मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 210, कुल 856 में से
संदर्भ में पढ़ेंनवतलविधानम् १७५
पञ्चविंशतिभागेन मध्यभद्रं शरांशकम् ।
तत्पार्श्वे कर्णकूटौ च नराशं चैकभागिकम् ॥ १२ ॥ 24
अनुशाला त्रिभागैकं मध्यभद्रं तु संयुतम् ।
सुप्रतीकान्तनामारूढं(म च) शेषं प्रागुक्तवन्नयेत् ॥ १३ ॥
षड्विंशतिविभागेन मध्यं तु युगांशकम् ।
मध्यभं(मं) हर्म्यके कुर्यात्सर्वालङ्कारसंयुतम् ॥ १४ ॥ 28
श्रेष्ठं नवतलं हर्म्यं सप्तविंशतिभागिकम् ।
शालापार्श्वे द्विभागैकं हारकूटसपञ्जरम् ॥ १५ ॥
कूटशालैश्च सप्तांशं मध्यभद्रं शरांशकम् ।
भद्रकोष्ठं त्रियं(त्र्यां)शं स्याच्छेषं पूर्ववदाचरेत् ॥ १६ ॥ 32
श्रेष्ठं नवतलं प्रोक्तं विश्वकान्तमुदीरितम् ।
तदूर्ध्वे द्विं(ह्यं)शमानेन वक्ष्यं चोर्ध्वं जलस्थलम् ॥ १७ ॥
जन्मादिस्तूपिपर्यन्तं गण्यमानमिहोच्यते ।
हर्म्यमष्टतले तुङ्गे साष्टभागाधिकं तथा ॥ १८ ॥ 36
सार्धद्व्यंशमधिष्ठानं तदूर्ध्वं पादतुङ्गकम् ।
तदर्धं प्रस्तरोत्सेधं शेषमष्टतलोक्तवत् ॥ १९ ॥
एवं नवतलोत्सेधं सर्वालङ्कारसंयुतम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ २० ॥ 40
कर्णहर्म्यादिसंयुक्तं द्वारं तत्तत्स्तरान्वितम् ।
भद्रकूटादिशालानां(भिर्) नासिकापञ्जरान्वितम् ॥ २१ ॥
युक्त्या हारादि यथा सर्वे(र्वा) चानुकूलानुनासिका ।
तोरणायङ्गनीडैश्च जालकादिविभूषितम् ॥ २२ ॥ 44
शेषं तु पूर्ववत्कुर्याद्दिचु देवान्न्यसेत्क्रमात् ।
तले तले विमाने तु चोच्चवत्कारयेद्बुधः ॥ २३ ॥
एवं नवतलं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ २४ ॥
इति मानमारे वास्तुशास्त्रे नवतलविधानं नाम सप्तविंशोऽध्यायः ॥