सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 324, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 324

४३] रथलक्षणम् २८६
चतुर्थे पञ्चधा प्रोक्तं पूर्ववद् वर्धयेत्क्रमात् ।
त्रिमात्राधिकहस्तादौ त्र्यस्त्रिं(नवत्रिं)शाङ्गुलान्तकम् ॥ ३९ ॥ 80
कुर्यात्पञ्चविधं प्रोक्तं पञ्चधामतलोन्नतम् ।
पादाधिक्यं तु हस्तादौ सत्रिपादकरान्तकम् ॥ ४० ॥
एवं तु षट्‌तलं प्रोक्तं पञ्चधा चोत्क्रयं भवेत् ।
पादोनात्रिवितस्त्यादौ त्रित्र्यङ्गुलविवर्धनात् ॥ ४१ ॥ 84
त्रिपादद्वि(त्रि)वितस्त्यन्तं सप्तान्ते पञ्चधोदयम् ।
त्रिवितस्ति(स्तिं) समारभ्य त्रित्रिमात्राविवर्धनात् ॥ ४२ ॥
द्विहस्ता(स्तान्तम)ष्टतलोपञ्च(चं) पञ्चधायमिति स्मृतम् ।
सपादत्रिवितस्त्यादौ त्रित्रिमात्राविवर्धनात् ॥ ४३ ॥ 88
[स]पादयुगवितस्त्यन्तं नवतले [तु] शिरो(खो)दयम् ।
'अधश्चैकवितस्त्यादि द्वित्र्यङ्गुलविवर्धनात् ॥ ४४ ॥
अष्टविंशाङ्गुलोत्सेधं चैकादिनवान्तकम् ।
वितस्त्येकं समारभ्य ए(चै)कैकाङ्गुलवर्धनात् ॥ ४५ ॥ 92
मूलादमावसानं स्याद् युक्त्या युग्मदशात्( ॅ) न्यसेत् ।
चतुर्विंशाङ्गुलान्तं च पञ्चविंशाङ्गुलान्तकम् ॥ ४६ ॥
प्रत्येकं तु तलानां तु ऊ(तू)र्ध्वभूमो(मेर)धिकोन्नतम् ।
तलानांमपि सर्वेषां कुट्टिमं तत्प्रकल्पयेत् ॥ ४७ ॥ 96
तदधिष्ठानमाने तु चोक्तमानेन पूर्वके ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ४८ ॥
उपपीठस्य मानं तत्त्यूङ्घ्राधिष्ठानमेव च ।
यथाधिष्ठानगण्ये तु कुर्यात्(ङ्) गण्या(कर्या)धिकोन्नतम् ॥ ४९ ॥ 100
सर्वेषां देवतारूपं कुर्यात्सर्वं विचक्षणः ।
रथाः सर्वे समाश्राः स्युर्भद्रयुक्तम्(क्ताः) अथापि वा ॥ ५० ॥
वितस्त्येकं समारभ्य त्रित्रिमात्राविवर्धनात् ।
त्रिवितस्त्यन्तं भद्राणां निर्गमं परिकल्पयेत् ॥ ५१ ॥ 104
रथाधारे त्रिभागैकं चतुर्भागत्रिभागिकम् ।
पञ्चभागं त्रिभागं वा विस्तारस्यार्धमेव वा ॥ ५२ ॥
36