०
योगात् भूततन्मात्रात्मककार्याश्रयस्थैः सद्भिः।
उक्तं च खेटकनन्दनेन.
‘एतत्कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् ।
अविश्रुतत्वात्करणानि तु कार्यमधिष्ठाय चेष्टन्ते ॥’ (त० सं०४)
इति ॥ १३ ॥
अथ कोऽसौ कालो नाम, कुत उत्पन्नः, किं
वा करोतीति । अत्रोच्यते
त्रुट्यादिप्रत्ययस्यार्थः
कालो मायासमुद्भवः ।
कलयन्ना समुत्थाना-
न्नियत्या नियतं पशुम् ॥१४॥
त्रुटिलवनिमेषमुहूर्त्तादेः प्रत्ययस्य ज्ञानस्या-
र्थो निमित्तं यः, स कालः । ‘स मुहूर्त्तमास्ते,
प्रहरं भ्राम्यति’ इत्यादिप्रतीतिरजस्रपरिवर्तिनो
यस्माद्भवति, स मायात उत्पन्नः पशुत्वेन मलेन
युक्तमात्मानं कलयन् काल इत्युच्यते । यदाहुः
‘जलयन्त्रभ्रमावेगसदृशीभिः प्रवृत्तिभिः ।
स कालः कलयंस्तावत्कालाख्यां लभते ततः ॥’
इति । कीदृशं पशुं कलयन्नित्याह आ समुत्था-
नान्नियत्या नियतं, नियतेः समुत्थानं स्वकार-