सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 213, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 213

एकादशतलविधानम्
एकादशतलं सम्यग्(विधिं) लक्षणं वक्ष्यतेऽधुना ।
शम्भुकमीशकान्तं च चक्राख्यं यमकान्तकम् ॥ १ ॥
वज्रकान्ता(न्तम)र्ककान्तं च [चङ्]क(क्र)माद्धर्म्यनामकम्(कं स्यात्) ।
रुद्रहर्म्ये तले तारे चैकोनविंशदंशकम् ॥ २ ॥
कूटानां च द्विभागं स्यान्महाशाला नवांशकम्(का) ।
अनुशाला युगांशं स्याद्वारा च द्विद्विभागिकम् ॥ ३ ॥
महाशाला च(या) मध्ये तु भद्रशालैः(ला) शरांशकम् ।
शम्भुकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ४ ॥
तदेव नासिकामध्ये तु द्विभागं भद्रसंयुतम् ।
ईशकान्तमिति प्रोक्तं क्षुद्रहर्म्यादिमी(चे)रितम् ॥ ५ ॥
मध्यमेकादशतले त्रिंशद्भागविशालकम् ।
महाशाला दशांशं स्यान्मध्यभद्रं शरांशकम् ॥ ६ ॥
तत्पार्श्वे एकैकभागेन कूटं द्वारा सपञ्जरम् ।
तदेव वेदभागेन भद्रशाला च मध्यमे ॥ ७ ॥
शेषं प्रागुक्तवत्कुर्याच्चन्द्रकान्तमिति स्मृतम् ।
तदेव कूटे(टमे)कभागं स्यादनुशाला पञ्चभागिकम् ॥ ८ ॥
त्रिपादं भद्रसंयुक्तं तन्त्रिभागैकभागिकम् ।
यमकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ९ ॥
श्रेष्ठहर्म्यविशालेतु चैकविंशति भाजिते ।
द्विद्विभागेन कूटं स्याद्दारं च द्विद्विभागतः ॥ १० ॥
द्वारा च तद्द्वयोर्मध्ये चानुशाला शरांशकम् ।
तन्मध्ये कूर्म(वह्नि)भागेन भद्रं कुर्याद्विचक्षणः ॥ ११ ॥