मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
३९] द्वारमानविधानम् २७१
तत्पार्श्वे चोत्तरादन्त(नुत्तरान्ते) द्विपयुग्मं तु कारयेत् ।
दक्षिणे तु गणेशं स्याद्वामभागे सरस्वतीम् ॥ ४० ॥ 80
छत्रचामरसंयुक्तं तोरणादिविभूषितम् ।
तस्याधो(धः) पूर्णकुम्भाद्यैः दर्पणाद्यैर्विभूषितम् ॥ ४१ ॥
कुर्यादेवं तु रक्षार्थं सम्पदामास्पदं सदा ।
अथवा द्वारयोगस्य विशालं वक्ष्यतेऽधुना ॥ ४२ ॥ 84
त्रिचतुष्पञ्चषण्मात्रं तस्मात्तु ह्यङ्गुलाधिकम् ।
पञ्चविंशाङ्गुलान्तञ्च(न्तं च) चतुर्विंशाङ्गुलान्तकम् ॥ ४३ ॥
एकविंशाङ्गुलान्तं स्याद् द्वाविंशाङ्गुल(ला)न्तकम् ।
त्रयोविंशाङ्गुलान्तं स्याद् द्वारयोगस्य विस्तृतम् ॥ ४४ ॥ 88
अथवा हस्तमारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
तन्त्रिहस्तावसानं स्यात्कन्यसाद्युत्तमान्तकम् ॥ ४५ ॥
दारुके तु शिला(ले) वापि कुर्याद् द्वारं विचक्षणः ।
क्षुद्रविस्तार(रं) सर्वेषां द्वारयोगविशालकम् ॥ ४६ ॥ 92
द्वारमानं तु सर्वेषां वर्णानां हर्म्यके न्यसेत् ।
देवानां हर्म्यके कुर्यात्तत्र दोषो न विद्यते ॥ ४७ ॥
द्वारभूषणसार्थं स्याद् द्वारमानेन कल्पयेत् ।
तद्विशालायततुल्यं कवाटायामविस्तृतम् ॥ ४८ ॥ 96
एकद्वित्रिचतुष्पञ्च कवाटस्य घनं भवेत् ।
एकं वा द्विकवाटं वा युक्त्वा तत्रैव योजयेत् ॥ ४९ ॥
युग्मदारु न योग्यं स्यादयुग्मं चैव योजयेत् ।
युगलं तत्कवाटं स्याद् दारुयुग्मं प्रयोजयेत् ॥ ५० ॥ 100
दक्षिणस्य कवाटं तु विशालाधिकमायतम् ।
एकद्वित्र्यङ्गुलं वामकवाटं स्याद् द्विहस्त(विहीन)कम् ॥ ५१ ॥
तत्समं शिखं तारं तदर्धं तस्य तुङ्गकम् ।
वृत्ताकारं(रा) शिखा सर्वा मूलोद्भवऋचा(कुचं) भवेत् ॥ ५२ ॥ 104
मध्ये तु चेपशं वामे(ष) शुद्धद्वारावसानकम् ।
त्रिचतुष्पञ्चषण्मा ॰ मध्ये चेपषविस्तृतम् ॥ ५३ ॥
An exact, line-by-line transcription of the text from the image:
२१०२ मानमारे [अध्यायः
युग्मवेदकुमाराष्टपङ्क्त्यंशं द्वादशांशकम् ।
कुर्यात्कवाटदीर्घं(दैर्घ्यं) चेषत् विस्तृतो(स्तारोऽ)धिकम् ॥ ५४ ॥ 108
त्रिचतुष्पञ्चा(ञ्चषड्)ङ्गुलं वा[पि] तस्य विस्तार(रं) मानयेत् ।
शुद्धद्वारसमायामे विस्तारे परिकल्पयेत् ॥ ५५ ॥
आयदण्ड(ण्डं) त्रिधापञ्चसप्तधाकृतमेव च ।
दीर्घं ह्रस्वं च सर्वेषामिदं युक्त्या प्रयोजयेत् ॥ ५६ ॥ 112
सन्धिमध्ये तु वेदाश्रं पट्टिकानां तु पादयुक् ।
पद्मपत्रादि सर्वेषां युक्त्या च समलङ्कृतम् ॥ ५७ ॥
प्राकारे च महाद्वारं क्षुद्रद्वारं कवाटके ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ५८ ॥ 116
पञ्चविंशाङ्गुलायामं
An exact line-by-line transcription of the Sanskrit text from the provided page of the Mānasāra (Chapter 39: Dvāramānavidhānam):
३२] द्वारमानविधानम् २७३
देवानां मूलहर्म्ये तु कवाटाधिक्यवामके ।
सर्वेषामालये चान्तं यथेष्टं स्थापयेत्सुधीः ॥ ६८ ॥ 136
उक्तवत्स्थापयेद् द्वारं स्थपतिः स्थापकैः सह ।
देवानां हर्म्यके सर्वं मध्यद्वारं तु जालकम् ॥ ६६ ॥
द्विजातीनां च वर्णानां गृहे वातायनं बुधः ।
मध्यस्तम्भं यथायुक्त्याकारं यत्तु यथेष्टकम् ॥ ७० ॥ 140
देवानां भूसुरादीनां वर्णानां च गृहे गृहे ।
द्वारपट्टिकाया मानं लक्षणं वक्ष्यतेऽधुना ॥ ७१ ॥
द्वारस्य पुरतो देशे द्वारमध्ये सभद्रकम् ।
एकभाग(गं) द्विभागं वा निर्गमं पट्टिका भवेत् ॥ ७२ ॥ 144
एकत्रिषञ्चभागेन पट्टिकाविस्तृतं भवेत् ।
विस्तारं(र) द्विगुणं वापि पादोने द्विगुणं तु वा ॥ ७३ ॥
विस्तारार्धाधिकं वापि तद्द्वारं(र)पट्टिकोदयम् ।
तुङ्गे चाष्टांशकं कृत्वा चैकभागं मसूरकम् ॥ ७४ ॥ 148
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
तत्समं ग्रीवतुङ्गं स्यात् शि(च्छि)रतु(स्तु)ङ्गं द्वयांशकम् ॥ ७५ ॥
तदर्धं स्तूपितुङ्गं स्यात् शा(च्छा)लाकारं शिरो भवेत् ।
अथवा नासिकाकारं कुर्यादु भित्ति(स्या) सहैव च ॥ ७६ ॥ 152
षड्वर्गमिति प्रोक्तं च चतुर्वर्गमिहोच्यते ।
तुङ्गे षडंशके(कं) कृत्वा ए(चै)का [ह्यै] कोकवेदिका ॥ ७७ ॥
पादं शिरः शिखा प्रोक्तं शेषं प्रागुक्तवन्नयेत् ।
सर्वालङ्कारसंयुक्तमेवमुक्तं पुरातनैः ॥ ७८ ॥ 156
अज्ञानाद् विपरीतं चेत्सर्वसम्पद्विनाशनम् ॥ ७६ ॥
एवं द्वारं तैत(ति)ष्ठानां द्विजानाम्
भूपानां चैव वैश्यकानां परेषाम् ।
मानं यत्तच्चोक्तवद्धर्म्यदेशे 160
कुर्यात्सर्वसम्पदास्पदं स्यात् ॥ ८० ॥
इति मानमारे वास्तुशास्त्रे द्वारमानविधानं नाम एकोनचत्वारिंशोऽध्यायः ॥
34
राजहर्म्यविधानम्
भूपतीनां च हर्म्याणां लक्षणं वक्ष्यतेऽधुना ।
एकाशीतिक्रमाधिक्यं शतदण्डं समारभेत् ॥ १ ॥
सैकद्विशतदण्डान्तं द्विद्विदण्डविवर्धनात् ।
सर्वभूपस्य हर्म्ये तु कन्यसादि त्रयं त्रयम् ॥ २ ॥
तद्विस्तारमिति प्रोक्तमायाममिति वक्ष्यते ।
विस्तारात्पादमाधिक्यमर्धाधिक्यमथापिवा ॥ ३ ॥
त्रिपादाधिक्यमेवं वा तत्समाधिक्यमेव वा ।
पञ्चाधिकचतुःषष्टिशतदण्डं समारभेत् ॥ ४ ॥
एकाशीतिशतान्तं स्याद् द्विद्विदण्डेन वर्धनात् ।
एवं तु चोत्तममान्तं स्यात्कन्यसादि त्रयं त्रयम् ॥ ५ ॥
महाराजस्य हर्म्ये तु विशालं परिकीर्तितम् ।
विस्तारादायते(यामं) सर्वे यथा प्रागुक्तवन्नयेत् ॥ ६ ॥
त्रयाधिक्यं च पञ्चाशं(ञ्चाशत्) शतदण्डं समारभेत् ।
नन्दषष्टा(ष्ट्य) धिकं दण्डं शतदण्डावसानकम् ॥ ७ ॥
कन्यसा नवधा प्रोक्तं द्विद्विदण्डेन वर्धनात् ।
नरेन्द्रस्या(न्द्रा)ल्लये सर्वे(र्वै) विस्तारं परिकीर्तितम् ॥ ८ ॥
नवत्रिंशाधिकं दण्डं शतदण्डं समारभेत् ।
पञ्चाशच्छतपर्यन्तं कन्यसादि त्रयं त्रयम् ॥ ९ ॥
पार्श्विकस्य तु हर्म्यस्य विस्तारं परिकीर्तितम् ।
पूर्ववद्वायते सर्वे(र्वं) विस्तारं वर्धयेत्क्रमात् ॥ १० ॥
त्रयोविंशच्छतमारभ्य द्विद्विदण्डेन वर्धनात् ।
नवत्रिंशच्छतान्तं स्यात्पूर्ववन्नवभेदकम् ॥ ११ ॥
हर्म्य(म्ये॑) पट्टधरोत्सेधे(रस्य च) विस्तारायाम(मं) पूर्ववत् ।
सप्तसप्ततदण्डादौ द्विद्विदण्डेन वर्धनात् ॥ १२ ॥
त्रयोविंशच्छतान्तं स्यात्कन्यसादि त्रयं त्रयम् ।
मण्डलेशालयतारं दीर्घं(दैर्घ्यं) प्रागुक्तवन्नयेत् ॥ १३ ॥
एकाधिक्यं तु नवतिदण्डं चैव समारभेत् ।
हस्ता(सप्ता)धिकशतान्तं च विस्तारं नवधा भवेत् ॥ १४ ॥
एवं तु पट्टभाक्(र्)हर्म्ये चायामं पूर्ववद् भवेत् ।
सत्रिर्नं(न)वाष्टदण्डाद्यै द्विद्विदण्डेन वर्धनात् ॥ १५ ॥
एकाधिकनवत्यन्त(न्तं) नवधा चोक्तमानकम् ।
प्राहारकस्य हर्म्ये तु कन्यसादि विशालकम् ॥ १६ ॥
आयामं पूर्ववत्कुर्याद्वर्धयेद् द्विगुणान्तकम् ।
नवाधिकं तु पञ्चाशद् दण्डं चैव समारभेत् ॥ १७ ॥
सपञ्चसप्ततिश्रान्तं द्विद्विदण्डेन वर्धनात् ।
एवं तु नवधा प्रोक्तं कन्यसादि त्रयं त्रयम् ॥ १८ ॥
अस्त्रग्राहस्य हर्म्ये तु चैवायामं तु पूर्ववत् ।
एकादि सप्तसालान्तं चक्रवर्तिनो हर्म्यके ॥ १९ ॥
षट्प्राकारं तु संकल्प्य चाधिराजस्य हर्म्यके ।
एकादिपञ्चसालान्तं नरेन्द्रस्यापि हर्म्यके ॥ २० ॥
चतुःशा(सा)लावसानान्तं पार्श्विकस्य तु हर्म्यके ।
एकादिकं त्रिसालान्तं पट्टधरादिमिखिभिः (दित्रयायाम्) ॥ २१ ॥
प्राहारकास्त्रग्राहाभ्यां(हयोः) कुड्यमेकं द्वयान्तकम् ।
अधः(न्तः)सालं तथैकांशं द्वितीयं च त्रयांशकम् ॥ २२ ॥
तृतीयं सप्तभागं स्यात्सैकार्कांशं त्व(तु)रीयकम् ।
पञ्चमं चैकविंशांशमेकत्रिंशांशं षष्ठकम् ॥ २३ ॥
सप्तमं च त्रयाधिक्यं चत्वारिंशाशमेव वा ।
कुर्यादेवं तु विस्तारे तत्तदायामं पूर्ववत् ॥ २४ ॥
पूर्वोक्तदण्डमानं चेच्चान्तःसाले प्रकल्पयेत् ।
तस्मात्तु चोक्तवद् वृद्ध्यां सप्तसालावसानकम् ॥ २५ ॥
२७६ मान्सारे [अध्यायः
तन्माने तु सालानां विनाभित्ति(त्तिं) सभित्तिकम् । 52
अन्तर्भित्तिस्तु चैवं स्याद्विर्भित्तिस्तु सर्वदा ॥ २६ ॥
कुर्यात्पश्चात्तु भित्तिश्चेत्(त्तिं च) मानं वक्ष्ये यथाक्रमम् ।
उक्तप्रमाणबाह्ये तु कुड्यं कुर्यात्समन्ततः ॥ २७ ॥
एकदण्डं समारभ्य सा(चा)र्धदण्डेन वर्धनात् । 56
एकशालादि सप्तान्तं चतुर्दण्डावसानकम् ॥ २८ ॥
भित्तिविस्तारमित्युक्तं केचिद्धस्तविवर्धनात् ।
सार्धद्विदण्डपर्यन्तं सप्तमान्तं विशालकम् ॥ २९ ॥
विस्तारं तु(रस्य) समुत्सेधं तत्पादाधिकमेव वा । 60
अर्धाधिकमथोत्सेधं पादोनद्विगुणं तु वा ॥ ३० ॥
विस्तारं(र)द्विगुणं वापि बाह्ये वप्रं तथोन्नतम् ।
मूलतारे तु सप्तप्ताष्टांशैकैक[वि]हीनकम् ॥ ३१ ॥
भित्तिगृहस्य विशालं स्यान्मूलाग्रान्तं क्षयं(य)क्रमात् ।
प्राकारशीर्षसर्व [च] हस्तेनदन्तरोन्नतम(नान्तरान्ततः) ॥ ३२ ॥ 64
वृत्तं वा चतुरश्रं वा वक्राकारं तथैव च ।
षण्मात्रं चाष्टमात्रं च द्वादशाङ्गुलमेव च ॥ ३३ ॥
कुर्याद्दन्तान्तरं शेषं शेषं युक्त्या प्रयोजयेत् ।
शिलाचे(ष्टे)ष्टकयोर्वापि [च] मृण्मयैर्भित्तिकल्पनम् ॥ ३४ ॥ 68
एकं वोदकभित्तिं वा कुड्यान्तं मण्डपाकारकम् ।
एवं कल्पं तु कामार्थमनुचरादिवासकम् ॥ ३५ ॥
एवं(योग्यं) तु गृहमानं स्याद् विस्ता ' चाथ वक्ष्यते ।
साज्ञानामपि सर्वेषां परमशाथि(यि)कपदं न्यसेत् ॥ ३६ ॥ 72
मध्ये ब्रह्मपदं त्यक्ता परितस्तु नृपादिभिः(दीनाम्) ।
कुर्यात्सर्वत्र सर्वेषामभीष्टादिजनालयम् ॥ ३७ ॥
इन्द्रे च वारुणे वापि सार्वभौमस्य हर्म्यकम् ।
अथवार्यपदे चैव चतुर्दिक्षु विदिक्ष्वपि ॥ ३८ ॥ 76
यमे विवस्वते(ति) चापि चाधिराजस्य हर्म्यकम् ।
भूधरे च कुबेरे च नरेन्द्रस्यालयं भवेत् ॥ ३९ ॥
४०] राजहर्म्यविधानम् २७७
इन्द्रे इ(चे)न्द्रजयस्यांशे पार्श्विकस्य गृहं भवेत् ।
अथवा पुष्पदन्तस्य पदे वासं प्रकल्पयेत् ॥ ४० ॥ 80
रुद्रे रुद्रजये वापि चासुरस्य पदेऽथवा ।
पट्टभृगालयं कुर्याच्छोषकस्य पदेऽपि वा ॥ ४१ ॥
गृहक्षते च सवित्रे सावित्रस्य पदेऽपि वा ।
मण्डलेशस्य हर्म्यं स्यात्पट्टभाक्(जश्)चालयं तु वा ॥ ४२ ॥ 84
आपवत् सा(अपवत्सस्या)पवत्स(त्स)स्य मृगे वा मुख्यकेऽपि वा ।
प्राहारकाख्यमाह्वयोध्यालयं परिकल्पयेत् ॥ ४३ ॥
सर्वेषामपि भूपानां खनिया॑नि(स्थानीयादि)चतुष्टये ।
गृहमेवं तु शा(सा)लायां चोक्तमेवं पुरातनैः ॥ ४४ ॥ 88
सर्वेषां मूलहर्म्याणां पूर्वद्वारं प्रकल्पयेत् ।
तत्तन्मूलस्य हर्म्यस्य दक्षिणे चोत्तरेऽपि वा ॥ ४५ ॥
नैर्ऋत्ये वायवे चापि तत्तन्महिषि(षी)कागृहम् ।
मूलहर्म्यस्य याम्ये तु सा(चा)भिषेकादिमण्डपम् ॥ ४६ ॥ 92
सुग्रीवे पुष्पदन्ते वा चायुधस्यालयं भवेत् ।
असुरे शोषके वापि वस्तुनिक्षेपमण्डपम् ॥ ४७ ॥
वरुणे नैर्ऋते वापि सुहूर्वरुधनालयम् ।
सोमे च मुख्यके वापि रत्नहेमादिकालयम् ॥ ४८ ॥ 96
गन्धर्वे भृङ्गराजे वा भूषहालयमेव च ।
दक्षिणे नैर्ऋते वापि भोजनार्थं तु मण्डपम् ॥ ४६ ॥
तस्येशानपदे वापि पचनालयमेव च ।
अनिले चाग्निके वापि पुष्करिण्या(शीश्) च कल्पयेत् ॥ ५० ॥ 100
महिष्यावाससौम्ये कञ्चुकीरा(किनश्)श्रा(चा)लयं भवेत् ।
वायव्येन धनाङ्गांशे पुष्पमण्डपं योजयेत् ॥ ५१ ॥
अदिते(तौ) चोदिते वापि मञ्ज(ज्न)नालयमेव च ।
तत्तद्वाह्यप्रदेशे तु कायशुद्ध्यर्थमण्डपम् ॥ ५२ ॥ 104
वायव्ये नैर्ऋते वापि सूतिकामण्डपं भवेत् ।
पूषे(ष्णि) वा वितथे चैव दासदास्यालयं भवेत् ॥ ५३ ॥
२७८ | मानमारे | [अध्यायः
गृहक्षतपदे चैव शयनालयमेव च ।
मुख्ये वा अ(चैवा)थ भल्लाटे विलासिनीनां चालयम् ॥ ५४ ॥ 108
दौवारिकपदे चैव राजकन्यक(र्णिका)रालयम् ।
द्वारस्य वामपार्श्वे तु गजाश्वादिकालयम् ॥ ५५ ॥
द्वारस्य दक्षिणे पार्श्वे रक्षकावासमेव च ।
सत्यके चान्तरिक्षे च चौर(रि)कालयमेव च ॥ ५६ ॥ 112
भृशे यानालयं कुर्याच्छ्रे' प्रागुक्तवद् भवेत् ।
अन्तःसालमिति प्रोक्तं बाह्यशा(सा)लमिहोच्यते ॥ ५७ ॥
वरुणे युवराजस्य चालयं तत्प्रकल्पयेत् ।
तत्पूर्वे चोत्तरे वापि तस्यैवानुचरालयम् ॥ ५८ ॥ 116
याम्ये च सोमदिग्(शि) वापि वायव्ये वाथ नैऋते ।
आस्थानमण्डपं कुर्यात्पुष्करिण्यां(ण्याश्)च वायवे ॥ ५९ ॥
नागस्य वामके याम्ये कुर्यादारामदेशकम् ।
पुष्पोद्यानं ततः कुर्यान्मुख्य(ख्ये) भल्लाटकेऽपि च ॥ ६० ॥ 120
नृत्तागारं ततः कुर्यान्नानानृत्ताङ्गनानि च ।
आत्मार्थं यजमानार्थं देवताहर्म्यमीशके ॥ ६१ ॥
द्वितीये हर्म्ये(र्म्य)याम्ये तु पुरोहितालयमेव च ।
रोगे वा मुख्यके वापि स्वामिकारा(ख्यायका)लयमेव च ॥ ६२ ॥ 124
द्वितीयः(य)सालवाह्ये तु द्वारं तस्य तु दक्षिणे ।
महाशस्त्रालयं कुर्याद् भैरवं तु बहिर्बहिः ॥ ६३ ॥
ईशे तु धेनुशालाञ्च द्वारं कुर्यान्महेन्द्रके ।
पार्श्वके मेषशालाञ्च सत्यके वानरालयम् ॥ ६४ ॥ 128
सोमादीशानपर्यन्तं वाजिशालां प्रकल्पयेत् ।
याम्यादिपावकान्तं स्याद् गजशालां प्रकल्पयेत् ॥ ६५ ॥
तस्मात्तु नैर्ऋतान्तं कुत(क्कु)क्कुटालयमेव च ।
वायुकोणादिमुख्यान्तं मृगाणां(ग)हरिणा[नामा]लयम् ॥ ६६ ॥ 132
सुग्रीवे पुष्पदन्ते च कल्पयेन्मल्ल(नृपत्ति)मण्डपम् ।
उत्तरे बाह्यके वापि चोत्तरे वायवे तथा ॥ ६७ ॥
४०] राजहर्म्यविधानम् २७६
तद्देशे चोर्ध्ववेदिः स्याद्विपदार्धाङ्ग(ङ्क)णान्वितम् ।
परितः शूलकम्पं स्याद् द्वारं तद्दक्षिणोत्तरे ॥ ६८ ॥ 136
तत्तत्पश्चिमदेशे तु युद्धालोकनमण्डपम् ।
झरुद्धावलोकनार्थं [स्यात्] कुर्याद्युक्त्या च मण्डपम् ॥ ६६ ॥
वरुणे पुष्पदन्ते वा मेषयुद्धार्थमण्डपम् ।
मृगे च भृङ्गराजे वा कुक्कुटायुद्धमण्डपम् ॥ ७० ॥ 140
मण्डपाङ्गणमध्ये तु परितो मेखलैर्यु(तायु)तम् ।
एकद्वित्रिचतुष्पञ्चहस्तमूलाग्रविस्तृतम् ॥ ७१ ॥
सार्धद्विहस्तनिम्नं स्यात्साधार्धपरिधान्वितम् ।
द्वौ(दौ)वारिकपदे चैव मयूरालयमेव च ॥ ७२ ॥ 144
द्वारस्य दक्षिणे बाह्ये व्याघ्रकालयमेव च ।
तद्बाह्ये तत्र देवादीन्(नां) किरातालयमेव च ॥ ७३ ॥
तृतीये वितथे हर्म्यांशे रहस्यावासमण्डपम् ।
चतुर्थे यमदिग्भागे सन्धिविग्रहमण्डपम् ॥ ७४ ॥ 148
षट्सप्तावरगो वापि दक्षिणे पश्चिमेऽपि च (वा) ।
उत्तरे पूर्वके वापि गजम(जा)श्वादिवाहनम्(नानि) ॥ ७५ ॥
आरुह्यालोकनार्थं च मण्डपं परिकल्पयेत् ।
ईशे वा वितथे चैव रङ्गमण्डपमेव च ॥ ७६ ॥ 152
भृशे वा सा(चा)न्तरीक्षे वा कारागृहमेव च (तथा) ।
प्राकारस्य चतुर्दिक्षु द्वारगोपुरकान्वितम् ॥ ७७ ॥
शेषं प्रागुक्तवत्कुर्यान्नृपवित्तवशात्तु यत् ।
अनुक्तं मण्डपं युक्त्या कुर्यादाषोडशान्वितम् ॥ ७८ ॥ 156
ब्रह्मांशे ब्रह्मपीठं स्यात्कुर्यादावृतमण्डपम् ॥ ७९ ॥
हस्तेन भूतमुनिरन्ध्रेण करेण कृत्या
विस्तारभित्ति चतुरश्रं त्रियै(धै)कवे(के)न ।
ग्रामस्य मध्यमथ भूपतिमध्यहर्म्ये 160
नित्यं त्रिकाल(म् ) इव पूजित(तं) ब्रह्मपीठम् ॥ ८० ॥
इति मानमारे वास्तुशास्त्रे राजहर्म्यविधानं नाम चत्वारिंशोऽध्यायः ॥
राजाङ्गविधानम्
भूपतीनां च सर्वेषां सर्वाङ्गं वक्ष्यतेऽधुना ।
अधीत्याम्नायचतुरं तत्वज्ञङ्गं पदक्रमात् ॥ १॥
शास्त्रास्त्रमन्त्रसर्वादीन्सर्वशास्त्राब्धिपारगः ।
षड्दर्शनं समं चैव दीक्षया च प्रवर्तकः ॥ २॥
धीरोद्धतो धीरललितो धीरोदात्तस्तथैव च ।
रम्या(अर्धा)नुपान्य(श्चं) राज्यात्(ज्यं तु) स्वयं ज्ञात्वा स्वयन्त्रितः ॥ ३ ॥
शूरः प्राज्ञश्च कोशार्थ (क्थो) धर्मज्ञो नीतिपारगः ।
समस्तभूसूतां चैते गुणाः प्रोक्ता विशेषतः ॥ ४॥
एतानि गुणरत्नानि राज्ञो यस्य च (ज्ञां सर्वेषां) सन्ति वै ।
शतपञ्चतुरङ्गानि(णि) पञ्चकुञ्जरमेव च ॥ ५॥
लक्षार्धतन्त्राधिपतिः शतपञ्चवराङ्गनाः ।
एका स्यात्पट्टमहिषी अ(सोऽ)स्रग्राहो(ष्ठः) प्रकीर्तिता(तः) ॥ ६ ॥
षट्शतं (त) मरीशकोट्यानि निपद्(द्)न्तावबलमेव च ।
लक्षतन्त्राधिपतिश्च सप्ता (प्त) शतवराङ्गनाः ॥ ७॥
स्यातां महिष्यो (ध्यौ) द्वितीय(द्वे चैव) प्राहारक इति स्मृतम् ।
शवाष्टहयरत्नानि सप्तद्विरदमेव च ॥ ८॥
सार्धलक्षतन्त्रं स्यात्रि (तु) सहस्रं (स्र) वराङ्गनाः ।
महिषीत्रयमेवं च पट्टभाक् इति (चेत्येव) स्मृतम् ॥ ९॥
सहस्राश्वं दशसु(ग)जं पञ्चाशतसहस्रकम् ।
वराङ्गनाभिरासेव्यो महिष्यश्च चतुष्टयम् ॥ १० ॥
लक्षद्वयं च तन्त्रं स्यान्मण्डलेशस्य भूपतेः ।
पञ्चा(च्च) शतसहस्राश्वाः द्वादशं कुञ्जरं तथा ॥ ११ ॥
लक्षद्वयं च तन्त्रं स्याद् द्विसहस्रवराङ्गनाः ।
महिष्यः पञ्च पट्टाभाः पट्टभृक्(ग्) भूपतिर्विदुः ॥ १२ ॥
राजाङ्गविधानम् २८१
द्विशताञ्च(सहस्र)हयाः प्रोक्ताः पञ्चा(ञ्च)दशगजास्तथा ।
षाणु(चतु)र्लक्षं च तन्त्रं स्यात्त्रिस्सङ्ख्यवराङ्गनाः ॥ १३ ॥
षण्महिष्यस्तथा प्रोक्ताः पार्ष्णीकाख्यस्य भूपतेः ।
पार्ष्णीकः स्यात्पट्टधरो मण्डलेशश्च पट्टभाक् ॥ १४ ॥ 28
ऽभ्यो(षाम्) नवद्वि(द्री)पादाब्ज(मास्) तत्तत्तन्त्राधिपास्तथा ।
ऽयुतादिबहून्श्वशत(सहस्र)कुञ्जरमेव च ॥ १५ ॥
ऽन्त्रं च शतलक्षं स्यान्महिष्यश्च दशस्व(त)था ।
ऽक्षार्धं वा(व)रवनिता चै(श्रै)वमुक्तं नरेन्द्रके ॥ १६ ॥ 32
रेंद्रे च द्विपादाब्ज(द्वीपादाशा)श्चैककोटितुरङ्गवान् ।
प्रयुतं द्विरदं प्रोक्तं दशकोटिश्च(च) तन्त्रकम् ॥ १७ ॥
शलक्षं मरण्यं(ण्याशं) च महिष्य(प्या)श्च सहस्रकम् ।
प्रधिराजाख्यनृपतेश्चोक्ततन्त्रं पुरातनैः(न्त्राधिपास्तथा) ॥ १८ ॥ 36
मधः(धो) वा.पट्टमहिषे(ष्याम्) चेन्द्रस्य सदृशः प्रभुः ।
तमभूमिपपालेभ्यो नमस्कृत्य पदाम्बुजम् ॥ १९ ॥
न्तावल्लतुरङ्गाश्च तन्द्रा(न्त्रा)दि च वराङ्गनाः ।
अर्बुदं न्यर्बुदं चैव महाशङ्कं(ङ्खं) च पद्मकम् ॥ २० ॥ 40
धिकान्तं परार्धाख्यं च सर्वे तन्त्राः(न्त्राधिपा) प्रकीर्तिताः ।
सप्तद्वि(प्राब्धि)मेखलाभूमि(मेशं) चैकच्छत्रेण पालकम् ॥ २१ ॥
स्मात्तु सार्वभूमाय(भौमाय) चक्रवर्तिरि(र्ती)ति स्मृतम् ॥ २२ ॥
गाम्नायश्चतुरोऽधीत्य विधिवत्षड्दर्शनानां समम् 44
स(सा)मशास्त्रादिसर्वशास्त्रकुशलः स्थिरो धर्मवान् ।
वीरोदात्तगुणो महावितरणैश्वर्यधनाढ्यः प्रभुः
नीतिज्ञो जनरञ्जको जनपदार्थानुपात्र्यार्धवान् ॥ २३ ॥
र्वज्ञो नर(द्विज)पालको शक्र(गुरु)पदाम्भोजद्विरेफः सुरैः(सुखी) 48
शान्तो कीर्तिपरायणश्च रसिको गन्धर्वशास्त्राधिपः ।
ते सर्वगुणाः समस्तनृपतेः साम्यादि चोक्तं बुधैः
एषां चोक्तगुणानि(णाः) नृपतेः सञ्चक्रभूभृताम् ॥ २४ ॥
इति मानसार वास्तुशास्त्रे राजाङ्गविधानं नाम एकचत्वारिंशोऽध्यायः ॥
35
राजलक्षणम्
अथ वक्ष्ये विशेषेण भूपानां लक्षणं परम् ।
चक्रवर्ती महाराजो नरेन्द्रः पार्ष्णीकस्तथा ॥ १ ॥
अथ पट्टधरश्चापि मण्डलेशस्तथैव च ।
अथैव पट्टभाक् चैव ततः प्राहारकस्तथा ॥ २ ॥
अस्त्रग्राहस्ततश्चैते नव भूपा यथाक्रमात्(सम्) ।
चतुःसागरपर्यन्तां महीं स्वीकृत्य बलवान् ॥ ३ ॥
जित्वा द्वारस्य पुरतो बन्ध(घंटा)माबध्य संस्थितः ।
न्यायान्यायविचारार्थं किञ्चिन्मध्यप्रतापवान् ॥ ४ ॥
कीर्तिमान् श्रीमतां श्रेष्ठः कृपया लोकरक्षकः ।
सर्वावनीन्द्रवन्द्योऽसौ चक्रवर्तीति कीर्तितः ॥ ५ ॥
शक्तित्रयेदक्षिणीं(त्रयेण) स्वीकृत्य सप्तराज्यस्य चेश्वरः ।
षड्गुणैः षड्बलैर्युक्तो नीतिज्ञः सूर्यवंशवान् ॥ ६ ॥
चन्द्रवंशोदितो वाथ चाधिराज इति स्मृतः ।
शक्तित्रयेण त्रितयराज्यं स्वीकृत्य दुर्बलान्(त्) ॥ ७ ॥
पार्ष्णीकः पट्टधरो मण्डलेशोऽपि पट्टभाक् ।
एतैर्वन्द्यपदद्वन्द्वो नीतिनेत्रः अ(आ)रिन्दमः ॥ ८ ॥
सुकृती चोत्सवरतो नरेन्द्रः परिकीर्तितः ।
एकराज्यस्याधिपतिश्चैकदुर्गमधिष्ठितः ॥ ९ ॥
षड्बलाधिपतिर्ज्ञानी कालज्ञोऽथ प्रयोगवान् ।
एवं परैश्च्वाभिहितो पार्ष्णीक इ(ओ)ति स्मृतः ॥ १० ॥
४२] राजलक्षणम् २८३
चतुष्टयगुणाधीशश्चार्धराज्यस्य चेश्वरः ।
एकदुर्गस्याधिपतिः स्वाम्यमात्यैरपीश्वरः ॥ ११ ॥
मण्डलाधिपतिः(ति) पट्टभाक्भौमेऽ(गन्यैर)पि वर्जितम्(तः) । 24
एवं गुणविशिष्टोऽसौ प्रोक्तः पट्टधराख्यया ॥ १२ ॥
अर्धमण्डलस्याधिपतिरेकमण्डलसंश्रितः ।
पट्टभागादिवन्योऽसौ मण्डलेश इति स्मृतः ॥ १३ ॥
मण्डलाधिपतिः(र्धाधिपः) श्रीमानेकदुर्गमधिष्ठितः ।
सज्जनानां धनाढ्यानामधिपः पट्टभाक् स्मृतः ॥ १४ ॥ 28
ब्राह्मणक्षत्रियवैश्यशूद्रैः(द्राणाम्) ए(वै)ककुलोद्भवः ।
एकदुर्गस्याधिपतिर्नानाजनपदाधिपः ॥ १५ ॥
सज्जनाधिपतिः सर्वरक्षादिन(नि)करेश्वरः ।
एतल्लक्षणयुक्तोऽसौ राजा प्राहारकः स्मृतः ॥ १६ ॥ 32
नानाजनपदाधीशो नगरीनायकः प्रभुः ।
एकदुर्गमधिष्ठा(स्था)प्य नानाजनपदैकराट् ॥ १७ ॥
आदाय दुर्बलानां तु सोऽस्त्रग्राही प्रकीर्तितः ।
चक्रवर्ती अ(चा)धिराजश्च नरेन्द्रश्चाविचारकः(कम्) ॥ १८ ॥ 36
पार्ष्णीकश्च शिरस्कं स्यात्पट्टधृक् पट्टबन्धनम् ।
मण्डलेशस्य पट्टं स्यात्पट्टभाक् पट्टबन्धनम् ॥ १६ ॥
प्राहारकश्चास्त्रग्राही चोभौ माल्याधरौ स्मृतौ ।
चक्रवर्ती महाराजो नरेन्द्रश्चैव मौलिनः ॥ २० ॥ 40
सिंहासनं सनिर्यूहं कल्पवृक्षसतोरणम् ।
पार्ष्णीकश्च पट्टधरः पट्टभाक् तृतीयस्य तु ॥ २१ ॥
विना कल्पतरोः(रुं) सर्वमुक्तं सिंहासनादिकम् ।
प्राहारकस्य नृपतेः सिंहासनमिति स्मृतम् ॥ २२ ॥ 44
अस्त्रग्राहस्य भूपस्य केवलं चासनं भवेत् ।
चक्रवर्त्यादि(देर्)निर्बाधं भूपालाद्यो(दे)र्विशेषतः ॥ २३ ॥
चामरे धवलच्छत्रं बहुमालाधर(रा) स्मृतम् ।
शासनानां तु सर्वेषां षट्पादं परिकीर्तितम् ॥ २४ ॥ 48
चक्रवर्ती विशेषेण नवमालाधरः सुखी ।
चामरैर्कं विनाच्छत्रं चतुष्पादसमन्वितम् ॥ २५ ॥
क्षुद्रस्य परिपालेभ्यो मध्यश्रेष्ठस्य योग्यकम् ।
बहुमाला च संप्रोक्तमन्यैः क्षुद्रैस्तु वर्धिते(वच्यते) ॥ २६ ॥ 52
वृत्ता(त्त्या) सज्जननिर्यूहं(हो) मुक्ता च(क्त्या) स्रग्विभूषणम् ।
क्षुद्र(मध्य)श्रेष्ठस्य नृपतेश्शोभे जनपदे स्मृतौ(ते) ॥ २७ ॥
अन्येभ्यो(भ्यः) क्षुद्रराजेभ्यस्त्वेकजानपदं परम् ।
एते तु क्षुद्रभूपाले(ला) भूपालानां तु सेवकाः ॥ २८ ॥ 56
चक्रवर्त्याख्यराजोऽसौ दुर्जनानां तु नाशकः ।
कृपालुः कृपया लोकं संरक्षति मुहुर्मुहुः ॥ २९ ॥
अथ [च] दशैकांशं करं स्वीकृत्य तिष्ठति ।
महाराजः षडंशो तु करं चैकं परिग्रहे(गृहीया)त् ॥ ३० ॥ 60
दुर्जनानां जनं ज्ञात्वा दिशि धर्मस्य पालकाः(कः) ।
नरेन्द्रस्य(श्च) तु पञ्चांशं करं स्वीकृत्य राज्यति ॥ ३१ ॥
अर्थिभ्योऽतिदरिद्रेभ्यो दाता धनवतां गृहीयात् ।
अथ पार्ष्णिकाख्यनृपतिः करमध्य(पादं) प्रतिगृही(ह्री)यात् ॥ ३२ ॥ 64
पट्टधरस्य समये चोक्तवत् त्रिः(त्र्यंशं) प्रतिगृही(हीया)त् ।
ददाति विदुषां भूयः स(श्रा)न्येभ्यः किञ्चिदेव हि ॥ ३३ ॥
पट्टभाक् राज्यं(ज्यस्य) तत्सर्वं करं स्वीकृत्य तिष्ठति ।
देवेभ्यो ब्राह्मणेभ्योऽपि नित्य(त्वं) मान्यं करोत्यसौ ॥ ३४ ॥ 68
प्र(प्रा)हारकस्य(श्च) देशस्य करं स्वीकृत्य तिष्ठति ।
नीतिशास्त्रोक्तवन्न्यायमन्यार्थं करोत्यपि ॥ ३५ ॥
धर्मज्ञश्चोपकारज्ञो वामभिः(शुभैश्च) कर्मभिः दृढः ।
अस्त्रग्राहः स्वराज्यस्य न्यायाजग्राह(द्गृह्णाति) तत्करम् ॥ ३६ ॥ 72
४२] राजलक्षणम् २८५
यथापराधदण्डं च हिंसां नाभिकरोति च ।
तापसान् ब्राह्मणान्देवान् सदा पूजां करोत्यपि ॥ ३७ ॥
एवं क्षुद्राश्च भूपालाः स्वे स्वे जनपदे करान् ।
स्वीकृत्य चक्रवर्त्यादिराजानां च करोत्यपि ॥ ३८ ॥ 76
इत्युक्तन्यायमार्गस्य भागं कुर्वन्ति ते नृपाः ।
अक्षत्रियास्तु ते सर्वे प्रोक्तं(क्ता) विद्वान् (द्वद्भिः) पुरातनैः ॥ ३६ ॥
इतिविरचितमेवं भूपतीनां चरित्रम्
श्रुतिसकलपुराणैः सर्वशास्त्राद्य(स्त्रैर्) मानम् । 80
परिपठ(ठ)ति यद्दे(य ए)तल्लक्षणं चार्थयुक्तम्
स तु निखिलविबुधेभ्यो वन्द्यपादारविन्दः ॥ ४० ॥
इति मानमारे वास्तुशास्त्रे राजलक्षणविधानं नाम द्विचत्वारिंशोऽध्यायः ॥
रथलक्षणम्
देवभूसुरभूपानामारोहार्थं तु(हृद्याय) योग्यकम् ।
रथमानं क्रमाद् वक्ष्ये लक्षणं विधिना सह ॥ १ ॥
चक्रं चैव रथाकारं रथमानं च भूषणम् । 4
त्रिवितस्तिं समारभ्य षट्षडङ्गुलवर्धनात् ॥ २ ॥
पञ्चहस्तावसानं स्यात्पञ्चा(ञ्च)दशविशालकम् ।
वितस्तिद्वयमारभ्य वितस्त्येके(स्त्यर्धे)न वर्धनात् ॥ ३ ॥
सार्धवेदकरान्तं स्यात्पूर्ववत्संख्यया चेति । 8
एवं तु चक्रविस्तारं देवभूसुरभूपतेः ॥ ४ ॥
अङ्गुलद्वयमारभ्य ए(वै)कैकाङ्गुलवर्धनात् ।
सप्ता(प्त)दशाङ्गुलान्तं स्याद् घनं पञ्चा(ञ्च)दशस्त(त)था ॥ ५ ॥
चक्रं वृत्ताकृतिं कुर्यात्पृष्ठाद्य पट्ट(ष्टं) योजितम् । 12
विस्तारं च त्रिधा कृत्वा मध्ये कुड्यंशकेन तु ॥ ६ ॥
तन्मध्ये तु त्रिमात्रादौ सप्ता(प्त)दशाङ्गुलान्तकम् ।
पञ्चा(ञ्च)दशं च विपुलं नाभिकुक्षस्य(चेर्) वेशनम् ॥ ७ ॥
छिद्रं वृत्ताकृतिं ह्येव वृत्ताश्रं वाथ कुक्षिकम् । 16
त्रिमात्रं पूर्ववद्वृद्ध्या सप्ता(प्त)दशाङ्गुलान्तकम् ॥ ८ ॥
पञ्चा(ञ्च)दशविधि(धिः) प्रोक्तमे(मुच्चै)वं कुक्षिविनिर्गतम् ।
अन्तर्बहिश्च कुक्षिः स्यात्सर्वालङ्कारसंयुतम् ॥ ९ ॥
वितस्तित्रयमारभ्य षट्षडङ्गुलवर्धनात् । 20
पञ्चहस्तावसानं स्यात्सशिखाच्चायतं तथा ॥ १० ॥
शिखां विनायतं वापि चैकमेकादशायतम् ।
पञ्चाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ११ ॥
४३] रथलक्षणम् २८७
एकविंशाङ्गुळान्तं स्यान्नवधा चाक्षविस्तृतम् ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ १२ ॥ 24
त्रयोविंशाङ्गुळान्तं स्यान्नाचोत्सेधं तु पूर्ववत् ।
शिखाञ्च(च)क्रतारं(क्राकारं) तुल्यं तारं युक्त्यायतं तथा ॥ १३ ॥
शाळजम्बूकसारं च सरलं वकुळार्जुनम् ।
मधुकं तिन्त्रिणी चैव बर्व(र्बु)रद्रुममेव च ॥ १४ ॥ 28
व्याघ्री च क्षीरिणी चैव खादिरं क्रुकरं शमी ।
एवं चक्रादिदारूण्यां(भिः) युक्त्या बलवशान्यसेत् ॥ १५ ॥
दन्ततारे चतुष्पञ्चभागैकं शल्यविस्तृतम् ।
समं वाध्य(र्ध्य)र्धमेवं वा द्वयं तिर्यग्गतायतम् ॥ १६ ॥ 32
दन्तधा(ता)रस्रमाधिक्यं कीलायाममुदीरितम् ।
कुर्याद् दन्ताग्रके छिद्रं युक्त्या कीलं प्रयोजयेत् ॥ १७ ॥
अक्षोपरि तथाता(धा)रं मानं चाप्यथ वक्ष्यते ।
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ॥ १८ ॥ 36
पञ्चहस्तान्तविस्तारं भा' पञ्चा(चा)दशं भवेत् ।
विस्तारद्विगुणान्तं च तत्पादांशेन वर्धनात् ॥ १९ ॥
पुरं पृष्टायतं ह्येवं नवमानमुदीरितम् ।
त्रिचतुष्पञ्चषट्सप्ता(प्ता)ष्टनन्ददशाङ्गुलम् ॥ २० ॥ 40
एतत्तु भारयुक्तं स्यात्क्षुद्रे तु द्वयमेव च ।
मुखे पृष्ठे पट्टके स्यात्कुर्यादुक्तविशालवत् ॥ २१ ॥
सर्वेषां च रथाधारं दारुविस्तारमेव च ।
तत्पञ्चांशेनवृद्धिः स्याद् द्विगुणान्तं तथोदयम् ॥ २२ ॥ 44
रथाधारोदये देशे चोपधारं प्रयोजयेत् ।
भारायामे चतुष्पञ्चषट्सप्तांशविभाजिते ॥ २३ ॥
एकैकांशविहीनं स्यात् शे(फले)पांशेनायतं तथा ।
रथाधारसमुत्सेधं विस्तारस्याधिकं तथा ॥ २४ ॥ 48
पादमर्धं त्रिपादं च तत्समं चाधिकोदयम् ।
दारुतारसमं कुर्यात्सर्वालङ्कारसंयुतम् ॥ २५ ॥
पादेः...
Wait! Let's check the meter:
ha-ri-ka-ri-ma-ka-ra-rū-paiḥ:
ha (L) ri (L) ka (L) ri (L) ma (L) ka (L) ra (L) rū (G) paiḥ (G) -> 9 syllables?
Wait, pa-tra-ci-trā-di-sar-vaiḥ:
pa-tra (G) ci (L) trā (G) di (L) sar (G) vaiḥ (G) -> 6 syllables.
Total: 15 or 16?
In Acharya's edition, verse 30:
"हरिकरीमकररूपैः पत्रचित्रादिसर्वैः ।
परितोऽपि युगानां नाटकैर्भूतयक्षैः ॥" or similar!
Look at the text:
हरिकरीमकररूपैः पत्रचित्रादिसर्वैः -> wait, does 'रि' have short or long i?
The curve goes to the left, so it's short i: 'रि'!
So: हरिकरिमकररूपैः पत्रचित्रादिसर्वैः । (or हरिकरी...) - wait, look at the second syllable: 'रि' has short i. Fourth syllable: 'रि' has short i.
So it is हरिकरिमकररूपैः!
[L
४३] रथलक्षणम् २८६
चतुर्थे पञ्चधा प्रोक्तं पूर्ववद् वर्धयेत्क्रमात् ।
त्रिमात्राधिकहस्तादौ त्र्यस्त्रिं(नवत्रिं)शाङ्गुलान्तकम् ॥ ३९ ॥ 80
कुर्यात्पञ्चविधं प्रोक्तं पञ्चधामतलोन्नतम् ।
पादाधिक्यं तु हस्तादौ सत्रिपादकरान्तकम् ॥ ४० ॥
एवं तु षट्तलं प्रोक्तं पञ्चधा चोत्क्रयं भवेत् ।
पादोनात्रिवितस्त्यादौ त्रित्र्यङ्गुलविवर्धनात् ॥ ४१ ॥ 84
त्रिपादद्वि(त्रि)वितस्त्यन्तं सप्तान्ते पञ्चधोदयम् ।
त्रिवितस्ति(स्तिं) समारभ्य त्रित्रिमात्राविवर्धनात् ॥ ४२ ॥
द्विहस्ता(स्तान्तम)ष्टतलोपञ्च(चं) पञ्चधायमिति स्मृतम् ।
सपादत्रिवितस्त्यादौ त्रित्रिमात्राविवर्धनात् ॥ ४३ ॥ 88
[स]पादयुगवितस्त्यन्तं नवतले [तु] शिरो(खो)दयम् ।
'अधश्चैकवितस्त्यादि द्वित्र्यङ्गुलविवर्धनात् ॥ ४४ ॥
अष्टविंशाङ्गुलोत्सेधं चैकादिनवान्तकम् ।
वितस्त्येकं समारभ्य ए(चै)कैकाङ्गुलवर्धनात् ॥ ४५ ॥ 92
मूलादमावसानं स्याद् युक्त्या युग्मदशात्( ॅ) न्यसेत् ।
चतुर्विंशाङ्गुलान्तं च पञ्चविंशाङ्गुलान्तकम् ॥ ४६ ॥
प्रत्येकं तु तलानां तु ऊ(तू)र्ध्वभूमो(मेर)धिकोन्नतम् ।
तलानांमपि सर्वेषां कुट्टिमं तत्प्रकल्पयेत् ॥ ४७ ॥ 96
तदधिष्ठानमाने तु चोक्तमानेन पूर्वके ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ४८ ॥
उपपीठस्य मानं तत्त्यूङ्घ्राधिष्ठानमेव च ।
यथाधिष्ठानगण्ये तु कुर्यात्(ङ्) गण्या(कर्या)धिकोन्नतम् ॥ ४९ ॥ 100
सर्वेषां देवतारूपं कुर्यात्सर्वं विचक्षणः ।
रथाः सर्वे समाश्राः स्युर्भद्रयुक्तम्(क्ताः) अथापि वा ॥ ५० ॥
वितस्त्येकं समारभ्य त्रित्रिमात्राविवर्धनात् ।
त्रिवितस्त्यन्तं भद्राणां निर्गमं परिकल्पयेत् ॥ ५१ ॥ 104
रथाधारे त्रिभागैकं चतुर्भागत्रिभागिकम् ।
पञ्चभागं त्रिभागं वा विस्तारस्यार्धमेव वा ॥ ५२ ॥
36
२६० मानसारं [अध्यायः
चतुर्दिक्षु चतुर्भद्रं स्यात् त्रिङ्गैकहरिं तु वा ।
भद्रमध्ये तु भद्रं स्याच्चोक्तवत्कारयेत्सुधीः ॥ ५३ ॥ 108
युक्त्या च भद्रं सर्वेषां नासिकायुक्तमेव वा ।
पक्षे च कुड्मलं युक्तं वक्राणां(नि) तु सुयोजयेत् ॥ ५४ ॥
पूर्वोक्तरथनामानि चाधुना [तु] प्रवक्ष्यते ।
नभस्वान्भद्रकं चैव भद्रं स्यात्प्रभञ्जनम् ॥ ५५ ॥ 112
निवाताख्यं भद्रकं चैव पवनाख्यं च भद्रकम् ।
पृषद(तं) चेन्द्रकं चैवमनिलाख्यं च भद्रकम् ॥ ५६ ॥
एतानि रथनामानि चाश्रयुक्तं रथे विदुः ।
नभस्वान्भद्रं वेदाश्रं प्रभञ्जनं षडश्रकम् ॥ ५७ ॥ 116
वाताख्यं द्विभद्रं स्यात्पवनाख्यं त्रिभद्रकम् ।
पृषतं चेन्द्रकाख्यं स्याद् दशाश्रं भद्रसंयुतम् ॥ ५८ ॥
द्वादशं(श)भद्रसंयुक्तमनिलाख्यमुदीरितम् ।
केचित्तु युक्तमेवं वा पष्टाश्रं रथमेव वा ॥ ५९ ॥ 120
वृत्तं वा चायतं वृत्तं वा पट्टाश्रे चायतं तु वा ।
अष्टाश्रं वा षडश्रं वा द्वयश्रयुक्तमथापि वा ॥ ६० ॥
वेदाश्रं नागरं प्रोक्तं वस्वश्रं द्राविडं भवेत् ।
सुवृत्तं वेसरं प्रोक्तं र(चा) न्ध्रं स्यात्तु षडश्रकम् ॥ ६१ ॥ 124
द्वयश्रवृत्तं समाकारं आ(का)लिङ्गं परिकल्पयेत् ।
पूर्वोक्ताकारायामे तद्देवाख्यं विदुर्बुधाः ॥ ६२ ॥
पूर्वोक्तभद्रसर्वैषां नानादिन(विध)रथे भवेत् ।
रथताराङ्घ्रिकांशेन वर्धनं द्विगुयायतम् ॥ ६३ ॥ 128
पूर्वोक्तक्षुद्रमानेन देवभूसुरभूपतेः ।
युद्धार्थं च मखा(क्षा)र्थं स्यान्मप्यनित्योत्सवार्थकम् ॥ ६४ ॥
देवानां भूपतीनां च महामानं महोत्सवैः ।
युद्धयोग्यं यथासर्वे(वै) चक्रत्रयसमन्वितम् ॥ ६५ ॥ 132
मखा(क्षा)र्थमध्वररथं(ध्वनार्थं) यथासर्वे(वै) वेदपादसमन्वितम् ।
नित्योत्सवं यथासर्वे(वै) पञ्चचक्रसमन्वितम् ॥ ६६ ॥