मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
/कर्य. Letter 3: हLetter 4:म्या(no repha). So it is printed as:कर्यहम्यादिभूषितम्`!
Line 21:
तदेव(वं) हर्म्यमूले तु पूर्ववत्परिकल्पयेत् ।
Notice तदेव(वं) - original तदेव, corrected to (वं).
Line 22:
तच्चतुर्द्वारसंयुक्तं चांशेन भद्रसंयुक्तम् ॥ २२ ॥
Line 23:
एवमीश्वरकान्तं स्यादधिष्ठानादि(नं) क्रमान्नयेत् ।
Line 24:
तुङ्गे पञ्चदशांशं स्याद्व्यंशक(कं) मसूरकम् ॥ २३ ॥
Line 25:
पादतुङ्गं षडंशं स्यात्प्रस्तरोच्चं गुणांशकम् ।
Line 26:
तत्समं चोर्ध्वमञ्चं स्यात्तदूर्ध्वं पञ्चरांशकम् ॥ २४ ॥
Wait, "पञ्चरांशकम्" or "पञ्जरांशकम्"?
Look at the dot/letter: प, ञ्ज or ञ्च with रा?
It is पञ्चरांशकम् (with ञ्च) or पञ्जरांशकम्? It looks like `पञ्ज
२२] चतुस्तलविधानम् १६३
युगांशं चोर्ध्वपादं च द्व्यंशेन प्रस्तरोदयम् ।
तदूर्ध्वे त्वर्धमञ्चं स्यात्सार्धबन्धां(न्ध्यं)शकाङ्घ्रिकम् ॥ २६ ॥ 52
तदर्धं प्रस्तरोत्सेधं पादभागोर्ध्वमञ्चकम् ।
वेदिकोच्चं शिवांशं स्यात्सार्धद्वि(द्व्यं)शं गलोदयम् ॥ २७ ॥
मस्तकोच्चं शरांशं स्याच्छेषं कुम्भोदयं भवेत् ।
मञ्चकान्तमिति प्रोक्तं कर्णहर्म्यादिमण्डितम् ॥ २८ ॥ 56
तदूर्ध्वे च विमानं च वेदिका वेदिकं तथा (कान्तकम्) ।
सर्वालङ्कारसंयुक्तं शेषं पूर्ववदाचरेत् ॥ २९ ॥
तुङ्गे षड्विंशमंशेन चात्य(ध्य)धींशमसूरकम् ।
रुद्रात्(द्रेण) पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ ३० ॥ 60
सपादांशमधिष्ठानं त्र्यर्धांशमङ्घ्रितुङ्गकम् ।
तदर्धं प्रस्तरोत्सेधं तदूर्ध्वेऽशं मसूरकम् ॥ ३१ ॥
पादतुङ्गं द्विभागं स्यान्मञ्चतुङ्गं शिवांशकम् ।
पादोनद्वि(द्व्यं)शपादं स्यात्तदर्धं प्रस्तरोदयम् ॥ ३२ ॥ 64
सपादांशाङ्घ्रितुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
तदूर्ध्वे पा
१६४ मानमारे [अध्यायः २२]
अथवा द्वि(द्वयं)समाश्रित्य लिङ्गं(त्यालिन्दं) कुर्याद्विचक्षणः ।
तदूर्ध्वे विस्तृता(तं) बाह्ये द्वि(द्वयं)शेनावृत(तं) पूर्ववत् ॥ ४० ॥ 80
तस्यान्तश्चोक्तवत्कुर्याद्भागमेकर(म)लङ्कृतम् ।
एकेन कर्णहर्म्यादिमण्डितं चावृतं न्यसेत् ॥ ४१ ॥
भागेन परितोऽलिन्दं चोर्ध्वं तद्व(त्त)जलस्थलम् ।
तत्तद्बाह्येऽपि सर्वाङ्गं कर्णहर्म्यादिमण्डितम् ॥ ४२ ॥ 84
द्विभागेन तु मध्ये तु शालायामं तु विन्यसेत् ।
कूटानामेकभागेन शेषं द्वार(रं) सपञ्जरम् ॥ ४३ ॥
इन्द्रकान्तमिति प्रोक्तं क्षुद्र(द्रे) मध्ये च मुख्यके ।
तन्मुखे मण्डपं युक्तं तद्वित्स्यो मण्डपं स्यात् ॥ ४४ ॥ 88
प्राग्दिशि सोपानमध्यानामूर्ध्ववासनराननम् ।
सालामूलस्य तन्मध्ये चोर्ध्वं तत्र समायुतम् ॥ ४५ ॥
शेषं पूर्ववदुद्दिष्टं चाष्टधा विधमीरितम् ।
क्षुद्रं मध्यं मुखं(ख्यं) च कुर्याद्धर्म्यं सर्वदेवता(वा)नाम् ॥ ४६ ॥ 92
अन्येषामुत्तमानं युक्त्या कुर्यात्पुरातनैः कथितम् ।
नानाधिष्ठानपादैश्च वलभिभिश्च बहुविधैः [युक्तम्] ॥ ४७ ॥
कूटनीडैश्च शाले(लाभिश्च भद्रैर्दा(र)ष्टपाद्गर्भबहुतारैः ।
क्षुद्रैश्च नासागळैर्नानापञ्जरवेदितोरणमहानासैश्च वातायनैः ॥ ४८ ॥ 96
कोष्ठैर्विद्याधराद्यैर्गर्भाधिपतिसुरान्भूषणं कुर्व(रु)ते स्म ॥ ४९ ॥
क्षुद्रमन्यमथ मुख्य(ख्यं) भौमके
रुद्रविष्णुजिनकादिहर्म्यके ।
दक्षिणामूर्तिनरसिंहमूर्तिस्तथ्वादि 100
मूर्तिपुरतोक्तदेवानाम् ॥ ५० ॥
एवं मूर्तिं दक्षिण्यादिक्रमेण
एकानेकभौमतलस्थलादीन् ।
कुर्यात्सर्वं श्रोबद्देशे पतित्वाद् 104
युक्त्या धीमान् देवतां विन्यसेत्तत् ॥ ५१ ॥
इति मानमारे वास्तुशास्त्रे चतुस्तलविधानं नाम द्वाविंशोऽध्यायः ॥
पञ्चतलविधानम्
पञ्चभूमिविधानस्य(नं च) लक्षणां वक्ष्यतेऽधुना ।
क्षुद्र(द्रं) मध्यं च मुख्यं च विशालं भागमुच्छ्रयम् ॥ १ ॥
प्रागुक्तवत्प्रगृह्यं(ह्य) तु कुर्यात्पञ्चतलं बुधः ।
चतुर्विंशांशकं तुङ्गं सात्य(चाध्य)र्धांशमसूरके( कम् ) ॥ २ ॥ 4
बन्धां(न्ध्वं)शं पादतुङ्गं सपादत्य(ध्य)र्धं प्रस्तरोदयम् ।
सपादद्वि(द्ध्यं)शकं पादं मञ्चोर्ध्वं शशिवांशकम् ॥ ३ ॥
तदूर्ध्वेऽङ्घ्रि द्विभागं स्यात्प्रस्तरोषं शिवांशकम् ।
सत्रिपादांशकं पादं प्रस्तरोच्चं शिवांशकम् ॥ ४ ॥ 8
तदर्धं वेदिकोत्तुङ्गं चन्द्रांशं च गलोदयम् ।
मस्तकं चा(ह्या)र्धभागं स्याच्छेषं तु तच्छिखरो(खो)दयम् ॥ ५ ॥
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ।
ऐरावतमिति प्रोक्तं गन्ध(तत्) स्कन्धोद्यसंयुतम्(तं च) ॥ ६ ॥ 12
तदेव विस्तृतार्धेन चतुर्दिक्षु समन्वितम् ।
निर्गमं तु यथायुक्तं चतुर्दिक्षु (दिक्त्रि)तलं भवेत् ॥ ७ ॥
एतत्तु भूतकान्तं स्यात्पञ्चभौमविदो विदुः ।
विशालेन त्रिपादेन पूर्ववद्भद्रसंयुतम् ॥ ८ ॥ 16
चतुर्दिक्षु तलं कुर्यात्कर्णहर्म्यादिमण्डितम् ।
विश्वकान्तमिति प्रोक्तमेवं पञ्चतलं विदुः ॥ ६॥
अथवा विस्तृतं तुल्यं चतुर्दिक्त्वालयं स्मृतम् ।
तस्मात्त्रिभूलहर्म्यान्तं तद्वयोर्मूलदेशके ॥ १० ॥ 20
अन्तरालं प्रकुर्वीत पार्श्वे सोपानसंयुतम् ।
सर्वं प्रदक्षिणं कुर्याद्युक्त्या द्वारं प्रकल्पयेत् ॥ ११ ॥
१६६ मानसारे [अध्यायः २३]
मध्ये पञ्चचतुस्तद्द्वितलं पञ्चतलं भवेत् ।
मूर्तिकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥ १२ ॥ 24
तदेव हर्म्यं विदिक्ष्वेव(ष्वेव च) वत्तन्मौलालयं भवेत् ।
गृहकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥ १३ ॥
तद्वृद्धिः परितो देशे कुर्यात्षोडशालयम् ।
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ॥ १४ ॥ 28
पञ्चविंशत्युपपीठं प्रोक्तं यमकान्तमेव प्रकथ्यते ।
तदेवं परितो बाह्ये चतुर्विंशतिरालयम् ॥ १५ ॥
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ।
महाकान्तमिति प्रोक्तमेतत्पञ्चतलं भवेत् ॥ १६ ॥ 32
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ।
कुर्यात्चित्कल्याणमेतदिदं पञ्चतलान्वितम् ॥ १७ ॥
प्रासादार्धं समं वापि त्रिपादं वा समं तु वा ।
अन्तरालं विशालं स्यादथवा हस्तमानतः ॥ १८ ॥ 36
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
नवपङ्गिकरान्त(न्तं) स्यादन्तरालविशालकम् ॥ १९ ॥
अन्तराले यथायुक्त्या मण्डपाकार(रं) विन्यसेत् ।
अथवा त्रिकूटयुक्तं वा मूलस्य मुखपार्श्वयोः ॥ २० ॥ 40
यज्ञकान्तमिति प्रोक्तमेकानेकतलान्वितम् ।
पञ्चषट्स्त्वेकभूमि(मिः) स्याद्द्वितलं त्रितलं तु वा ॥ २१ ॥
पञ्चब्रह्मे(इ)ति प्रोक्तं सर्वालङ्कारसंयुतम् ।
एतदष्टविधं प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ २२ ॥ 44
शिखरादि यथाकारं चैकाकारं तु योजयेत् ।
सर्वेषां देवतानां च हर्म्यमेवं प्रकल्पयेत् ॥ २३ ॥
एतत्सर्वं हर्म्यके दिक्षु कूटम्
शालानासिकापञ्जराढ्यम् । 48
नानारङ्गान्वितालिन्दयुक्तम्
पूर्वोक्तानां युक्तिः कारयेत्तत् ॥ २४ ॥
इति मानसारे वास्तुशास्त्रे पञ्चतलविधानं नाम त्रयोविंशोऽध्यायः ॥
षट्तलविधानम्
अधुना (विधानं) षट्तलं सम्यग्लक्षणं वक्ष्यतेऽधुना ।
विस्तारं च वि(रोत्सेधं)भागं च पूर्ववत्परिकल्पयेत् ॥ १ ॥
सप्ताधिकं तु पञ्चाशद्भागं कुर्यात्तदुच्छ्रये ।
सार्धबन्धम(न्ध्व)धिष्ठानं सप्तांशं पाददीर्घकम् ॥ २ ॥
तदर्धं प्रस्तरोत्सेधमूर्ध्वपादं षडंशकम् ।
तदूर्ध्वं मञ्च(ञ्चं) त्रियं(त्रयां)शं स्यादूर्ध्वपादं शरांशकम् ॥ ३ ॥
तदर्धं प्रस्तरोत्सेधं सार्धवेदांशकाङ्घ्रिकम् ।
प्रस्तरं च द्विभागं स्यात्सार्धबन्ध्यां(न्ध्वं)शमङ्घ्रिकम् ॥ ४ ॥
प्रस्तरं सार्धभागं स्याद्वेदिकां(कार्मं)शेन योजयेत् ।
ग्रीवतुङ्ग(ङ्गं) युगांशं स्याच्छिखरां युगांशकम् ॥ ५ ॥
शेषं तु स्तूपिकोत्तुङ्गं युक्त्या तत्रैव योजयेत् ।
एतत्तु पद्मकान्तं स्यात्सर्वालङ्कारसंयुतम् ॥ ६ ॥
तदेवाधिष्ठानमंशेन तले तले विशेषतः ।
एतत्कान्तारमित्युक्तं कर्णहर्म्यादिमण्डितम् ॥ ७ ॥
अथ वापि च दिक्कुर्यात् सुन्दरं चेति कीर्तितम् ।
अथवा चोपपीठं स्यादापकान्तमिति स्मृतम् ॥ ८ ॥
अथवा चोर्ध्वतले सर्वे(सर्वस्मिन्) वेदिं कुर्यात्समञ्चकम् ।
कमलाख्य(ञ्च)मिति प्रोक्तमन्तरप्रस्तरान्वितम् ॥ ९ ॥
तृतीये मञ्चसंयुक्तं रत्नकान्तमिहोच्यते ।
चतुर्थं प्रस्तरैर्युक्तं विपुलाङ्कमिति स्मृतम् ॥ १० ॥
पञ्चमं मञ्चायुक्तं स्याज्ज्योति(तिष्)कान्तमिति स्मृतम् ।
तदेव भद्रसंयुक्तमेतत्प्रोक्तं सरोरुहम् ॥ ११ ॥
१६८ मानसारे [अध्यायः २४]
तद्गोपादि शिखान्तं च विपुलाकृतिकं भवेत् ।
तदेव शिखरो(रं व)ख्वश्रं ख्लिकान्तमिति स्मृतम् ॥ १२ ॥
तदेव चतुरश्रं स्याज्जन्मावर्त्तमिहोच्यते ।
तदेव गल(लं) वस्वश्रमिन्दुकान्तमिति स्मृतम् ॥ १३ ॥
एवं त्रयोदशं नाना प्रोक्तं षट्तलहर्म्यके ।
त्रिचतुष्पञ्चषट्सप्त(प्तं) मध्यकोष्ठं विशालकम् ॥ १४ ॥
एकद्वित्रिचतुष्पञ्चभागं हारं सपञ्जरम् ।
एकं वाथ द्विभागं वा कर्णकूटविशालकम् ॥ १५ ॥
तले तले कर्णकूटं कोष्ठहारादिभूषितम् ।
एकद्वित्रिविभागं च हारमध्ये तु भद्रकम् ॥ १६ ॥
एकद्वित्रिचतुष्पञ्च(ञ्चं) कोष्ठमध्ये तु भद्रकम् ।
कर्णकूटविशाले तु त्रिभागैकं मध्यभद्रकम् ॥ १७ ॥
भद्रशाला महानासी चार्धशालाद्यलङ्कृतम् ।
आदिभूमिकियायुक्त्या(क्त्या) चोर्ध्वोर्ध्वतला(लानि) न्यसेत् ॥ १८ ॥
वि(द्वि)तलावृतदलान्तं स्यादेवं युक्त्या समलङ्कृतम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ १९ ॥
नानापञ्जरशालानां(भिः) नासिकापञ्जरान्वितम् ।
प्रस्तरादिकपोतान्तं क्षुद्रनास्या विभूषितम् ॥ २० ॥
शिखरे च मध्यनास्यैः क्षुद्रकपोतनासिकाः ।
वि(सर्व)शनासिकायुक्तं सर्वालङ्कारसंयुतम् ॥ २१ ॥
ग्रीवे च क्षुद्रपादानां युक्त्या च समलङ्कृतम् ।
कर्णहर्म्यादिसंयुक्तं यत्तलोपरिदेशके ॥ २२ ॥
एकभाग(गं) द्विभागं वा मूलव्यावृतालिन्दकम् ।
ऊर्ध्वोर्ध्वतलानां तु चैकभागेन(ना)लिन्दकम् ॥ २३ ॥
एतत्षट्तलं प्रोक्तं शेषं युक्त्या (कुर्यात्) च पूर्ववत् ।
पूर्वोक्तसकलानामपि देवानां तत्राखिलसौधकोष्ठकेषु ॥ २४ ॥
ब्रह्म(ह्मा)विष्णुशिवा(व)नारदैः सह सङ्कुलैः कुरुते शिल्पिवित्तमः ॥ २५ ॥
इति मानमारे वास्तुशास्त्रे षट्तलविधानं नाम चतुर्विंशोऽध्यायः ॥
सप्तभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
विस्तारोत्सेधमानं(भागं) च पूर्ववत्परिकल्पयेत् ॥ १ ॥
जन्मादिस्तूपिपर्यन्तं समानानि विभाजिते ।
भागोनषट्पषदंशं स्याद्वि(द्वयं)शाधिष्ठानेोच्छ्रयम् ॥ २ ॥
तदूर्ध्वं पादतुङ्गं स्यात्प्रस्तरोचं कलांशकम् ।
तदूर्ध्वे[ऽङ्घ्रि] सार्धबन्धां(न्ध्यं)शं तदर्धं प्रस्तरोदयम् ॥ ३ ॥
गुणांशं पादतुङ्गं स्यात्सार्धभागोर्ध्वमञ्चकम् ।
सार्धयुग्मांशपादोध्वं(र्ध्वं) सपादांशं प्रस्तरोदयम् ॥ ४ ॥
वेदिकोच्चा(च्चम)र्धभागं स्यात्सपादांशं गलोदयम् ।
चरणोर्ध्वं त्रिभागं स्यान्मञ्चोर्ध्वमम्बरांशकम् ॥ ५ ॥
पादोनद्वि(द्वयं)शपादोच्चं शिवांशं प्रस्तरोदयम् ।
अत्य(ध्य)र्धं पादतुङ्गं स्यान्मञ्चोर्ध्वं तु तदर्धकम् ॥ ६ ॥
वेदिकोच्चा(च्चम)र्धभागं स्यात्सपादांशं गलोदयम् ।
तदूर्ध्वं शिर(रस्) तुङ्गं स्याच्छ्लेषं तु तच्छिखोदयम् ॥ ७ ॥
पूर्ववद्भक्तिमानेन विस्तारे(रं) वत्प्रकल्पयेत् ।
क्षुद्रे च मध्य(ध्ये) मुख्ये च कूटशालादिभागता ॥ ८ ॥
एकं वाथ द्विभागं [वा] कर्णकूटविशालकम् ।
षट्सप्ताष्टनवांशं वा शालायामं तु मध्यमे ॥ ९ ॥
शालाकूटद्वयोर्मध्ये शेषांशं चान्तरालकम् ।
तन्मध्ये द्वित्रिभागैकं क्षुद्रशालाविशालता ॥ १० ॥
तत्तत्पार्श्वद्वयोर्हारे शेषभागं विधीयते ।
तदूर्ध्वं चैकभागेन कुर्यादावृततालिन्दकम् ॥ ११ ॥
१७० मानसारे [अध्यायः २५]
तले तले च पादौ च कर्णहर्म्यादिमण्डितम् ।
पुण्डरीकमिदं प्रोक्तं सर्वालङ्कारसंयुतम् ॥ १२ ॥ 24
मध्ये तु भद्रशालं च श्रीकान्तमिति स्मृतम् ।
ऊर्ध्वशाला च(लया) संयुक्तं श्रीभोगमिति कथ्यते ॥ १३ ॥
शालापार्श्वे तु कूटं स्याद्द्वारार्थं तत्प्रकथ्यते ।
गलगूटसमायुक्तं पञ्जराख्यमुदीरितम् ॥ १४ ॥ 28
तले तले भद्रकोष्ठा(ष्ठमा) श्रमागारं परिकीर्तितम् ।
मञ्चयुग्मं तु(गमेन) संयुक्तं हर्म्यकान्तमिति स्मृतम् ॥ १५ ॥
ऊर्ध्वकूटसमायुक्तं हिमकान्तमिति स्मृतम् ।
एतदष्टविधं प्रोक्तं सप्तभूमिविधानके ॥ १६ ॥ 32
तले तले तु कोष्ठं स्यात्कर्णकूटाद्यलिन्दकम् ।
क्षुद्रशालादिसर्वेषां वेदिकाभिरलङ्कृतम् ॥ १७ ॥
तोरणैर्नासिकैर्युक्तं क्षुद्रनास्यैश्च भूषितम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ १८ ॥ 36
नानाप्रस्तरसंयुक्तं जालकाभिरलङ्कृतम् ।
एकाङ्गं च त्र्यङ्गं वा पञ्चसप्ताङ्गमेव वा ॥ १९ ॥
एवं सप्ततलं प्रोक्तं शे ' प्रागुक्तवन्नयेत् ।
देवानां पूर्ववत्कुर्यात्तले तले विमानके ॥ २० ॥ 40
इति मानसारे वास्तुशास्त्रे सप्ततलविधानं नाम पञ्चविंशोऽध्यायः ॥
अष्टतलविधानम्
अष्टतलविमानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
पूर्ववत्तुङ्गमानेन कुट्यमाद्यङ्गं मानयेत् ॥ १ ॥
पूर्ववद्भक्तिमानेन कूटशालादि मानयेत् ।
भूकान्तं भूपकान्तं च स्वर्गकान्तं तथैव च ॥ २ ॥
महाकान्तं जनकान्तं च तप(पस्)कान्तं सत्यकान्तकम् ।
देवकान्तमिति प्रोक्तमष्टधा नाममे(ए)व च ॥ ३ ॥
षोडशांशकमाधिक्यं भागं हर्म्यविशालकम् ।
एकांशं कर्णकूटं स्याद्धारान्तर(रं) शिवांशकम् ॥ ४ ॥
वि(द्वि)भागेनानुशाला च तदर्धं चान्तरालकम् ।
सप्तांशेन महाशाला हर्म्यमेतत्तु विन्यसेत् ॥ ५ ॥
चतुष्कोणे चतुष्कूटं कोष्ठे हारादिरष्टधा ।
क्षुद्रशालाष्टधा प्रोक्तं कोष्ठशाला चतुष्टयम् ॥ ६ ॥
मध्यशालात्रिभागेन भद्रशाला च मध्यमे ।
तत्तत्पार्श्वद्वयो[रेवं] द्विद्वीभागार्ध(र्धं) शालयेत् ॥ ७ ॥
एव(वं) मूलतलाद्यैश्च चोर्ध्वेऽर्ध्व(र्ध)तला(लं) न्यसेत् ।
अथवाष्टादशांशे तु कूटहारा च पूर्ववत् ॥ ८ ॥
षड्भागेन महाशाला चतुःशाला त्रिभागिकम्(का) ।
मध्यशालै(ला)युगांशेन भद्रशाला च मध्यमे ॥ ९ ॥
अनुशाला च मध्ये च ए(त्वे)कभागेन भद्रकम् ।
शेषं पूर्ववत्कुर्याद् भूकान्तमुदीरितम् ॥ १० ॥
एकोनविंशदंशेन चाष्टभूमिविशालके ।
एकैक(कं) कूटविस्तारं महाशाला शरांशकम् ॥ ११ ॥
१७२ मानमारे [अध्यायः
अनुशाला त्रिभागा वा भा(हा)रान्तर(रं) द्विभागिकम् ।
महाशाला त्रिभागेन भद्रशालाविशालता ॥ १२ ॥ 24
शेषं प्रागुक्तवत्कुर्याद्भू(देवं) भागाधिकं ततः ।
मध्यशालांशंशेन युक्ता तन्मध्यभद्रकम् ॥ १३ ॥
शेषं तु पूर्ववत्कुर्याद्भूषकान्तमिति स्मृतम् ।
एवं चाष्टतले क्षुद्रहर्म्यमेवं प्रकल्पयेत् ॥ १४ ॥ 28
एकविंशांशकं चाष्टतलहर्म्ये विशालके ।
मध्ये सप्ताष्ट(प्तांश)कं चैव महाशाला(लां) प्रकल्पयेत् ॥ १५ ॥
तन्मध्ये भूतभागेन मध्यशाला सभद्रकम्(का) ।
तद्वहिश्च त्रिभागेन भद्रशालाविभूषितम् ॥ १६ ॥ 32
शेषं प्रागुक्तवत्कुर्यात्स्वर्गकान्तमिति स्मृतम् ।
एवमष्टतलं कुर्यान्मध्यमाख्यमथैव च ॥ १७ ॥
द्वाविंशांशकं तारे च श्रेष्ठम
२६] अष्टतलविधानम् १७३
तदर्धं वलभ्युत्सेधं सार्धत्र्यंशमङ्घ्रिकम् ।
सत्रिपादांशकं मञ्चमूर्ध्वं पादं गुणांशिकम् ॥ २६ ॥ ५२
तदर्धं चोर्ध्वमञ्चं स्यात्त्रिपादाचाङ्घ्रितुङ्गकम् ।
सपादांशं प्रस्तरोत्तुङ्गं द्वयर्धांशं चरणाथु(य)तम् ॥ २७ ॥
तदर्धं प्रस्तरोत्सेधं जङ्घायामं च सार्धकम् ।
प्रस्तरं चैकभागेन द्व्यंशपादाधिकमङ्घ्रिकम् ॥ २८ ॥ ५६
ऊर्ध्वमञ्च(ञ्चं) त्रिपादं स्यात्सभागं पादतुङ्गकम् ।
एकांशं प्रस्तरोत्सेधं तदूर्ध्वं च त्रिभागिकम् ॥ २९ ॥
तन्त्रिभागैकवेदिं स्याद्द्विभागं गलतुङ्गकम् ।
सपादं चांशकं चोर्ध्वं शिरःशेषं शिखोदयम् ॥ ३० ॥ ६०
केचित्तदेव तुङ्गे तु सप्तभागाधिकं तथा ।
ऊर्ध्वोर्ध्वपादमूले तु युक्त्यांशेन मसूरकम् ॥ ३१ ॥
तल्लानां चैकभागेन कर्णहर्म्यां(र्त्यमा) वृतां (तं) न्यसेत् ।
अन्तर(रं) प्रस्तरोपेतं सर्वालङ्कारसंयुतम् ॥ ३२ ॥ ६४
तस्यान्तरस्यैकभागेन कुर्यादावृतालिन्दकम् ।
मूले भागे पदांशेन चोर्ध्वोर्ध्वतलांशकम् ॥ ३३ ॥
नेत्रशालाऽर्धशाला च भद्रशालादिभूषितम् ।
तोरणैस्तल(नीड) शालादिनासिकाभिरलङ्कृतम् ॥ ३४ ॥ ६८
कोष्ठे(ष्ठ) शाला च मध्ये च चोर्ध्वशाला च मण्डितम् ।
नासिकापञ्जराह्वयं च भद्रनास्यैरलङ्कृतम् ॥ ३५ ॥
क्षुद्रशालाप्रदेशे तु सर्वालङ्कारसंयुतम् ।
कर्णकूटाङ्गमध्ये तु नासिकापञ्जरान्वितम् ॥ ३६ ॥ ७२
सर्वाङ्गं क्षुद्रनासाङ्गं प्रस्तरालङ्कृतिक्रिया ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ ३७ ॥
नागरद्राविडादीनां वेसरादीन(नां) शिखान्वितम् ।
सर्वालङ्कारसंयुक्तं पूर्ववत्परिकल्पयेत् ॥ ३८ ॥ ७६
इति मानसार वास्तुशास्त्रे अष्टतलविधानं नाम षड्विंशोऽध्यायः ॥
नवतलविधानम्
नवभूमिविधानस्य(नं च) लक्षणं वच्यतेऽधुना ।
विस्तारोत्सेधमाना(भागा)दिसर्वं प्रागुक्तवन्नयेत् ॥ १ ॥
सौरं च रौरवं चैव चण्डितं भूषणं तथा ।
विवृतं सुप्रतीकान्तं विश्वकान्तं यथाक्रमम् ॥ २ ॥ 4
विस्तारो(रे) विंशदंशेन(षु) कूटमेकैकभागिकम् ।
मध्यशाला षडंशं स्यात्तत्समं चान्तरालकम् ॥ ३ ॥
तन्मध्ये च वि(द्वि)भागेन क्षुद्रशालैर्विभूषितम् ।
तत्पार्श्वे हारसंयुक्तं द्विद्विभागेन कारयेत् ॥ ४ ॥ 8
सौरकान्तमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत् ।
महाशालैश्चतुर्भागं मध्ये भद्रं तु रौरवम् ॥ ५ ॥
तदेव भद्रशालैश्च वेदभागविशालकम् ।
द्विभागं भद्रसंयुक्तं चण्डितं परिकीर्तितम् ॥ ६ ॥ 12
तदेव मध्यशाले तु द्वि(द्वां)शेन भद्रकोष्ठकम् ।
भूषणं च मेति(चेति) प्रोक्तं [तु] सर्वालङ्कारसंयुतम् ॥ ७ ॥
एतच्चतुर्विधं प्रोक्तं नवभूम्यल्पहर्म्यके ।
अथवा चाल्पहर्म्यं तु मध्यकोष्ठं गुहांशिकम् ॥ ८ ॥ 16
अथवा चतुरंशेन मध्यभद्रविशालकम् ।
अथवा पञ्चभागं स्यात्पूर्ववन्नाममी(ई)रितम् ॥ ९ ॥
चतुर्विंशति विस्तारं कूटानां पूर्ववद्भवेत् ।
महाशालानुशालां च साष्टांशकरगुणांशकम् ॥ १० ॥ 20
महाशालायते मध्ये वेदभागैर्(गेन) भद्रकम् ।
सर्वालङ्कारसंयुक्तं विवृतं चेति कथ्यते ॥ ११ ॥
नवतलविधानम् १७५
पञ्चविंशतिभागेन मध्यभद्रं शरांशकम् ।
तत्पार्श्वे कर्णकूटौ च नराशं चैकभागिकम् ॥ १२ ॥ 24
अनुशाला त्रिभागैकं मध्यभद्रं तु संयुतम् ।
सुप्रतीकान्तनामारूढं(म च) शेषं प्रागुक्तवन्नयेत् ॥ १३ ॥
षड्विंशतिविभागेन मध्यं तु युगांशकम् ।
मध्यभं(मं) हर्म्यके कुर्यात्सर्वालङ्कारसंयुतम् ॥ १४ ॥ 28
श्रेष्ठं नवतलं हर्म्यं सप्तविंशतिभागिकम् ।
शालापार्श्वे द्विभागैकं हारकूटसपञ्जरम् ॥ १५ ॥
कूटशालैश्च सप्तांशं मध्यभद्रं शरांशकम् ।
भद्रकोष्ठं त्रियं(त्र्यां)शं स्याच्छेषं पूर्ववदाचरेत् ॥ १६ ॥ 32
श्रेष्ठं नवतलं प्रोक्तं विश्वकान्तमुदीरितम् ।
तदूर्ध्वे द्विं(ह्यं)शमानेन वक्ष्यं चोर्ध्वं जलस्थलम् ॥ १७ ॥
जन्मादिस्तूपिपर्यन्तं गण्यमानमिहोच्यते ।
हर्म्यमष्टतले तुङ्गे साष्टभागाधिकं तथा ॥ १८ ॥ 36
सार्धद्व्यंशमधिष्ठानं तदूर्ध्वं पादतुङ्गकम् ।
तदर्धं प्रस्तरोत्सेधं शेषमष्टतलोक्तवत् ॥ १९ ॥
एवं नवतलोत्सेधं सर्वालङ्कारसंयुतम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ २० ॥ 40
कर्णहर्म्यादिसंयुक्तं द्वारं तत्तत्स्तरान्वितम् ।
भद्रकूटादिशालानां(भिर्) नासिकापञ्जरान्वितम् ॥ २१ ॥
युक्त्या हारादि यथा सर्वे(र्वा) चानुकूलानुनासिका ।
तोरणायङ्गनीडैश्च जालकादिविभूषितम् ॥ २२ ॥ 44
शेषं तु पूर्ववत्कुर्याद्दिचु देवान्न्यसेत्क्रमात् ।
तले तले विमाने तु चोच्चवत्कारयेद्बुधः ॥ २३ ॥
एवं नवतलं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ २४ ॥
इति मानमारे वास्तुशास्त्रे नवतलविधानं नाम सप्तविंशोऽध्यायः ॥
दशतलविधानम्
दशतलविधानं च लक्षणं वक्ष्यतेऽधुना ।
विशालोत्सेधभक्तिश्च दशभूम्यास्तु पूर्ववत् ॥ १ ॥
भूकान्तं चन्द्रकान्तं च भवनं चान्तरिक्षतः(कम्) ।
मेघकान्ता(न्तम)ब्जकान्तं च ए(चै)वं षड्विधमीरितम् ॥ २ ॥
एवं नामवशाद्धर्म्यविस्तारं परिकल्पयेत् ।
भूकान्तं चन्द्रकान्तं दशतलहर्म्ये भागमानेन ॥ ३ ॥
नवतलहर्म्यवशात्पुरोक्तवत्कूटशालादीन् ।
क्षुद्रमध्यममेवं युक्त्या दशतले सङ्कल्प्य ॥ ४ ॥
उक्तहर्म्यविशाले अ(त्व)ष्टाविंशत्यंशकं कृत्वा ।
एकैकं कूटविस्तारं मध्ये द्वादशकं तु शाल(ला)भम् ॥ ५ ॥
अनुशाला गुणांशेन तत्पार्श्वे द्विद्विभागेन ह(हा)राः ।
महाशाला मध्यदेशे [तु] षड्भागेन भद्रसंयुतम् ॥ ६ ॥
एवं तु भवनं(न)कान्तं श्रेष्ठं हर्म्य(म्यं) दशतले कुर्यात् ।
तदेव सौष्ठिकविस्तारं हारानुशाला(लां) द्विद्विभागेन कुर्यात् ॥ ७ ॥
पूर्ववच्छेषं चान्तरिक्षकान्तमिदमुदितम् ।
तदेव शालापार्श्वे चैकं चैकेन(ह्येकं) सौष्ठिकहाराः ॥ ८ ॥
षड्भागेन महाशाला चैतन्नाम्ना मेघकान्तं स्यात् ।
तन्मध्ये चतुरंशेन शालाभद्रयुक्तमब्जकान्तकम् ॥ ९ ॥
शेषं पूर्ववदुद्दिष्टं कुर्याद्दशतलहर्म्यविस्तारे ।
जन्मादिस्तूपिपर्यन्तं तुङ्गे गण्यं चाधुना वक्ष्यामः ॥ १० ॥
तुङ्गे त्र्यंशषष्ट्यंशं गुणांश(शं) मसूरकोत्तुङ्गम् ।
तद्द्वयं पादतुङ्गं तदर्ध(र्धं) प्रस्तरो(रम्) ऊर्ध्वदेशे तु ॥ ११ ॥
? Yes, (र्धं)! And before the parenthesis: द्वयमप्युर्ध्वorद्वयमप्युच्च? It is द्वयमप्युच्च(र्धं)orद्वयमप्युर्ध्व(धं)? Wait, प्युthenच्च? Yes, च्चwith parenthesis(र्धं)`.
Let's check line 10:
द्विभागं चोर्ध्वपादं चैकांशं चोपरि मञ्चं स्यात् ।
Line 11:
तत्समं वेदिकोत्सेधं ग्रीवतुङ्गं कलांशकं स्यात् ॥ १६ ॥ 32
Line 12:
वेदांशं शिखरोत्तुङ्गं शेषांशं शिखरो(खो)दयं कथितम् ।
Line 13:
ऊर्ध्वं चोर्ध्वतले सर्वे कर्णहर्म्यादिमण्डितम् ॥ १७ ॥
Line 14:
एकभाग(गं) द्विभागं वा चान्तश्चावृतालिन्दकम् ।
Line 15:
अधिष्ठानोपपीठे वा महावेद्यादिमेव वा ॥ १८ ॥ 36
Line 16:
ऊर्ध्वं चोर्ध्वतले कुर्यात्सर्वालङ्कारसंयुतम् ।
Line 17:
`नानालङ्
एकादशतलविधानम्
एकादशतलं सम्यग्(विधिं) लक्षणं वक्ष्यतेऽधुना ।
शम्भुकमीशकान्तं च चक्राख्यं यमकान्तकम् ॥ १ ॥
वज्रकान्ता(न्तम)र्ककान्तं च [चङ्]क(क्र)माद्धर्म्यनामकम्(कं स्यात्) ।
रुद्रहर्म्ये तले तारे चैकोनविंशदंशकम् ॥ २ ॥
कूटानां च द्विभागं स्यान्महाशाला नवांशकम्(का) ।
अनुशाला युगांशं स्याद्वारा च द्विद्विभागिकम् ॥ ३ ॥
महाशाला च(या) मध्ये तु भद्रशालैः(ला) शरांशकम् ।
शम्भुकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ४ ॥
तदेव नासिकामध्ये तु द्विभागं भद्रसंयुतम् ।
ईशकान्तमिति प्रोक्तं क्षुद्रहर्म्यादिमी(चे)रितम् ॥ ५ ॥
मध्यमेकादशतले त्रिंशद्भागविशालकम् ।
महाशाला दशांशं स्यान्मध्यभद्रं शरांशकम् ॥ ६ ॥
तत्पार्श्वे एकैकभागेन कूटं द्वारा सपञ्जरम् ।
तदेव वेदभागेन भद्रशाला च मध्यमे ॥ ७ ॥
शेषं प्रागुक्तवत्कुर्याच्चन्द्रकान्तमिति स्मृतम् ।
तदेव कूटे(टमे)कभागं स्यादनुशाला पञ्चभागिकम् ॥ ८ ॥
त्रिपादं भद्रसंयुक्तं तन्त्रिभागैकभागिकम् ।
यमकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ९ ॥
श्रेष्ठहर्म्यविशालेतु चैकविंशति भाजिते ।
द्विद्विभागेन कूटं स्याद्दारं च द्विद्विभागतः ॥ १० ॥
द्वारा च तद्द्वयोर्मध्ये चानुशाला शरांशकम् ।
तन्मध्ये कूर्म(वह्नि)भागेन भद्रं कुर्याद्विचक्षणः ॥ ११ ॥
२९] एकादशतलविधानम् १७६
महाशालानवांशेन मध्ये भद्रं शरांशकम् ।
तन्मध्ये भद्रशाला च बन्ध(न्धु)भागेन योजयेत् ॥ १२ ॥ 24
एवं तु वज्रकान्तं स्यादर्ककान्तमिहोच्यते ।
तदेव शालाप्रान्ते तु पार्श्वे चैकेन सौष्ठिकम् ॥ १३ ॥
तद्द्वयोरन्तरे देशे तत्समं क्षुद्रहारयोः ।
पूर्ववत्कूटविस्तारं शेषं हारं सपञ्जरम् ॥ १४ ॥ 28
तन्मध्ये तु त्रिभागेन क्षुद्रशालाविशालत:(ता) ।
तत्पार्श्वे त्रित्रिभागेन हारमध्ये समद्रकम् ॥ १५ ॥
क्षुद्रशालात्रिभागेन मध्यभद्रं समन्वितम् ।
क्षुद्रहारा च सर्वेषां नासिकापञ्जरान्वितम्(ता) ॥ १६ ॥ 32
मध्ये मध्ये महानासि नेत्रशाला च पार्श्वयोः ।
सर्वालङ्कारसंयुक्तं षड्विधं परिकीर्तितम् ॥ १७ ॥
शेषभागं तु सर्वेषां युक्त्या तत्रैव योजयेत् ।
एवं विस्तारगण्यं स्यात्तुङ्गगण्यमिहोच्यते ॥ १८ ॥ 36
जन्मादिस्तूपिपर्यन्तं (चो)क्तवत्संग्रहं विदुः ।
एकादर्शाशभागेन दशतलोदयाधिकम् ॥ १९ ॥
तदेव सार्धबन्धा(न्ध्यं)शं मसूरकोत्तुङ्गमिष्यते ।
समांशं पाददीर्घ(दैर्घ्यं) स्यात्तदर्धं प्रस्तरोदयम् ॥ २० ॥ 40
शेषं प्रागुक्तवद्रूप्यमेकादशतलोदये ।
तलोर्ध्वोर्ध्वतले सर्वे(र्वे) कर्णहर्म्यादिमण्डितम् ॥ २१ ॥
एकभाग(गं) द्विभागं वा परितोऽलिन्दमिष्यते ।
नानाधिष्ठानसंयुक्तं नानापादैरलंङ्कृतम् ॥ २२ ॥ 44
शालाकूटैश्च हारैश्च ऽ(चो)क्तवत्समलङ्कृतम् ।
हारान्तरे तु कूटशाला च ग्रीवदेशोक्तदेवतान् ॥ २३ ॥
अनुशालाष्टादिक्पालांस्तत्तद्वाहनसंयुतम् ।
यक्षविद्याधरादीनां गरुडादीनि विन्यसेत् ॥ २४ ॥ 48
गणाधिपगणैश्चैव सर्वहर्म्येषु निक्षिपेत् ॥ २५ ॥
इति मानसार वास्तुशास्त्रे एकादशतलविधानं नाम नवविंशोऽध्यायः ॥
द्वादशतलविधानम्
अन्यभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
भूमिलम्बविधाने तु विस्तारात्सेधमुक्तवत् ॥ १ ॥
क्षुद्राल्पमध्यमुख्ये तु यन्मानोरम्य(म्यं) मानयेत् ।
विमानस्य विमा(धा)ने तु चोक्तषड्भक्तिसंग्रहम् ॥ २ ॥
पाञ्चालं द्राविडं चैव मध्यकान्तं कलिङ्गकम् ।
ब(वि)राढं केरल चैव वंशकं मागधं तथा ॥ ३ ॥
जनकं स्फू(गु)र्जकं चैव दशकान्तं प्रकीर्तितम् ।
रविभूमिविशाले तु चाष्टविंशांशिकं भवेत् ॥ ४ ॥
महाशाला दशांशं स्याच्छेषं पूर्ववदाचरेत् ।
पाञ्चालं द्राविडं चैव रविभूम्यल्पहर्म्यके ॥ ५ ॥
मध्यमालयविस्तारे त्रयस्त्रिंशद्विभाजिते ।
त्रिभागं कूटविस्तारं मध्यभद्रे(द्रमे)कभागिकम् ॥ ६ ॥
महाशाला नवांशं स्याच्छेषं पूर्ववदाचरेत् ।
मध्यकान्तमिति प्रोक्तं तस्य कूट(टं) द्विभागिकम् ॥ ७ ॥
अनुशाला षडंगं(शं) स्यात्तस्याङ्गं पूर्ववद्भवेत् ।
एवं कालिङ्गकान्तं स्यान्नानालङ्कारसंयुतम् ॥ ८ ॥
चतुरा(र)धिकत्रिदशभागं हर्म्यविशालके ।
अष्टांशेन महाशाला पार्श्वे शाला शिवांशकम् ॥ ९ ॥
द्व्यंशानुपञ्जरशाला तदर्धं चान्तरालकम् ।
अनुशाला त्रिभागं स्यादेकांशमन्तरालकम् ॥ १० ॥
द्वि(द्वां)शं पञ्जरशाला च पार्श्वे हारं शिवांशकम्
कूटानां च द्विभागं स्यात्सर्वं युक्तवं(त्त्वा) सभद्रकम् ॥ ११ ॥
३०] द्वादशतलविधानम् १८१
महाशाला युगांशेन मध्यमत्र(भद्रं) प्रकारयेत् ।
तले तले विमाने तु शालापञ्जरषोडशम् ॥ १२ ॥ 24
क्षुद्रशाला द्विदण्डारा च तन्मध्यं चाष्टकं भवेत् ।
चतुर्दिक्षु महाशाला चतुष्कूट(टं) वले तले ॥ १३ ॥
एवं व(वि)राट्कान्तं स्याच्छ्रेष्ठं भागं तु पूर्ववत् ।
तदेव भूतभागेन क्षुद्रशालाविशालकम् ॥ १४ ॥ 28
हारा च तन्त्रिभागेन युक्ता च समलङ्कृतम् ।
शेषं प्रागुक्तवत्कुर्यात्तदेव केरलकान्तकम् ॥ १५ ॥
तदेव हारां तन्मध्ये चैकभागेन सौष्ठिकम् ।
वंश[क]कान्तमिति प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १६ ॥ 32
तदेवानुशालामध्ये भद्रशालैकभागिकम् ।
एवं मागधकान्तं स्यात्कर्णकूट(टं) सभद्रकम् ॥ १७ ॥
तदेव महाशाला तु(या) द्विभागं मध्यभद्रकम् ।
जन[क]कान्तमिति प्रोक्तं श्रेष्ठा रवितलान्वितः(तम्) ॥ १८ ॥ 36
एकादशतलोत्तुङ्गे त्रयोदशांशमा(म)धिकम् ।
तद्भागेन युगांशं तु कुट्टिमोदयमीरितम् ॥ १९ ॥
अष्टांशं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
अर्धांशं तु शिखोपेतं शेषांशं प्राग्वदुच्छ्रयम् ॥ २० ॥ 40
एवं द्वादशतलं स्यात्तुङ्गं युक्त्वा समाचरेत् ।
एकेन परितोऽलिन्दं तदूर्ध्वोर्ध्वतलानि च ॥ २१ ॥
एकानेकतलान्ते च चादिभूमिवशाद्विदुः ।
अनाहृत्यं(तां)शकं कृत्वा तदूर्ध्वोर्ध्वतला(लानि) न्यसेत् ॥ २२ ॥ 44
एकद्वित्रित्रिदण्डं वा मध्यशालाच(लाया) निर्गमम् ।
अर्धमेक(कं) द्विदण्डं वा क्षुद्रशालादिनिर्गमम् ॥ २३ ॥
एकांशात्य(शमध्य)र्धदण्डं वा सर्वेषां भद्रनिर्गमम् ।
तले तले च पादादि बहुकूटं चालिन्दकम् ॥ २४ ॥ 48