सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 211, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 211

दशतलविधानम्

दशतलविधानं च लक्षणं वक्ष्यतेऽधुना ।
विशालोत्सेधभक्तिश्च दशभूम्यास्तु पूर्ववत् ॥ १ ॥
भूकान्तं चन्द्रकान्तं च भवनं चान्तरिक्षतः(कम्) ।
मेघकान्ता(न्तम)ब्जकान्तं च ए(चै)वं षड्विधमीरितम् ॥ २ ॥
एवं नामवशाद्धर्म्यविस्तारं परिकल्पयेत् ।
भूकान्तं चन्द्रकान्तं दशतलहर्म्ये भागमानेन ॥ ३ ॥
नवतलहर्म्यवशात्पुरोक्तवत्कूटशालादीन् ।
क्षुद्रमध्यममेवं युक्त्या दशतले सङ्कल्प्य ॥ ४ ॥
उक्तहर्म्यविशाले अ(त्व)ष्टाविंशत्यंशकं कृत्वा ।
एकैकं कूटविस्तारं मध्ये द्वादशकं तु शाल(ला)भम् ॥ ५ ॥
अनुशाला गुणांशेन तत्पार्श्वे द्विद्विभागेन ह(हा)राः ।
महाशाला मध्यदेशे [तु] षड्भागेन भद्रसंयुतम् ॥ ६ ॥
एवं तु भवनं(न)कान्तं श्रेष्ठं हर्म्य(म्यं) दशतले कुर्यात् ।
तदेव सौष्ठिकविस्तारं हारानुशाला(लां) द्विद्विभागेन कुर्यात् ॥ ७ ॥
पूर्ववच्छेषं चान्तरिक्षकान्तमिदमुदितम् ।
तदेव शालापार्श्वे चैकं चैकेन(ह्येकं) सौष्ठिकहाराः ॥ ८ ॥
षड्भागेन महाशाला चैतन्नाम्ना मेघकान्तं स्यात् ।
तन्मध्ये चतुरंशेन शालाभद्रयुक्तमब्जकान्तकम् ॥ ९ ॥
शेषं पूर्ववदुद्दिष्टं कुर्याद्दशतलहर्म्यविस्तारे ।
जन्मादिस्तूपिपर्यन्तं तुङ्गे गण्यं चाधुना वक्ष्यामः ॥ १० ॥
तुङ्गे त्र्यंशषष्ट्यंशं गुणांश(शं) मसूरकोत्तुङ्गम् ।
तद्द्वयं पादतुङ्गं तदर्ध(र्धं) प्रस्तरो(रम्) ऊर्ध्वदेशे तु ॥ ११ ॥