सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 208, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 208

२६] अष्टतलविधानम् १७३
तदर्धं वलभ्युत्सेधं सार्धत्र्यंशमङ्घ्रिकम् ।
सत्रिपादांशकं मञ्चमूर्ध्वं पादं गुणांशिकम् ॥ २६ ॥ ५२
तदर्धं चोर्ध्वमञ्चं स्यात्त्रिपादाचाङ्घ्रितुङ्गकम् ।
सपादांशं प्रस्तरोत्तुङ्गं द्वयर्धांशं चरणाथु(य)तम् ॥ २७ ॥
तदर्धं प्रस्तरोत्सेधं जङ्घायामं च सार्धकम् ।
प्रस्तरं चैकभागेन द्व्यंशपादाधिकमङ्घ्रिकम् ॥ २८ ॥ ५६
ऊर्ध्वमञ्च(ञ्चं) त्रिपादं स्यात्सभागं पादतुङ्गकम् ।
एकांशं प्रस्तरोत्सेधं तदूर्ध्वं च त्रिभागिकम् ॥ २९ ॥
तन्त्रिभागैकवेदिं स्याद्द्विभागं गलतुङ्गकम् ।
सपादं चांशकं चोर्ध्वं शिरःशेषं शिखोदयम् ॥ ३० ॥ ६०
केचित्तदेव तुङ्गे तु सप्तभागाधिकं तथा ।
ऊर्ध्वोर्ध्वपादमूले तु युक्त्यांशेन मसूरकम् ॥ ३१ ॥
तल्लानां चैकभागेन कर्णहर्म्यां(र्त्यमा) वृतां (तं) न्यसेत् ।
अन्तर(रं) प्रस्तरोपेतं सर्वालङ्कारसंयुतम् ॥ ३२ ॥ ६४
तस्यान्तरस्यैकभागेन कुर्यादावृतालिन्दकम् ।
मूले भागे पदांशेन चोर्ध्वोर्ध्वतलांशकम् ॥ ३३ ॥
नेत्रशालाऽर्धशाला च भद्रशालादिभूषितम् ।
तोरणैस्तल(नीड) शालादिनासिकाभिरलङ्कृतम् ॥ ३४ ॥ ६८
कोष्ठे(ष्ठ) शाला च मध्ये च चोर्ध्वशाला च मण्डितम् ।
नासिकापञ्जराह्वयं च भद्रनास्यैरलङ्कृतम् ॥ ३५ ॥
क्षुद्रशालाप्रदेशे तु सर्वालङ्कारसंयुतम् ।
कर्णकूटाङ्गमध्ये तु नासिकापञ्जरान्वितम् ॥ ३६ ॥ ७२
सर्वाङ्गं क्षुद्रनासाङ्गं प्रस्तरालङ्कृतिक्रिया ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ ३७ ॥
नागरद्राविडादीनां वेसरादीन(नां) शिखान्वितम् ।
सर्वालङ्कारसंयुक्तं पूर्ववत्परिकल्पयेत् ॥ ३८ ॥ ७६
इति मानसार वास्तुशास्त्रे अष्टतलविधानं नाम षड्विंशोऽध्यायः ॥

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश) · पृष्ठ 208, कुल 856 में से · SarvaKosh