मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 209, कुल 856 में से
संदर्भ में पढ़ेंनवतलविधानम्
नवभूमिविधानस्य(नं च) लक्षणं वच्यतेऽधुना ।
विस्तारोत्सेधमाना(भागा)दिसर्वं प्रागुक्तवन्नयेत् ॥ १ ॥
सौरं च रौरवं चैव चण्डितं भूषणं तथा ।
विवृतं सुप्रतीकान्तं विश्वकान्तं यथाक्रमम् ॥ २ ॥ 4
विस्तारो(रे) विंशदंशेन(षु) कूटमेकैकभागिकम् ।
मध्यशाला षडंशं स्यात्तत्समं चान्तरालकम् ॥ ३ ॥
तन्मध्ये च वि(द्वि)भागेन क्षुद्रशालैर्विभूषितम् ।
तत्पार्श्वे हारसंयुक्तं द्विद्विभागेन कारयेत् ॥ ४ ॥ 8
सौरकान्तमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत् ।
महाशालैश्चतुर्भागं मध्ये भद्रं तु रौरवम् ॥ ५ ॥
तदेव भद्रशालैश्च वेदभागविशालकम् ।
द्विभागं भद्रसंयुक्तं चण्डितं परिकीर्तितम् ॥ ६ ॥ 12
तदेव मध्यशाले तु द्वि(द्वां)शेन भद्रकोष्ठकम् ।
भूषणं च मेति(चेति) प्रोक्तं [तु] सर्वालङ्कारसंयुतम् ॥ ७ ॥
एतच्चतुर्विधं प्रोक्तं नवभूम्यल्पहर्म्यके ।
अथवा चाल्पहर्म्यं तु मध्यकोष्ठं गुहांशिकम् ॥ ८ ॥ 16
अथवा चतुरंशेन मध्यभद्रविशालकम् ।
अथवा पञ्चभागं स्यात्पूर्ववन्नाममी(ई)रितम् ॥ ९ ॥
चतुर्विंशति विस्तारं कूटानां पूर्ववद्भवेत् ।
महाशालानुशालां च साष्टांशकरगुणांशकम् ॥ १० ॥ 20
महाशालायते मध्ये वेदभागैर्(गेन) भद्रकम् ।
सर्वालङ्कारसंयुक्तं विवृतं चेति कथ्यते ॥ ११ ॥