सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 247, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 247

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१७
विन्ध्यः करिपुरुषतुरङ्गादिरूपाः कटककुण्डलाद्या-
भरणात्मिका वा अर्थक्रियाः शक्तिरूपतया
स्थिताः, एवं शक्त्यात्मना स्थितस्वकार्यजन-
कतन्मात्राद्यन्थिसप्तककारणस्य गुणतत्त्वस्या-
व्यक्तादुद्भवः ॥ १९ ॥
ततो बुद्ध्याद्युपादानं
गौणं सत्त्वं रजस्तमः ।
तद्वृत्तयः प्रकाशाद्याः
प्रसिद्धा एव भूयसा ॥ २० ॥
तत इति तस्मात्प्राधानिकात्तत्त्वात् वक्ष्यमा-
णभावप्रत्ययसहिताया बुद्धेरुद्भवहेतुर्गौणं तत्त्वं
सत्त्वरजस्तमोरूपमजीजनदिति पूर्वेण संबन्धः।
तेषां च सत्त्वादीनां प्रकाशप्रवृत्तिनियमा-
त्मिकास्तिस्रो वृत्तयो बाहुल्येन प्रथिता इतीह
नोक्ताः ॥ २० ॥
त्रयो गुणास्तथाप्येकं
तत्त्वं तद्वियोगतः ।
एकैकश्रुतिरेतेषां
वृत्त्याधिक्यनिबन्धना ॥ २१ ॥
२६