सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 314, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 314

४०] राजहर्म्यविधानम् २७६
तद्देशे चोर्ध्ववेदिः स्याद्विपदार्धाङ्ग(ङ्क)णान्वितम् ।
परितः शूलकम्पं स्याद् द्वारं तद्दक्षिणोत्तरे ॥ ६८ ॥ 136
तत्तत्पश्चिमदेशे तु युद्धालोकनमण्डपम् ।
झरुद्धावलोकनार्थं [स्यात्] कुर्याद्युक्त्या च मण्डपम् ॥ ६६ ॥
वरुणे पुष्पदन्ते वा मेषयुद्धार्थमण्डपम् ।
मृगे च भृङ्गराजे वा कुक्कुटायुद्धमण्डपम् ॥ ७० ॥ 140
मण्डपाङ्गणमध्ये तु परितो मेखलैर्यु(तायु)तम् ।
एकद्वित्रिचतुष्पञ्चहस्तमूलाग्रविस्तृतम् ॥ ७१ ॥
सार्धद्विहस्तनिम्नं स्यात्साधार्धपरिधान्वितम् ।
द्वौ(दौ)वारिकपदे चैव मयूरालयमेव च ॥ ७२ ॥ 144
द्वारस्य दक्षिणे बाह्ये व्याघ्रकालयमेव च ।
तद्बाह्ये तत्र देवादीन्(नां) किरातालयमेव च ॥ ७३ ॥
तृतीये वितथे हर्म्यांशे रहस्यावासमण्डपम् ।
चतुर्थे यमदिग्भागे सन्धिविग्रहमण्डपम् ॥ ७४ ॥ 148
षट्सप्तावरगो वापि दक्षिणे पश्चिमेऽपि च (वा) ।
उत्तरे पूर्वके वापि गजम(जा)श्वादिवाहनम्(नानि) ॥ ७५ ॥
आरुह्यालोकनार्थं च मण्डपं परिकल्पयेत् ।
ईशे वा वितथे चैव रङ्गमण्डपमेव च ॥ ७६ ॥ 152
भृशे वा सा(चा)न्तरीक्षे वा कारागृहमेव च (तथा) ।
प्राकारस्य चतुर्दिक्षु द्वारगोपुरकान्वितम् ॥ ७७ ॥
शेषं प्रागुक्तवत्कुर्यान्नृपवित्तवशात्तु यत् ।
अनुक्तं मण्डपं युक्त्या कुर्यादाषोडशान्वितम् ॥ ७८ ॥ 156
ब्रह्मांशे ब्रह्मपीठं स्यात्कुर्यादावृतमण्डपम् ॥ ७९ ॥
हस्तेन भूतमुनिरन्ध्रेण करेण कृत्या
विस्तारभित्ति चतुरश्रं त्रियै(धै)कवे(के)न ।
ग्रामस्य मध्यमथ भूपतिमध्यहर्म्ये 160
नित्यं त्रिकाल(म् ) इव पूजित(तं) ब्रह्मपीठम् ॥ ८० ॥
इति मानमारे वास्तुशास्त्रे राजहर्म्यविधानं नाम चत्वारिंशोऽध्यायः ॥