मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
७८ मृगेन्द्रतन्त्रे । [१।२
त्राविद्यमानत्वात् । पटाद्भिद्यमानोऽयं घटोऽन्य
एवेति सिद्धं साध्यते । तदाह
सदन्यदसदन्यच्च
तदेवं सिद्धसाध्यता ।
ननु स्वात्मना यथा घटः स्वसामर्थ्यक्रियां
करोति, एवं पटात्मनापि तत्कार्यं कुर्यात्, न
च करोति, अतः पटात्मना नास्ति, यदि स्वा-
त्मनापि परात्मवन्न स्यात्, तदा स्वकार्यमपि न
कुर्यात् तस्मादस्ति च नास्ति चेत्युक्तम् । तथै-
तद्घटत्वमघटत्वं च परस्परमभिन्नम् । भेदे हि
तद्बुद्ध्यभिधानानुवृत्तिर्न स्यात् , घटश्चाघटश्चेति
सामानाधिकरण्यं च न भवेत् । अस्ति चैतत् ,
तस्मादुभयात्मकोऽसौ क्रमेण तच्छब्दाभिधेय-
तामुद्वहन् स्यात् घटश्चाघटश्चेत्यविरोधः । एत-
दप्ययुक्तं यतो नास्ति कश्चिदभेदः । तथाहि
अघटशब्दे घटो न भवतीति प्रसज्यप्रतिषेधो
वा स्यात्, घटादन्यः पटादिरिति वा पर्यु-
दासः । आद्ये पक्षे घटश्चाघटश्च स्यादित्युक्ते
घटाघटयोर्व्यतिरेकाद्धटस्याभाव एव घट
इत्यभिप्रेतम् । एवं चेष्यमाणे सर्पाभावेऽपि
सर्प एव स्यात् । तथा च सति सर्पादिवत्
तद्भावादपि भयं स्यात् । ससर्पनिःसर्पदे-
शयोः सम एवोपलम्भो भवेत् । पर्युदासपक्षे-
ऽपि घटत्वादन्यदघटत्वं भिन्नमेव पटत्वादिकं
कथ्यते । तच्च घटत्वाद्भिन्नम्। अभेदे हि घटादि-
ष्वपि पटबुद्ध्याभिधानानुवृत्तिर्न स्यात् । घटादा-
वपि स्पष्टे घटप्रत्ययश्च न स्यात्। तस्मान्न घटा-
घटयोरभेद इति न सदसतोरेकाश्रयत्वम् ॥
किंच
असज्जघन्यं सच्छ्रेष्ठ-
मित्यपि ब्रुवते बुधाः ॥ १८ ॥
नैकत्र तदपेक्षातः
स्थितमेवोभयं ततः ।
यदपि सदसच्छब्दाभिधेयं श्रेष्ठाश्रेष्ठरूपं
वस्तु, तदपि तद्विदो नैकत्राभिदधति तस्यापि
भिन्नविषयत्वात्। नहि यदेवाश्रेष्ठं, तदेव श्रेष्ठ-
मिति वक्तुं शक्यम् । अयमेव हि भावानां
भेदः-यद्विरुद्धधर्माध्यासः । अथ मतं यत्तच्छ्रे-
ष्ठाश्रेष्ठत्वं, तदेकत्र संभवत्येव अपेक्षावशात् ।
८० मृगेन्द्रतन्त्रे । [ १।२
यथायं देवदत्तो यज्ञदत्तसकाशादभिरूपः, चै-
त्रापेक्षया तु नीरूप इति । एवं तर्हि यज्ञदत्त-
स्याश्रेष्ठत्वं चैत्रस्य च श्रेष्ठत्वमित्युभयं तत
इत्यपेक्षातः। एवं भिन्नं लब्धं यदपि द्वयं, तदा-
पेक्षिकत्वादसत्यम् । अपेक्षा हि नाम न वा-
स्तवी । तस्याः किल वस्तुनः सति सद्भावे किं
प्रयोजनं सिद्धसत्ताकत्वेनानपेक्षत्वात् । तथा
चाहुः
'संश्च सर्वो निराशंसो भावः कथमपेक्षते।'
इति । न चालब्धसत्ताके वस्तुन्यपेक्षायाः कि-
मपि करणीयमस्ति, तस्यासत्त्वादेव तदपेक्षा-
नुपपत्तेः । तदिदमुक्तम्
'अपेक्षा न सतां सिद्धेरसिद्धेरपि नासताम्।'
इति । तदेवं न कथंचिदपि सदसतोर्भेदो-
पपत्तिः ॥
अथ चेत्तदसद्भावे
सद्युक्ततरो यतः (?) ॥ १९॥
तत्कर्मसंकरभया-
द्व्यापित्वं च ते जगुः ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ८१
सामान्येतरसंबन्ध-
ज्ञानाभावादचेतसः ॥ २० ॥
तस्य देहात्पूर्वं सदसत्त्वेनाभिमतस्य व्याप-
कत्वात् पुद्गलान्तरैः सह कर्मसंकरः शङ्क्यते ।
व्यापकत्वे हि विप्रकीर्णानां कर्मणां भोक्तॄन् प्रति
नियमः किंकृतः, अव्यापकानां तु तेषां प्रत्येकं
व्यवस्थितो मोहादिबन्धपदार्थ एव तन्नि-
यामक इति कर्मसंकरभयादव्यापकत्वमचे-
तसः दुर्बुद्धयः जगुरूचुः । कुत एषां मन्दबु-
द्धित्वमित्याह—सामान्येतरसंबन्धज्ञानाभावात्
समान्येनानादिकालीनेनात्मनो व्यापकत्वेन
यः संबन्धः सर्वकालभावित्वेन साधारण्यमस्य
इतरेण च मुक्तावेव संजातत्वात् तथारूपेण,
तयोर्ज्ञानं सम्यगवबोधस्तेषां पुद्गलवादिनां
नास्ति । यदि हि तदवबोध एषां स्यात्, तदा
नैवमयुक्तमेव कल्पयेयुर्मोहादिपाशावरुद्धसह-
जव्यापकस्वभावस्यात्मनः स्वभावत एवाव्या-
पकत्वाभ्युपगमो यस्तस्य विरुद्धत्वात् ॥ २० ॥
११
८२ मृगेन्द्रतन्त्रे । [ २।२
तथाहि
यः प्रागव्यापकः सोऽन्ते
कथमन्यादृशो भवेत् ।
स विकासादिधर्मा चे-
त्ततो दोषपरम्परा ॥ २१ ॥
प्राक् पूर्वं संसारावस्थायामव्यापको यः, स
कथं मोक्षे व्यापकः, व्यापकत्वं च तदानी-
मप्यभ्युपगन्तुमयुक्तम् । एवं हि संसारमुक्त्यो-
रविशेषः स्यात् । अथ तथाविधधर्मस्य वि-
काससंकोचधर्मित्वमभ्युपगम्यते—यदुत सं-
सृतौ संकोचमेति मुक्तौ तु विकसति इति,
ततो विपरिणामित्वजडत्वाद्यनेकदोषसन्ततिः
प्रसज्यत इति न कथंचिदपि सदसद्वादिमत-
मुपस्थापयितुं शक्यम् ॥ २१ ॥
इदानीं पादार्थिकदर्शनप्रदर्शितमुक्तिनिरा-
करणायाह
षट्पदार्थपरिज्ञाना-
न्मिथ्याज्ञानं निवर्तते ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ८३
रागद्वेषौ ममत्वं च
तद्विशेषगुणास्ततः ॥ २२ ॥
क्रमशॊ विनिवर्तन्ते
देहसंयोगजा यतः ।
सा मुक्तिर्जडतारूपा
ततो मुक्तः शवो न किम् ॥२३॥
द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां
पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रे-
यसहेतुरित्यभ्युपगमात् द्रव्यादिपदार्थषट्कस्य
यथावज्ज्ञानादज्ञाननिवृत्तौ रागादिदोषोपशमे
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां
नवानामात्मगुणानां देहसंयोगजत्वात् क्र-
मेण निवृत्तौ या मुक्तिः, सा बुद्ध्याद्युपरमे सति
आत्मनस्तद्विनाकृतस्य किंचिज्ज्ञत्वोपरमाज्जड-
तारूपाङ्गीक्रियते, ततः शवोऽपि किं न मुक्तः
कल्प्यते तस्यापि बुद्ध्यादिगुणविरहेणेच्छाज्ञा-
नादिविनाकृतत्वादिति भावः ॥ २३ ॥
८४ मृगेन्द्रतन्त्रे । [ ११२
अथ सौगतमुक्तिनिराचिकीर्षया तन्मत-
मनुभाष्य दूषयति
चिद्व्यञ्जकस्य कर्मादेः
क्षणिकत्वान्मुहुर्मुहुः ।
व्यज्यते जायमानैव
क्षणिकेति मता परैः ॥ २४ ॥
चिज्ज्ञानं ग्रहीतृरूपं संवेदनम् । सा चित्
व्यञ्जकस्य व्यक्तिहेतोः कर्मणो व्यापारस्य
योगसंग्रहणादेर्यदि वा कर्मणो ग्राह्यस्य घटप-
टादेरादिग्रहणात्करणस्य चक्षुरादेः, सहकारिण
आलोकादेश्चानतिस्थैर्यात् प्रतिक्षणमुत्पद्यमा-
नैव व्यज्यते प्रकटीभवति । अयमर्थः-वक्ष्य-
माणसत्कार्यवाददृशा अभिव्यक्तितिरोभाव-
भाजां भावानां व्यापारभेदेन अवस्थादेशका-
लादिभेदेन चानतिस्थैर्यात्तज्ज्ञानमपि तत्तदुपा-
धिभेदान्मुहुर्मुहुर्व्यज्यमानं क्षणिकं, तदेव च
प्रमाणमिति परे मन्यन्ते । तदाहुः
'नित्यं प्रमाणं नैवास्ति प्रामाण्याद्वस्तुसंगतेः ।
ज्ञेयानित्यतया तस्या अध्रौव्यात्क्रमजन्मनः ॥'
इति । चिदेव हि क्षणिका तत्तदर्थप्रकाश-
रूपानुभवसिद्धा, नत्वेतद्व्यतिरिक्त आत्मा
विद्यते संवेदनव्यतिरिक्तस्य भेदेनाप्रतिभास-
नात् । यथाहुः
‘एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं
पश्यामः, तत्र यथेष्टं संज्ञाः क्रियन्ताम् ।’
इति । संवेदन एव क्षणिके जलधाराप्रवा-
हवत् सदृशपरापरोत्पत्तिभ्रमाद्विकल्पेन स्थैर्य-
मध्यारोप्यत इत्यविद्याजनिता सेयमात्मदृष्टिः ।
तदुक्तं
‘मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि भोक्तरि ।’
इति । आत्मग्रहे हि सति तदन्यत्र परत्वाभिमा-
नात् स्वपरभेदः, ततश्च रागद्वेषाद्यनर्थोद्भवादा-
त्मग्रहो बन्ध इति भगवता सुगतेन नैरात्म्य-
भावनोपदिष्टा । यदुक्तम्
‘आत्मनि सति परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ ।
अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥’
इति । नचाभ्युपगतस्याप्यात्मनो नित्यत्वं
घटते यत्सत्, तत्सर्वं क्षणिकमक्षणिकस्य
क्रमयौगपद्याभ्यामर्थक्रियानुपपत्तेः सत्ताया ए-
वासिद्धत्वात् । तदाहुः
८६ मृगेन्द्रतन्त्रे । [ ११२
'अर्थक्रियासमर्थं यत्तदत्र परमार्थसत् ।
असन्तोऽक्षणिकास्तस्मात्क्रमाक्रमविरोधतः ॥'
इति । तथाहि नित्यो भावः क्रमेण वार्थ-
क्रियां कुर्याद्युगपद्वा । न तस्य तावत्क्रमेण कर-
णमुपपद्यते यस्मादयमप्रच्युतोऽनुत्पन्नस्थिरैक-
स्वभावः । स च कालान्तरनिर्वर्त्यामर्थक्रियां
तदानीमेव किं न करोति, नह्यसाववसरा-
न्तरकरणीयं स्वभावान्तरेण कुर्यात् स्वभाव-
स्यैकरूपत्वात्, स्वभावान्यथाभावे हि तद्गतो-
ऽपि तद्व्यतिरेकाद्विनाशस्ततश्चानित्यत्वम् ।
अथोच्यते स पदार्थोऽर्थक्रियां करोत्येव यदि
सहकारिणोऽस्य संनिहिताः स्युः, तदसंनिधाना-
दकुर्वाणस्य नास्योपालम्भयोग्यत्वमिति । नैवं,
सहकारिणोऽस्याकिंचित्कराश्चेत्किमर्थं तानपे-
क्षते । किंचित्करत्वे तु यत्तत्किंचित्कुर्वन्ति, त-
त्ततोऽव्यतिरिक्तं, व्यतिरिक्तं वा ? व्यतिरिक्तक-
रणे किं तस्य तदपेक्षया, तदव्यतिरिक्तकरणे
स एव सहकारिभिः क्रियत इत्यायातम् । न
चास्थिरस्य करणमुपपन्नं तत्स्वभावस्य सतः
स्वहेतुभ्य एवोत्पत्तेः, कृतस्य च कर्तुमशक्य-
त्वात्। अथ स्थिरस्वभावस्यास्य सहकारिणो-
ऽतिशयाधानं कुर्वन्ति येन कालान्तरेऽर्थक्रियां
करोतीति। एतदप्यसद्यस्मादनाहितातिश-
यात् स्वभावादाहितातिशयोऽन्य एवेति स्थि-
रैकस्वभावतैव त्रुट्यति। तथाहि सहकारिभ्यो-
ऽतिशयोत्पत्तौ स पूर्वोत्पन्नानाहितातिशयस्व-
भावः स्वत एव विनष्टोऽभ्युपगन्तव्यः। तस्या-
नश्वरस्वभावत्वेन नाशहेतोरपि तत्राकिंचित्क-
रत्वात्, विनश्वरोद्भवस्वभावत्वे वा वैयर्थ्या-
त्तस्य च स्वभावस्याविशेषात् प्रतिक्षणमिति
क्षणिकता। तदेवं न नित्यस्य क्रमेणार्थक्रिया।
नापि युगपत्करणमुपपद्यते यस्माद्यौगपद्येन
निर्वर्तिताथर्क्रियोऽपि तस्मात्स्वभावान्न विरमेत्
स्थीरैकस्वभावत्वात्, स्वभावविरतौ स्वभाव-
हानिः क्षणिकत्वमेव। अथ नास्य स्वभावान्तर-
योगः, किंतु न करोत्येवायं, कार्यस्य त्वयं वि-
पाकः कृतस्य यत्कर्तुमशक्यत्वमेव। तदप्ययुक्तं
तस्य तावदर्थक्रियामकुर्वतोऽस्यैव सत्ताया एव
दुर्लभत्वात्
‘अर्थक्रियासमर्थं यत्तदत्र परमार्थसत्।’
८८ मृगेन्द्रतन्त्रे । [ १।२
इत्युक्तत्वात् । अर्थक्रियाकरणलक्षणात् स्वभा-
वात्तदकरणात्मकस्वभावोऽन्य एवेति कथमस्य
न स्वभावान्तरयोगः । यदि च यौगपद्येनापि
कुर्वन्ननवरतं करोति, तदा स्वभावाविशेषात्
सर्वदा सर्वार्थक्रियाकरणप्रसङ्ग इति क्षणिक-
मेवेदं संवेदनं युक्तं, नतु तद्व्यतिरिक्तनित्या-
त्मसिद्धिरिति पूर्वः पक्षः ॥ २४ ॥
सिद्धान्तस्तु
तदसत्कर्मणो भोगा-
दृतीतानुभवस्मृतेः ।
तदेतत्क्षणिकत्वं संवेदनस्य, नैरात्म्यभाव-
नाभ्युपगमनं च न युक्तं स्वसंवेदनसिद्धस्य
स्थिररूपस्यापरोक्षस्यात्मनः प्रकाशनात् । ननु
सदृशपरापरक्षणोत्पत्तिविप्रलब्धत्वात् स्थैर्यम-
ध्यारोपितमित्युक्तम् । तदयुक्तं स्वात्मनि क्रिया-
विरोधादध्यारोपानुपपत्तेः । यदपि क्षणभङ्ग-
साधनार्थमक्षणिकस्य क्रमयौगपद्याभ्यामर्थ-
क्रियाविरोधात्सत्ताया एवासिद्धत्वाद्यत्सत् त-
त्क्षणिकमित्यनुमापनघटनं कृतं, तत्स्वसंवेदन-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ८९
लक्षणप्रमाणबाधितत्वादयुक्तमक्षणिकस्य सतः
सर्वस्य स्वसंवेदनस्यानुभवसिद्धत्वात् , अनैका-
न्तिकं च सर्वस्य सतः क्षणिकत्वेन व्या-
प्तिप्रदर्शने सति अक्षणिकस्य परमार्थसतो
वैधर्म्यदृष्टान्तस्यासंभवाद्विपक्षव्यावृत्त्यदर्शनेन
हेतोः केवलान्वयिनो गमकत्वाभावात्। विरुद्ध-
श्चायमसत्त्वाख्यो हेतुः साध्यविपर्ययेणाक्षणिक-
त्वेन सर्वार्थक्रियाकारिणि घटादौ सिद्धव्याप्ति-
कत्वात्। यदप्येतद्व्याप्तिसाधनार्थं नित्यस्य क्रम-
यौगपद्याभ्यामर्थक्रियाविरोधादिति हेत्वन्तरं,
तदप्याश्रयासिद्धत्वादयुक्तम् । नहि नित्यः क-
श्चिदर्थो भवद्भिरभ्युपगतो यत्रायं हेतुः सिद्धः
स्यात् । नचानित्यस्यापि मण्यादेरर्थस्य क्रमेणा-
नैकदेशस्थांस्तांस्तान्भावान्प्रकाशयतो, युगपच्चै-
कगृहगतान् घटपटादीनवभासयतः कश्चिद्वि-
रोधः। अपिच न तावत् क्षणिकं संवेदनमनेक-
क्षणनिर्वर्त्यार्थक्रियानुष्ठानसमर्थमुत्पत्त्यनन्तरं
ध्वंसिनस्तदुपपत्त्ययोगात् । नचारोपितं स्थैर्यं
तत्तद्व्यापारनिर्वर्तनक्षमं, तस्य च स्वात्मन्यध्या-
रोपानुपपत्तेरित्युक्तत्वात्। आरोप्यस्य चावस्तु-
१२
त्वेनार्थक्रियानुष्ठानमसंबद्धम्। वस्तुत्वे च स्थिर-
स्यावबोधस्यात्मरूपत्वेनास्माभिरभ्युपगमान्ना-
स्ति भेदः। क्षणव्यतिरिक्तश्च सत्तासन्तानो
न कथंचिदुपलभ्यते, तस्मात्कर्मानुष्ठानदर्शना-
न्यथानुपपत्त्या वस्तुसिद्धमेवास्य चिदात्मनः
स्थैर्यम्। इतश्चैतत्क्षणिकत्वमयुक्तं कर्मणो
भोगात्। क्षणान्तरानन्वयिनि विज्ञाने कर्मभो-
गोऽनुपपन्नः, येनैव हि दृष्टं सेवाकृष्यादि कर्म
कृतं, तमेव तस्य भोक्तारमुपलभामहे। दृष्टव-
च्चादृष्टकल्पना युक्तिमती। यद्युभयजन्मनि श-
रीरादिभेदेऽप्यभिन्न एक एव भोक्ताभ्युपग-
म्यते, तदाहि कर्मफलभोगो निर्बाधो भवति।
अथ चैत्यवन्दनाख्यं कर्मान्येन कृतमन्यस्यैव
तत्फलेन स्वर्गादिना योग इत्यकृताभ्याग-
मकृतविप्रणाशप्रसङ्गो दुर्নিবারः। उक्तं च
श्रीमतङ्गे
'कृतमेकेन यत्कर्म तद्विपाकं परः कथम्।
प्राप्नोति युक्तिदौर्बल्यात्......... ॥' (६।२८)
इति। ननु नायं दोषः ऐहिकस्य कर्मणो
श्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । ९१
लब्धशरीरेण ज्ञानसन्तानेन परत्र भोगोपपत्तेः।
तदयुक्तमशरीरस्य ज्ञानसन्तानस्य सद्भावे
प्रमाणाभावात् । कर्मफलभोगान्यथानुपपत्त्या
विज्ञानसन्तानसिद्धिस्तत्सिद्ध्या च कर्मफलभोग
इत्यनुपपन्नमस्थैर्यं संवेदनस्य । इतश्च क्षणिकं
संवेदनमित्यसत् । कुत इत्याह 'अतीता-
नुभवस्मृतेः' अतीतः समतिक्रान्तो यस्या-
नुभवस्तस्य स्मरणात् । यदा हि स्थिरस्व-
भाव उभयकालानुसंधाता आत्माभ्युपगम्यते,
तदानुभूतविषयासंप्रमोषरूपं स्मरणमुपपद्यते,
नतु क्षणिकत्वे। नहि प्राक्तनक्षणानुभूतसुखदुः-
खादिसंवेदनं वर्तमानेन कालान्तरभाविना
वा क्षणेन स्मर्तुं शक्यं तस्यान्यत्वात् यथा न
देवदत्तानुभूतं तत्पुत्रः स्मरति । दृश्यते च
शैशवाद्यनुभूतं यौवनस्थाविराद्यवस्थासु स्मर्य-
माणम् । साचेयमतीतानुभवस्मृतिः क्षणिकतां
विज्ञानस्य निरस्यति, नतु स्थिरस्वभावमा-
त्मानमनुमापयति तस्य स्वसंवेदनसिद्धस्य स्वा-
नुभूत्येकप्रमाणत्वात् ॥
९२ मृगेन्द्रतन्त्रे । [ १।२
तदेवं कर्मोपभोगादतीतानुभवस्मृतेश्च न
क्षणिकत्वमुपपद्यते चितः । तदाह
स्थितिर्निरन्वये नाशे
न स्मृतेर्नापि कर्मणः ॥ २५ ॥
सूच्यग्रनिपतत्सर्षपवदनवस्थायित्वादविश्र-
म्यैव विनश्यत्सु विज्ञानक्षणेषु प्रोक्तवन्न
स्मृतेरवस्थितेरुपपत्तिः कल्प्यते, नापि कर्मण
इत्यलमलीककल्पनाकुलीकृतस्थितिना क्षणभ-
ङ्गाभिनिवेशेन ॥ २५ ॥
किंचायमपरोऽत्र दोषः—यदुत
विनाशलक्षणोऽपैति
न मुक्तावप्युपप्लवः ।
नचास्त्यनुभवः कश्चि-
द्ध्रुवावस्था वरं ततः ॥ २६ ॥
शुद्धचित्तसंततिसमुत्पादो भवतां मोक्षः
स्यात्, यदि वा प्रदीपनिर्वाणरूपः । आद्ये
पक्षे स्वपरिकल्पितस्य प्रतिक्षणविनाशित्वल-
क्षणस्योपप्लवस्य मुक्तावप्यनुपशमः । द्वितीये
तु प्रदीपनिर्वाणरूपत्वात्संवेदनासंभवतः क-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ९३
श्चिद्प्यनुभवो नास्तीति तथाविधात्संवेदन-
विनाशात्मकात् काष्ठकुड्यादीनामपि सुलभा-
न्मोक्षात्संसारावस्था वरं सौगतानामिति कृत-
मेवंविधमोक्षलिप्सया ॥ २६ ॥
तदियता वेदान्तसांख्यसदसत्पदार्थिका-
दिमतेषु असर्वदर्शिप्रणेतृत्वाद्वस्तुसंग्रहस्यास्फु-
टत्वमसंबद्धतां चोद्भाव्य दर्शनान्तराणामप्ये-
षैव वार्तेति तत्तदभिनिवेशिनां न निरतिश-
यनिःश्रेयसयोग इति वक्तुमाह
इत्याद्यज्ञानमूढानां
मतमाश्रित्य दुर्धियः ।
अपवर्गमभीप्सन्ति
खद्योतात्पावकार्थिनः ॥ २७ ॥
शिवशक्तिविद्येश्वरादावुपादेयसतत्त्वे मल-
कर्ममायादौ च हेयपरमार्थे येषां नास्त्यवबोधः,
तेषामज्ञानमूढानां दर्शनान्तरप्रणेतॄणां संबन्धि
मतं शास्त्रमाश्रित्याकुशलमतयो ये मुक्ति-
मिच्छन्ति, ते खद्योतादग्न्यर्थिनः कीटमणे-
र्वह्निं लिप्सवः । ते यथा व्यर्थश्रमास्तथा ते
विफलक्लेशा भवन्तीत्यर्थः ॥ २७ ॥
९४ मृगेन्द्रतन्त्रे । [ १।२
तथाहि
यत्कैवल्यं पुंप्रकृत्योर्विवेका-
द्यो वा सर्वं ब्रह्म मत्वा विरामः ।
या वा काश्चिन्मुक्तयः पाशजन्या-
स्तास्ताः सर्वा भेदमायान्ति सृष्टौ ॥
यदेतत्कपिलकल्पितं पुंप्रकृत्योर्विवेकात्कैव-
ल्यं, या च सर्वं खल्विदं ब्रह्मेति मत्वा द्वैत-
विकल्पप्रहाणे सति ब्रह्मप्राप्तिः, याश्च पाशज-
न्याः काश्चित्पाञ्चरात्रादिभिर्मुक्तयोऽभ्युपगताः ।
यथाहुः
‘ईशास्तु ते समभवन्प्रकृतेः परस्याः
कृष्णानिरुद्धमकरध्वजरौहिणेयाः ।’
इति । यथा वा कालैकवादिनां
‘कालः सृजति भूतानि कालः संहरति प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥’
इति । यथा वा केषांचित्
‘चित्तमेव हि संसारो रागादिक्लेशदूषितम् ।
तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥’
इति । एताः किल प्रकृतिकालबुद्ध्यादीनां
बन्धकत्वेन पाशरूपत्वात् पाशजन्या मुक्तयः
सर्गारम्भे भेदमायान्ति विनश्यन्तीत्यर्थः ।
यदुक्तं श्रीमन्मतङ्गे
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ९५
'तस्मात्प्रधानशब्देन तत्त्वमुक्तमचेतनम् ।
तस्मात्परं नास्त्यपरं येषां भावः प्रतिष्ठितः ॥
न ते मुक्ता मुनिव्याघ्र पुनरायान्त्यधोगतिम् ।' (१५।७)
इति । तथा
'उपादानेषु लीनानां पुनरावर्तनं ध्रुवम् ।'
इति । तेषां तु तथाविधमिथ्याध्यासभाजां न नि-
रन्तरमज्ञानध्वान्तसन्ततिरन्तःकरणमावृणोति,
अपितु ते क्रमेण विवेकप्रथनात्परमेश्वरानु-
ग्रहास्पदतां कस्मिंश्चिदपि काले यास्यन्ति ।
तथाचोक्तं श्रीमत्पौष्करपारमेश्वरे
'न मोक्षं याति पुरुषः स्वसामर्थ्यात्कदाचन ।
मुक्त्वा प्रसादं देवस्य शिवस्याशिवहारिणः ॥'
इति ॥ २८ ॥
अथैवं मतान्तरोक्ताया मुक्तेः प्रागुक्तवद-
सत्यत्वे, ततः किं तद्वैलक्षण्यमिहतयोः सिद्धि-
मुक्त्योरित्याह
शैवे सिद्धो भाति मूर्ध्नीतरेषां
मुक्तः सृष्टौ पुनरभ्येति नाधः ।
विश्वानर्थान्स्वेन विष्टभ्य धाम्ना
सर्वेशानानीशितः सर्वदास्ते ॥२९॥
इह शास्त्रे यः सिद्धः स विविधभुवनोपप-
न्नविचित्रैश्वर्यसंपादिततत्तद्भोगभाक् सर्वोत्क-
९६ मृगेन्द्रतन्त्रे । [ १।२ .
र्षशाली भवति । तथाचोक्तं बृहस्पतिपादैः
'यन्माहात्म्यं भगवति परमशिवेऽनुपममव्ययमचिन्त्यम् ।
तन्माहात्म्यं सिद्धे हतबन्धनमण्डले भवति ॥'
इति । न च दर्शनान्तरप्रतिपन्नब्रह्मलयसंवि-
द्विनाशप्रकृतिपुरुषविवेकाद्यात्मनो मोक्षस्यैवं-
गुणत्वमित्युक्तम् । यस्त्वस्मिन्दर्शने मुक्तः, स
बन्धकारणानां मलकर्ममायापरमेश्वरनिरोध-
शक्तीनामुपरताधिकारत्वात् पुनः सर्गप्रारम्भे
नाधोऽभ्येति न संसारी भवतीत्यर्थः। किं तर्हि
स करोतीत्याह विश्रानर्थानिति आविर्भूतनि-
रतिशयसर्वार्थज्ञत्वकर्तृत्वतः शिवसमानमहि-
मत्वात् स्वतेजसा समधिष्ठितसर्वार्थोऽपि सन्
मुक्तात्मा न किंचित्करोति करणीयाभावात् ।
एवं चेन्मुक्तेः पूर्वमकिंचित्करोऽभूत्, मुक्तश्च
तद्रूप एवेति कोऽस्य मुक्तौ विशेषः । अयं
विशेषः—यत् सर्वेशानेन परमेश्वरेणानीशितः
अप्रेरितस्तदानीमसौ भवति । किं किंचिदेव
कालमप्रेर्यः। नेत्याह सर्वदेति सर्वकालं तं प्रत्य-
प्रेरकः शिवभट्टारको भवतीत्यर्थः ॥
इति श्रीभट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ द्वितीयं प्रकरणम् ॥ २ ॥
अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( तृतीयः पटलः )
तदेवं दर्शनान्तरापरिविष्टमत्युत्कृष्टं भुक्ति-
मुक्त्याख्यं फलं, तत्साधनोपायश्चास्मिन् शास्त्रे
प्रतिपाद्यत इत्युक्तम् । इदानीं 'सर्वेशानानी-
शितः' इति प्राक्तनप्रकरणोपसंहारे सर्वेशान-
शब्देन सूचितं समर्थयन्नीश्वराख्यं पदार्थमुप-
पादयितुमाह । अत्र च प्रकरणान्तरोपक्रमे
पञ्चप्रकारः संबन्धो वाच्यः । तथाचोक्तं श्री-
मत्पौष्करे
'अनन्तरं यत्पटलात्सूत्रं तन्त्रे प्रवर्तते ।
वक्तव्यस्तस्य संबन्धः पञ्चधा समवस्थितः ॥
तन्त्रवस्तुत्रयात्सूत्राद्वाक्यात्प्रकरणात्तथा ।
पटलाच्च.................................॥'
इति । तन्त्रवस्तुनः पतिपशुपाशात्मकस्य पदा-
र्थत्रयस्य 'त्रिपदार्थं चतुष्पादम्' इत्यनेनोपक्र-
मात् सांप्रतं पतिपरीक्षालक्षणः संबन्धः ।
१३