मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 315, कुल 856 में से
संदर्भ में पढ़ेंराजाङ्गविधानम्
भूपतीनां च सर्वेषां सर्वाङ्गं वक्ष्यतेऽधुना ।
अधीत्याम्नायचतुरं तत्वज्ञङ्गं पदक्रमात् ॥ १॥
शास्त्रास्त्रमन्त्रसर्वादीन्सर्वशास्त्राब्धिपारगः ।
षड्दर्शनं समं चैव दीक्षया च प्रवर्तकः ॥ २॥
धीरोद्धतो धीरललितो धीरोदात्तस्तथैव च ।
रम्या(अर्धा)नुपान्य(श्चं) राज्यात्(ज्यं तु) स्वयं ज्ञात्वा स्वयन्त्रितः ॥ ३ ॥
शूरः प्राज्ञश्च कोशार्थ (क्थो) धर्मज्ञो नीतिपारगः ।
समस्तभूसूतां चैते गुणाः प्रोक्ता विशेषतः ॥ ४॥
एतानि गुणरत्नानि राज्ञो यस्य च (ज्ञां सर्वेषां) सन्ति वै ।
शतपञ्चतुरङ्गानि(णि) पञ्चकुञ्जरमेव च ॥ ५॥
लक्षार्धतन्त्राधिपतिः शतपञ्चवराङ्गनाः ।
एका स्यात्पट्टमहिषी अ(सोऽ)स्रग्राहो(ष्ठः) प्रकीर्तिता(तः) ॥ ६ ॥
षट्शतं (त) मरीशकोट्यानि निपद्(द्)न्तावबलमेव च ।
लक्षतन्त्राधिपतिश्च सप्ता (प्त) शतवराङ्गनाः ॥ ७॥
स्यातां महिष्यो (ध्यौ) द्वितीय(द्वे चैव) प्राहारक इति स्मृतम् ।
शवाष्टहयरत्नानि सप्तद्विरदमेव च ॥ ८॥
सार्धलक्षतन्त्रं स्यात्रि (तु) सहस्रं (स्र) वराङ्गनाः ।
महिषीत्रयमेवं च पट्टभाक् इति (चेत्येव) स्मृतम् ॥ ९॥
सहस्राश्वं दशसु(ग)जं पञ्चाशतसहस्रकम् ।
वराङ्गनाभिरासेव्यो महिष्यश्च चतुष्टयम् ॥ १० ॥
लक्षद्वयं च तन्त्रं स्यान्मण्डलेशस्य भूपतेः ।
पञ्चा(च्च) शतसहस्राश्वाः द्वादशं कुञ्जरं तथा ॥ ११ ॥
लक्षद्वयं च तन्त्रं स्याद् द्विसहस्रवराङ्गनाः ।
महिष्यः पञ्च पट्टाभाः पट्टभृक्(ग्) भूपतिर्विदुः ॥ १२ ॥