काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
कविरहस्ये तृतीयोऽध्यायः । ९
ईषदसमासमीषदनुप्रासमुपचारगर्भञ्च जगाद सा पाञ्चाली रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
ततः सोऽवन्तीन्प्रत्युच्चचाल यत्रावन्तीवैदिशसुराष्ट्रमलवार्बुदभृ-
गुकच्छादयो जनपदाः । तत्राभियुञ्जाना तमौमेयतीति समानं पूर्वेण ।
सा प्रवृत्तिरावन्ती । पाञ्चालमध्यमादाक्षिणात्ययोरन्तरचारिणी हि
सा। अत एव सात्त्वतीकैशिक्यौ तत्र वृत्ती । तां ते मुनयोऽभितुष्टुवुः—
“पाञ्चालनेपथ्यविधिर्नराणां
स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः ।
यज्जल्पितं यच्चरितादिकं त-
दन्योन्यसंभिन्नमवन्तिदेशे ॥”
ततश्च स दक्षिणां दिशमाससाद यत्र मलयमेकलकुन्तलकेरल-
पालमञ्जरमहाराष्ट्रगङ्गकलिङ्गादयो जनपदाः । तत्राभियुञ्जाना
तमौमेयीति समानं पूर्वेण । सा दाक्षिणात्या प्रवृत्तिः । तां ते
मुनयोऽभितुष्टुवुः ।
“आमूलतो वलितकुन्तलचारुचूड-
श्चूर्णालकप्रचयलाञ्छितभालभागः ।
कक्षानिवेशनिबिडीकृतनीविरेष
वेषश्चिरं जयति केरलकामिनीनाम् ॥”
तामनुरक्तमनाः स यन्नेपथ्यः सारस्वतेय आसीदिति समानं
पूर्वेण । साऽपि यद्विचित्रनृत्तगीतवाद्यविलासादिकमाविर्भावया-
मास सा कैशिकी वृत्तिः । तां ते मुनय इति समानं पूर्वेण । यदत्यर्थं
च स तया वशंवदीकृतः स्थानानुप्रासवदसमासं योगवृत्तिगर्भं
च जगाद सा वैदर्भी रीतिः । तां ते मुनय इति समानं पूर्वेण ।
तत्र वेषविन्यासक्रमः प्रवृत्तिः, विलासक्रमो वृत्तिः, वचन-
विन्यासक्रमो रीतिः । “चतुष्टयी गतिर्वृत्तीनां प्रवृत्तीनां च, देशानां
पुनरानन्त्यं तत्कथमिव कार्त्स्न्येन परिग्रहः” इत्याचार्याः । “अनन्ता-
मपि हि देशांश्चतुर्धैवाकल्प्य कल्पयन्ति चक्रवर्तिक्षेत्रं सामान्येन,
१ B मानिनीनाम्.
२
१० काव्यमीमांसायाम्
तदवान्तरविशेषैः पुनरनन्ता एव” इति यायावरीयः । दक्षिणा-
त्समुद्रादुदीचीं दिशं प्रति योजनसहस्रं चक्रवर्तिक्षेत्रं, तत्रैष नेपथ्य-
विधिः । ततः परं दिव्याद्या अपि यं देशमधिवसेयुस्तद्देश्यं वेषमा-
श्रयन्तो निबन्धनीयाः । स्वभूमौ तु कामचारः । द्वीपन्तरभवानां
तदनुसारेण वृत्तिप्रवृत्ती । रीतयस्तु तिस्रस्तास्तु पुरस्तात् । तत्रास्ति
मनोजन्मनो देवस्य क्रीडावासो विदर्भेषु वत्सगुल्मं नाम नगरम् ।
तत्र सारस्वतेयस्तामौमेयीं गन्धर्ववत्परिणिनाय । ततस्तद्वधूवरं
विनिवृत्य तेषु प्रदेशेषु विहरमाणं तुषारगिरिमेवाजगाम यत्र
गौरी सरस्वती च मिथः सम्बन्धिन्यौ तस्थतुः । तौ च कृतवन्दनौ
दम्पती दत्त्वाऽऽशिषं प्रभावमयेन वपुषा कविमानवनिवासिनौ
चक्रतुः । तयोश्च कविलोकस्वर्गसर्गं तमकल्प[ये]तां, यत्र काव्यमयेन
शरीरेण मर्त्त्यमधिवसन्तो दिव्येन देहेन कवय आकल्पं मोदन्ते ।
इत्येष काव्यपुरुषः पुरा सृष्टः स्वयम्भुवा ।
एवं विभज्य जानानः प्रेत्य चेह च नन्दति ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
तृतीयोऽध्यायः काव्यपुरुषोत्पत्तिः ॥
चतुर्थोऽध्यायः पदवाक्यविवेकः ।
द्विविधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्य्यबुद्धिश्च । यस्य निस-
र्गतः शास्त्रमनुधावति बुद्धिः स बुद्धिमान् । यस्य च शास्त्राभ्यासः
संस्कुरुते बुद्धिमसावाहार्य्यबुद्धिः । त्रिधा च सा, स्मृतिमतिः प्रज्ञेति ।
अतिक्रान्तस्यार्थस्य स्मर्त्री स्मृतिः । वर्त्तमानस्य मन्त्री मतिः । अना-
गतस्य प्रज्ञात्री प्रज्ञेति । सा त्रिप्रकाराऽपि कवीनामुपकर्त्री । तयो-
र्बुद्धिमान् शुश्रूषते शृणोति गृह्णीते धारयति विजानात्यूहतेऽपोहति
तत्त्वं चाभिनिविशते । आहार्य्यबुद्धेरप्येत एव गुणाः किन्तु प्रशा-
स्तारमपेक्षन्ते । अहरहः सुगुरूपासना तयोः प्रकृष्टो गुणः । सा हि
बुद्धिविकासकामधेनुः । तदाहुः—
कविरहस्ये चतुर्थोऽध्यायः । ११
“प्रथयति पुरः प्रज्ञाज्योतिर्यथार्थपरिग्रहे
तदनु जनयत्यूहापोहक्रियाविशदं मनः ।
अभिनिविशते तस्मात्तत्त्वं तदेकमुखोदयं
सह परिचयो विद्यावृद्धैः क्रमादमृतायते ॥”
ताभ्यामन्यथावृत्तिर्दुर्बुद्धिः । तत्र बुद्धिमतः प्रतिपत्तिः । स खलु ५
सकृदभिधानप्रतिपन्नार्थः कविमार्गं मृगयितुं गुरुकुलमुपासीत ।
आहार्यबुद्धेस्तु द्वयमप्रतिपत्तिः सन्देहश्च । स खल्वप्रतिपन्नमर्थं
प्रतिपत्तुं सन्देहं च निराकर्तुमाचार्यानुपतिष्ठेत । दुर्बुद्धेस्तु सर्वत्र
मतिविपर्यास एव । स हि नीलीमेचकितसिचयकल्पः । अनाधेयगुणा-
न्तरत्वात् । तं यदि सारस्वतोऽनुभावः प्रसादयति तमौ(दौ)पनिषदिके १०
वक्ष्यामः ।
“काव्यकर्मणि कवेः समाधिः परं व्याप्रियते” इति श्यामदेवः ।
मनस एकाग्रता समाधिः । समाहितं चित्तमर्थान्पश्यति । उक्तञ्च—
“सारस्वतं किमपि तत्सुमहद्रहस्यं
यद्गोचरे च विदुषां निपुणैकसेव्यम् । १५
तत्सिद्धये परमयं परमोऽभ्युपायो
यच्चेतसो विदितवेद्यविधेः समाधिः ॥”
“अभ्यासः” इति मङ्गलः । अविच्छेदेन शीलनमभ्यासः । स हि
सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते । “समाधिरन्तरः प्रयत्नो
बाह्यस्त्वभ्यासः । तावुभावपि शक्तिमुद्भासयतः । सा केवलं २०
काव्ये हेतुः” इति यायावरीयः । विप्रसृतिश्च सा प्रतिभाव्युत्पत्ति-
भ्याम् । शक्तिकर्तृके हि प्रतिभाव्युत्पत्तिकर्मणी । शक्तस्य प्रति-
भाति शक्तश्च व्युत्पद्यते । या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्ति-
मार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा ।
अप्रतिभस्य पदार्थसार्थः परोक्ष इव । प्रतिभावतः पुनरपश्यतोऽपि २५
१ B क्रियाविसरं. २ BC बुद्धिः. ३ B काव्यहेतुः. ४ Explained in A
in the margin as दूरवर्तिनी.
१२ काव्यमीमांसायाम्
प्रत्यक्ष इव । यतो मेधाविरुद्रकुमारदासादयो जात्यन्धाः कवयः
श्रूयन्ते । किन्नु न महाकवयोऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन
तत्तत्यां व्यवहतिं निबध्नन्ति स्म ? । तत्र देशान्तरव्यवहारः—
“प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥”
द्वीपान्तरव्यवहारः—“अनेन सार्द्धं विहराम्बुराशे-
स्तीरेषु तालीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पै-
रपाकृतस्वेदलवा मरुद्भिः ॥”
कथापुरुषव्यवहारः—“हरोऽपि तावत्परिवृत्तधैर्य-
श्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे
व्यापारयामास विलोचनानि ॥”
आदिग्रहणात्— “तथागतायां परिहासपूर्वं
सख्यां सखी वेत्रभृदाबभाषे ।
बाले व्रजामोऽन्यत इत्यथैनां
वधूरसूयाकुटिलं ददर्श ॥”
सा च द्विधा कारयित्री भावयित्री च । कवेरुपकुर्वाणा कार-
यित्री । साऽपि त्रिविधा सहजाऽऽहार्यौपदेशिकी च । जन्मान्तर-
संस्कारापेक्षिणी सहजा । जन्मसंस्कारयोनिरहार्या । मन्त्रतन्त्राद्युप-
देशप्रभवा औपदेशिकी । ऐहिकेन कियताऽपि संस्कारेण प्रथमां (मा)।
तां सहजेति व्यपदिशन्ति । महता पुनराहार्या । औपदेशिक्याः
पुनरैहिक एव उपदेशकालः, ऐहिक एव संस्कारकालः । त इमे
१ A ०रणौष्ठे. २ A सख्या.
कविरहस्ये चतुर्थोऽध्यायः । १३
त्रयोऽपि कवयः सारस्वत, आभ्यासिक, औपदेशिकश्च । जन्मा-
न्तरसंस्कारप्रवृत्तसरस्वतीको बुद्धिमन्सारस्वतः । इह जन्माभ्यासो-
द्भासितभारतीक आहार्यबुद्धिराभ्यासिकः। उपदेशित(श)दर्शितवा-
ग्विभवो दुर्बुद्धिरौपदेशिकः । "तस्मान्नेतरौ तन्त्रशेषमनुतिष्ठताम् ।
नहि प्रकृतिमधुरा द्राक्षा फाणितसंस्कारमपेक्षते” इत्याचार्याः । “न” ५
इति यायावरीयः । एकार्थ हि क्रियाद्वयं द्वैगुण्याय सम्पद्यते ।
“तेषां पूर्वः पूर्वः श्रेयान्” इति श्यामदेवः । यतः—
“सारस्वतः स्वतन्त्रः स्याद्गवेदाभ्यासिको मितः ।
उपदेशकविस्त्वत्र वल्गु फल्गु च जल्पति ॥”
“उत्कर्षः श्रेयान्” इति यायावरीयः । स चानेकगुणसन्निपाते १०
भवति । किञ्च—
“बुद्धिमत्त्वं च काव्याङ्गविद्यास्वभ्यासकर्म च ।
कवेश्चौपनिषच्छक्तिस्त्रयमेकत्र दुर्लभम् ॥
काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः ।
मन्त्रानुष्ठाननिष्ठस्य नेदिष्ठा कविराजता ॥” १५
कवीनां तारतम्यतश्चैष प्रायोवादः ।
“एकस्य तिष्ठति कवेर्गृह एव काव्य-
मन्यस्य गच्छति सुहृद्भवनानि यावत् ।
न्यस्यावि(स्यद्वि)दग्धवदनेषु पदानि शश्व-
त्कस्यापि सञ्चरति विश्वकुतूहलीव ॥” २०
सेयं कारयित्री । भावकस्योपकुर्वाणा भावयित्री । सा हि कवेः
श्रममभिप्रायं च भावयति । तया खलु फलितः कवेर्व्यापारतरुः ।
अन्यथा सोऽवकेशी स्यात् । “कः पुनरनयोर्भेदो यत्कविर्भावयति
भावकश्च कविः” इत्याचार्याः । तदाहुः—
“प्रतिभातारतम्येन प्रतिष्ठा भुवि भूरिधा । २५
भावकस्तु कविः प्रायो न भजत्यधमां दशाम् ॥”
१४ काव्यमीमांसायाम्
“न” इति कालिदासः । पृथगेव हि कवित्वाद्भावकत्वं, भाव-
कत्वाच्च कवित्वम् । स्वरूपभेदाद्विषयभेदाच्च । यदाहुः—
“कश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां
कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति ।
5 नह्येकस्मिन्नतिशयवतां सन्निपातो गुणाना-
मेकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥”
“ते च द्विधा । अरोचकिनः, सतृणाभ्यवहारिणश्च” इति मङ्गलः।
“कवयोऽपि भवन्ति” इति वामनीयाः । “चतुर्द्धा” इति याया-
वरीयाः “मत्सरिणस्तत्त्वाभिनिवेशिनश्च” । “तत्र विवेकिनः पूर्वे
10 तद्विपरीतास्तु ततोऽनन्तराः” इति वामनीयाः । “अरोचकिता हि
तेषां नैसर्गिकी ज्ञानयोनिर्वा । नैसर्गिकीं हि¹ संस्कारशतेनापि
वङ्गमिव कालिकां ते न² जहति । ज्ञानयोनौ तु तस्यां विशिष्टज्ञे-
यवति वचसि रोचकितावृत्तिरेव” इति यायावरीयः । किञ्च सतृ-
णाभ्यवहारिता सर्वसाधारणी । तथाहि व्युत्पित्सोः कौतुकिनः
15 सर्वस्य सर्वत्र प्रथमं सा । प्रतिभाविवेकविकलता हि न गुणागुण-
योर्विभागसूत्रं पातयति । ततो बहु त्यजति बहु च गृह्णाति । विवे-
कानुसारेण हि बुद्धयो मधु निष्पन्दन्ते । परिणामे तु यथार्थदर्शी
स्यात् । विभ्रमभ्रंशश्च निःश्रेयसं सन्निधत्ते । मत्सरिणस्तु प्रतिभा-
तमपि न प्रतिभानं, परगुणेषु वाचंयमत्वात् । स पुनरमत्सरी ज्ञाता
20 च विरलैः³ । तदुक्तम्—
“कस्त्वं भोः कविरस्मि काव्यभिनवा सूक्तिः सखे पठ्यतां
त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रूयताम् ।
यः सम्यग्विभिनक्ति दोषगुणयोः सारं स्वयं सत्कविः
सोऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरः ॥”
25 तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकः । तदुक्तम्—
“शब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः
सान्द्रं लेढि रसामृतं⁴ विचिनुते तात्पर्यमुद्रां च यः ।
१ A reads न after हि. २ A omits न. ३ A विरलं. ४ A रसोदयं.
कविरहस्ये चतुर्थोऽध्यायः । १५
पुण्यैः सङ्घटते विवक्तृविरहादन्तर्मुखं ताम्यतां
केषामेव कदाचिदेव(ष) सुधियां काव्यश्रमज्ञो जनः ॥
स्वामी मित्रं च मन्त्री च शिष्यश्चाचार्य एव च ।
कवेर्भवति ही चित्रं किं हि तद्यन्न भावकः ॥
काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्तिना ।
नीयन्ते भावकैर्यस्य न निबन्धा दिशो दश ॥
सन्ति पुस्तकविन्यस्ताः काव्यबन्धा गृहे गृहे ।
द्वित्रास्तु भावकमनःशिलापट्टनिकुट्टिताः ॥
सत्काव्ये विक्रियाः काश्चिद्भावकस्योल्लसन्ति ताः ।
सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा न याः ॥
वाग्भावको भवेत्कश्चित्कश्चिद्बुद्ध्यभावकः ।
सात्त्विकैराङ्गिकैः कश्चिदनुभावैश्च भावकः ॥
गुणादानपरः कश्चिद्दोषहानपरोऽपरः ।
गुणदोषाहृतित्यागपरः कश्चन भावकः ॥
अभियोगे समानेऽपि विचित्रो यदयं क्रमः ।
तेन विद्मः प्रसादोऽत्र नृणां हेतुरमानुषः ॥
न निसर्गकविः शास्त्रे न क्षुण्णः कवते च यः ।
विडम्बयति सात्मानमाग्रहग्रहिलः किल ॥
कवित्वं न स्थितं यस्य काव्ये च कृतकौतुकः ।
तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ॥
प(य)दाऽन्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः ।
तदा स सिद्धो मन्तव्यः कुकविः कविरेव वा ॥”
कारयित्रीभावयित्र्यावितीमे प्रतिभाभिदे ।
अथातः कथयिष्यामो व्युत्पत्तिं काव्यमातरम् ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे चतुर्थोऽध्यायः
पदवाक्यविवेकः । काव्यविशेषेषु कारयित्रीभावयित्री नाम समीक्षा ॥
१ BC दोषादान०. २ A गुणदोषा हृदि. ३ A सोत्मानं. ४ C शिष्यविशेषेषु.
१६ काव्यमीमांसायाम्
पञ्चमोऽध्यायः काव्यपाककल्पः ।
“बहुज्ञता व्युत्पत्तिः” इत्याचार्याः । सर्वतोदिक्का हि कविवचः ।
तदुक्तम्— “प्रसरति किमपि कथञ्चन नाभ्यस्ते गोचरे वचः कस्य ।
इदमेव तत्कवित्वं यद्वाचः सर्वतोदिक्काः ॥”
“उचितानुचितविवेको व्युत्पत्तिः” इति यायावरीयः । “प्रति-
भाव्युत्पत्त्योः प्रतिभा श्रेयसी” इत्यानन्दः । सा हि कवेरव्युत्प-
त्तिकृतं दोषमशेषमाच्छादयति । तदाह—
“अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः ।
यस्त्वशक्तिकृतस्तस्य झगित्येवावभासते ॥”
शक्तिशब्दश्चायमुपचरितः प्रतिभाने वर्तते ।
“एतत्किं शिरसि स्थितं मम पितुः खण्डं सुधाजन्मनो
लालाटं किमिदं विलोचनमिदं हस्तेऽस्य किं पन्नगाः ।
इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः
प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ॥”
“व्युत्पत्तिः श्रेयसी” इति मङ्गलः । सा हि कवेरशक्तिकृतं
दोषमशेषमाच्छादयति । तथा हि—
“कवेः संव्रियतेऽशक्तिर्व्युत्पत्त्या काव्यवर्त्मनि ।
वैदग्धीचित्त(त्र)चित्तानां हेया शब्दार्थगुम्फना ॥”
व्युत्पत्तिर्यथा— “कृतः कण्ठे निष्को नहि किमुत तन्वी मणिलता
कृशं लीलापत्रं श्रवसि निहितं कुण्डलमुचि ।
न कौशेयं चित्रं वसनमवदातं तु वसितं
समासन्नीभूते निधुवनविलासे वनितया ॥”
“प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ” इति यायावरीयः ।
न खलु लावण्यलाभादृते रूपसम्पत् । ऋते रूपसम्पदो १वा लावण्यल-
ब्धिर्महते सौन्दर्याय । उभययोगो यथा—
१ B omits वा.
कविरहस्ये पञ्चमोऽध्यायः । १७
“जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्तुर्नृत्यानुकारे जयति निजतनूस्वच्छलावण्यवापी-
सम्भूताम्भोजशोभां विदधदभिनवां दण्डपादो भवान्याः॥”
प्रतिभाव्युत्पत्तिमांश्च कविः कविरित्युच्यते । स च त्रिधा ।
शास्त्रकविः काव्यकविरुभयकविश्च । “तेषामुत्तरोत्तरीयो(रो) गरी-
यान्” इति श्यामदेवः । “न” इति यायावरीयः । यथा स्वविषये
सर्वो गरीयान् । नहि राजहंसश्चन्द्रिकापानाय प्रभवति, नापि चको-
रोऽङ्ग्यः क्षीरोद्धरणाय । यच्छास्त्रकविः काव्ये रससम्पदं विच्छि-
नत्ति । यत्काव्यकविः शास्त्रे तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथ-
यति । उभयकविस्तूभयोरपि वरीयान्यद्युभयत्र परं प्रवीणः स्यात् ।
तस्मात्तुल्यप्रभावावेव शास्त्रकाव्यकवी । उपकार्योपकारकभावं तु
मिथः शास्त्रकाव्यकव्योरनुमन्यामहे । यच्छास्त्रसंस्कारः काव्यमनु-
गृह्णाति शास्त्रैकप्रवणता तु निगृह्णाति । काव्यसंस्कारोऽपि शास्त्र-
वाक्यपाकमनुरुणद्धि काव्यैकप्रवणता तु विरुणद्धि । तत्र त्रिधा
शास्त्रकविः । यः शास्त्रं विधत्ते, यश्च शास्त्रे काव्यं संविधत्ते, योऽपि
काव्ये शास्त्रार्थं निधत्ते । काव्यकविः पुनरष्टधा । तद्यथा रचना-
कविः, शब्दकविः, अर्थकविः, अलङ्कारकविः, उक्तिकविः, रसकविः,
मार्गकविः, शास्त्रार्थकविरिति । तत्र रचनाकविः—
“लोल्लाङ्गूलवलीवलयितबकुलानोकहस्कन्धगोल्लै-
र्गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु ।
खण्डेषूदण्डपिण्डीतगरतरलकाः प्रापिरे येन वेला-
मालङ्घ्योत्तालतल्लस्फुटितपुटकितीबन्धवो गन्धवाहाः ॥”
त्रिधा च शब्दकविर्नामाख्यातार्थभेदेन । तत्र नामकविः—
“विद्येव पुंसो महिमेव राज्ञः
प्रज्ञेव वैद्यस्य दयेव साधोः ।
१ B विदधदभिनयाह. २ B तान.
३
लज्जेव शूरस्य मृजेव यूनो
विभूषणं तस्य नृपस्य सैव ॥”
आख्यातकविर्यथा—"उच्चैस्तरां जहसुराजहृषुर्जगर्ज्रु-
राजग्मिरे भुजतटीनिकरैः स्फुरद्भिः ।
सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च
वाचं गुरोरमृतसम्भवलाभगर्भा॒म् ॥”
नामाख्यातकविः—"हतत्विषोऽन्धाः शिथिलांसबाहवः
श्रि(स्त्रि)यो विषादेन विचेतना इव ।
न चुक्रुशुर्नो रुरुदुर्न सस्वनु-
र्न चेलुरासुर्लिखिता इव क्षणम् ॥”
अर्थकविः—"देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युन्भुजे
हर्षाच्छृङ्गिरिटावुदाहृतगिरा चामुण्डयाऽऽलिङ्गिते ।
पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयो-
रन्योन्याङ्गनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः ॥”
द्विधाऽलङ्कारकविः शब्दार्थभेदेन । तयोः शब्दालङ्कारः—
"न प्राप्तं विषमरणं प्राप्तमपापेन कर्मणा विषमरणम् ।
न मृतो भागीरथ्यां मृतोऽहमुपगृह्य मन्दभागी रथ्याम् ॥”
अर्थालङ्कारः—"भ्रान्तजिह्वापताकस्य फणच्छत्रस्य वासुकेः ।
दंष्ट्राशलाकादारिद्र्यं कर्तुं योग्योऽस्ति मे भुजः ॥”
उक्तिकविः—"उदरमिद़मनिन्द्यं मानिनीश्वासलैाव्यं
स्तनतटपरिणाहो दोर्लतालेह्यसीमा ।
स्फुरति च वदनेन्दुर्दृक्प्रणालीनिपेय-
स्तदिह सुदृशि कल्याः केलयो यौवनस्य ॥”
यथा वा—"प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः
कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् ।
१ C जहसुरुजहृषु. २ C भुजतढानि करैः. ३ A रन्योन्याङ्क. ४ BC प्राप्तं पापेन कर्मणा विषमरणं च. ५ B लभ्यं.
कविरहस्ये पञ्चमोऽध्यायः । १९
परिम्लानप्रायामनुवदति दृष्टिः कमलिनी-
मितीयं माधुर्यं स्पृशति च तनुत्वं च भजते ॥”
रसकविः—"एतां विलोकय तनूदरि ताम्रपर्णी-
मम्भोनिधौ विवृतशुक्तिपुटोद्गतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्या
वामभ्रुवां परिणमन्ति पयोधरेषु ॥”
मार्गकविः—"मूलं बालकवीरुधां सुरभयो जातीतरूणां त्वचः
सारश्चन्दनशाखिनां किसलयान्यर्दाण्यशोकस्य च ।
शैरीषी कुसुमोद्गतिः परिणमन्मोचं च सोऽयं गणः
ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चेषवे ॥”
शास्त्रार्थकविः—"आत्माराम्रा विहितरतयो निर्विकल्पे समाधौ
ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते
शसमकालं कवते स आवेशिकः। यो यदैवेच्छति तदैवाविच्छिन्न-
वचनः सोऽविच्छेदी। यः कन्याकुमारादिषु सिद्धमन्त्रः सरस्वतीं
सङ्क्रामयति स सङ्क्रामयिता।
सततमभ्यासवशतः सुकवेः वाक्यं पाकमायाति। “कः पुनरयं
पाकः?” इत्याचार्याः। “परिणामः” इति मङ्गलः। “कः पुनरयं प-
रिणामः?” इत्याचार्याः। “सुपां तिङां च श्रवः यैषा व्युत्पत्तिः”
इति मङ्गलः। “सौशब्द्यमेतत्। पदनिवेशनिष्कम्पता पाकः”
इत्याचार्याः। तदाहुः—
“आवापोद्धरणे तावद्यावद्दोलायते मनः।
पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती॥”
“आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्ति-
वैमुख्यं पाकः” इति वामनीयाः। तदाहुः—
“यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम्।
तं शब्दन्याय(स)निष्णाताः शब्दपाकं प्रचक्षते॥”
“इयमशक्तिर्न पुनः पाकः” इत्यवन्तिसुन्दरी। यदेकस्मिन्वस्तुनि
महाकवीनामनेकोऽपि पाठः परिपाकवान्भवति। तस्माद्रसोचित-
शब्दार्थसूक्तिनिबन्धनः(नं) पाकः। यदाह—
“गुणालङ्काररीतियुक्तिशब्दार्थग्रथनक्रमः।
स्वदते सुधियां येन वाक्यपाकः स मां प्रति॥”
तदुक्तम्— “सति वक्तरि सत्यर्थे शब्दे सति रसे सति।
अस्ति तन्न विना येन परिस्रवति वाङ्मधु॥”
“कार्यानुमेयत्तया यत्तच्छब्दनिवेद्यः परं पाकोऽभिधाविषयः। त-
त्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौ” इति यायावरीयः।
स च कविग्रामस्य काव्यमभ्यस्यतो नवधा भवति। तत्राद्यन्तयो-
रस्वादु पिचूमन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्,
आदावस्वादु परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चा-
स्वादु वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ
१ A सिद्धिमन्त्रः. २ B संक्रमयति. ३ B संक्रमयिता. ४ BC श्रवः सैषा.
५ B अवापो०. ६ B च.
कविरहस्ये षष्ठोऽध्यायः । २१
मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुक-
पाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु
नालिकेरपाकमिति । तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः ।
वरमकविर्न पुनः कुकविः स्यात् । कुकविता हि सोच्छ्वासं मरणम् ।
मध्यमाः संस्कार्याः । संस्कारो हि सर्वस्य गुणमुत्कर्षति । द्वादशव- ५
र्णमपि सुवर्णं पावकपाकेन हेमीभवति । शेषा ग्राह्याः । स्वभावशुद्धं
हि न संस्कारमपेक्षते । न मुक्तामणेः शाणस्तारतायै प्रभवति । अन-
वस्थितपाकं पुनः कपित्थपाकमामनन्ति । तत्र पलालधूननेन अन्न-
कणलाभवत्सुभाषितलाभः ।
सम्यगभ्यस्यतः काव्यं नवधा परिपच्यते । १०
हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् ॥
अयमत्रैव शिष्याणां दर्शितस्त्रिविधो विधिः ।
किन्तु वि(त्रि)विधमप्येतत्त्रिंजगलस्य(?) वर्त्तते ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
शिष्यविशेषेषु काव्यपाककल्पः पञ्चमोऽध्यायः ॥ १५
षष्ठोऽध्यायः पदवाक्यविवेकः ।
व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टः। तद-
भिधेयोऽर्थः। तौ पदम्। तस्य पञ्च वृत्तयः-सुब्वृत्तिः, समासवृत्तिः,
तद्धितवृत्तिः कृद्वृत्तिः, तिङ्वृत्तिश्च । गौरश्वः पुरुषो हस्तीति जाति-
वाचिनः शब्दाः । हरो हरिर्हिरण्यगर्भः काल आकाशं दिगिति २०
द्रव्यवाचिनः । श्वेत्तः कृष्णो रक्तः पीत इति च गुणवाचिनः । प्राद्-
यश्चादयश्चासत्त्ववचनाः । नगरमुप प्रस्थितः पन्थाः, वृक्षमन्व द्योतते
विद्युदिति कर्मप्रवचनीयाः । “सेयं सुब्वृत्तिः पञ्चतथ्यपि वाङ्मयस्य
माता” इति विद्वांसः । सुब्वृत्तिरेव समासवृत्तिः । व्याससमासा-
१ B हारो. २ B त्रिभ्य···वर्त्तते. ३ B निर्घण्टादिभिः.
२२ काव्यमीमांसायाम्
वेवानयोर्भेदहेतुः। सा च षोढा द्वन्द्वादिभेदेन। तत्र षट्समासीस-
माससूक्तम्—
“द्वन्द्वोऽस्मि द्विगुरस्मि च गृहे न मे सतत॒मव्ययीभावः।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥”
[5] तद्धितवृत्तिः पुनरनन्ता। तद्धि शास्त्रप्रायोवादो यदुत तद्धितमूढाः
पाणिनीयाः[इति]। माञ्जिष्ठं रौचनिकं सौरं सैन्धवं वैयासीयमिति
तद्धितान्ताः। प्रातिपदिकविषया चेयम्। कृद्वृत्तिश्च धातुविषया।
कर्ता हर्ता कुम्भकारो नगरकार इति कृदन्ताः। तिङ्वृत्तिर्दशधा
दशलकारीभेदेन। द्विधा च सा धातुसौधातुविषयत्वेन। अपाक्षीत्
[10] पचति पक्ष्यतीति धातवीयान्याख्यातानि। अपल्लवयत् पल्लवयति
पल्लवयिष्यतीति सौधातवीयानि।
तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्वीयमानमा-
नन्त्याय कल्पते। तज्जन्मा चैष¹ विदुषां वादो यत्किल दिव्यं समा-
सहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता² तथापि नान्तः शब्दराशेरा-
[15] सीत्[इति]। तत्र दयितसुब्वृत्तयो विदर्भाः। वल्लभसमासगतयो³
गौडाः। प्रियतद्धिता दाक्षिणात्याः। कृतप्रयोगरुचय उदीच्याः।
अभीष्टतिङ्वृत्तयः सर्वेऽपि सन्तः। तेषां च विशेषलक्षणानुसन्धा-
नेनावर्द्धताख्यातगणः। उक्तञ्च—
“विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये।
[20] आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते॥”
पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम्। “तस्य च
त्रिधाऽभिधाव्यापारः” इत्यौद्भटाः। वैभक्तः शाक्तः शक्तिविभक्ति-
मयश्च। प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा
वैभक्तः। लुप्तास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ
[25] शाक्तः। उभयात्मा च शक्तिविभक्तिमयः। तत्र वैभक्तः—
“नमस्तस्मै वराहाय लीलयोद्धरते महीम्।
खुरयोर्मध्यगो यस्य मेरुः खणखणायते॥”
१ A च. २ A adds च. ३ B वृत्तयो.
कविरहस्ये षष्ठोऽध्यायः । २३
शाक्तः—"विभ्रस्तशत्रुः स्पृहयालुलोकः
प्रपन्नसामन्त उदग्रसत्त्वः ।
अस्ति क्षितीशस्तृणतोऽप्यपश्य-
।"वृत्ते-
रेकमेवेदं वाक्यम्" इति यायावरीयः ।
१ B शक्तः. २ C हरिभीत्याश्रिताः शेष०. ३ C मेघसि.
कविरहस्ये षष्ठोऽध्यायः । २३
शाक्तः — "विभ्रस्तशत्रुः स्पृहयालुलोकः
प्रपन्नसामन्त उदग्रसत्त्वः ।
अधिष्ठितौदार्यगुणोऽसिपत्र-
जितावनिर्नास्ति नृपस्त्वदन्यः ॥
यथा वा — "कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः ।
हेरम्भीत्याश्रिताशेषकालियाहिकुला इव ॥"
शक्तिविभक्तिमयः — "अथागादेकदा स्पष्टचतुराशामुखद्युतिः ।
तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः ॥"
तत्र वाक्यं दशधा। एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्या-
तम्, एकाभिधेयाख्यातम्, परिणताख्यातम्, अनुवृत्ताख्यातम्,
समुच्चिताख्यातम्, अध्याहृताख्यातम्, कृदभिहिताख्यातम्, अनपे-
क्षिताख्यातमिति ।
तत्रैकाख्यातम् — "जयत्येकपदाक्रान्तसमस्तभुवनत्रयः ।
द्वितीयपदविन्यासव्याकुलाभिनयः शिवः ॥"
अनेकाख्यातम् । तच्च द्विधा सान्तरं निरन्तरम् [इति]। तयोः
प्रथमम् —
"देवासुरास्तमथ मन्थगिरां विरामे
पद्मासनं जय जयेति बभाषिरे च ।
द्राग्भेजिरे च परितो बहु मेनिरे च
स्वाग्रेसरं विदधिरे च ववन्दिरे च ॥"
द्वितीयम् — "त्वं पासि हंसि तनुषे मनुषे बिभर्षि
विभ्राजसे सृजसि संहरसे विरौषि ।
आस्से निरस्यसि सरस्यसि रासि लासि
सङ्क्रीडसे त्रुडसि मेध्यसि मोदसे च ॥"
"आख्यातपरतन्त्रा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि"
इत्याचार्याः । "एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्ते-
रेकमेवेदं वाक्यम्" इति यायावरीयः ।
१ B शक्तः. २ C हरिभीत्याश्रिताः शेष०. ३ C मेधसि.
२४ काव्यमीमांसायाम्
आवृत्ताख्यातम्—"जयत्यमलकौस्तुभस्तबकितांसपीठो हरि-
र्जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमाः ।
ततो जयति मल्लिका तदनु सर्वसंवेदना-
विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः ॥”
एकाभिधेयाख्यातम्—
"हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति ।
इह हि मधौ कलकूजिषु पिकेषु च प्रीयते रागी ॥”
परिणताख्यातम्—"सोऽस्मिन्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः ।
ते च चैत्रे विचित्रैलाकक्कोलीकेलयोऽनिलाः ॥”
अनुवृत्ताख्यातम्—"चरन्ति चतुरम्भोधिहेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥”
समुचिताख्यातम्—"परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् ।
मनो गन्त्रीव कुपथे चीत्करोति च याति च ॥”
यथा च—"स देवः सा दंष्ट्रा कृतकिटिविलासस्मितसिता
द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति(तु) च ।
उद्वच्छद्भिर्भूयस्तरलनिवेशा वसुमती
यदग्रे यच्छासैर्गिरिगुरुकलीलामुद्वहत् ॥”
अध्याहृताख्यातम्—"दोर्दण्डताण्डवभ्रष्टमुडुषण्डं बिभर्ति यः ।
व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः॥”
कृदभिहिताख्यातम्—"अभिमुखे मयि संहृतमीक्षितं
हसितमन्यनिमित्तकथो(कृतो)दयम् ।
विनयबाधितवृत्तिरतस्तया
न विवृतो मदनो न च संवृतः ॥”
अनपेक्षिताख्यातम्—"कियन्मात्रं जलं विप्र ? जानुदघ्नं नराधिप ।
तथापीयमवस्था ते न सर्वत्र भवादृशाः ॥”
गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् । "असत्यार्थाभिधायित्वा-
न्नोपदेष्टव्यं काव्यम्” इत्येके । यथा—
कवि रहस्ये षष्ठोऽध्यायः । २५
“स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिः
मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं कोऽयमीदृक्प्रकारः ।
इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः
स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः ॥”
यथा च—
“भ्रश्यद्भूभृद्भोगीश्वरफणपवनाध्मातपातालतालुः(मूलः)
त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः ।
उद्यन्नीरन्ध्रधूलीविधुरसुरवधूमूच्यमानोपशल्यः¹
कल्पोद्योगस्य यस्य त्रिभुवनदमनैः² सैन्यसम्मर्द आसीत् ॥”
आहुश्च—“दृष्टं किंचिददृष्टमन्यदपरं वाचालवार्त्तार्पितं
भूयस्तुण्ड(ङ्ग)पुराणतः परिणतं किञ्चिच्च शास्त्रश्रुतम् ।
सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं
रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः ॥”
“न” इति यायावरीयः ।
“नासत्यं नाम किश्चन काव्ये यस्तु स्तुत्येष्वर्थवादः³ (?) ।
स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च⁴ ॥”
तत्र श्रौतः—“पुष्पिण्यौ⁵ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः ।
शेरेऽस्य सर्व्वे⁶ पाप्मानः श्रमेण प्रपथे हताः ॥”
शास्त्रीयः—“आपः पवित्रं प्रथमं पृथिव्या-
मपां पवित्रं परमं च मन्त्राः ।
तेषां च सामर्ग्यजुषां पवित्रं
महर्षयो व्याकरणं निराहुः ॥”
किञ्च—“यस्तु प्रयुङ्क्ते कुशलो विशेषे⁷ शब्दान्यथावद्व्यवहारकाले ।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः ॥
१ A explains as उपकण्ठः. २ A ०दसनः. ३ B स्तुत्यर्थवादः. ४ B श्रुतौ शास्त्रे लोके च. ५ A पुष्पिन्वौ. ६ B सर्व्वपाप्मानः. ७ B पैः.
४
“कः ? । वाग्योगविदेव । कुत एतत् ? । यो हि शब्दाज्ञानादपश-
ब्दानप्यसौ जानाति । यथैव हि शब्दज्ञाने धर्म एवमपशब्दज्ञानेऽप्य-
धर्मः । अथवा भूयानधर्मः प्राप्नोति । भूयांसो ह्यपशब्दा अल्पीयांसः
शब्दाः । एकैकस्य हि शब्दस्य बहवोऽपभ्रंशाः । तद्यथा गौरि-
त्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः ।
अथ योऽवाग्योगवित् अज्ञानं तस्य शरणम् । नात्यन्तायाज्ञानं
शरणं भवितुमर्हति । यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबे-
त्सोऽपि, मन्ये पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति जयं
परत्र वाग्योगविद्दुष्यति चापशब्दैः । कः ? । अवाग्योगविदेव । अथ
यो वाग्योगवित् विज्ञानं तस्य शरणम् । क पुनरिदं पठितम् ? ।
भ्राजा नाम श्लोकाः । किञ्च भोः श्लोका अपि प्रमाणम् ? । किञ्चातः ? ।
यदि प्रमाणमयपि श्लोकः प्रमाणं भवितुमर्हति—
‘यद्यु(दु)दुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् ॥’ इति ।
प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव” इति
गोनर्दीयः ।
लौकिकः—‘‘गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्द्रकुङ्कुमम् ॥’’
“असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्” इत्यपरे। यथा एवं—
“वयं बाल्ये डिम्भास्तरुणिमनि यूनः परिणता-
वपीच्छामो वृद्धानपरिणयविधेस्तु स्थितिरियम् ।
त्वयाऽऽरब्धं जन्म क्षपयितुममार्गेण किमिदं
न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत् ॥”
“अस्त्ययमुपदेशः । किन्तु निषेध्यत्वेन न विधेयत्वेन” इति याया-
वरीयाः । य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबु-
१ C दुष्यति अपशब्दैः कः ? । B कः । अवाग्योगवित् । अथ वाग्योगवित् १ ज्ञानं तस्य
शरणम् । नात्यन्ताय ज्ञानं भवितुमर्हति । योऽह्यजानन् ब्राह्मणं हन्यात् सुरां वा पिबेत् सोऽपि मन्ये
पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति । किञ्चातः । यतः यदि प्रमाणमयपि श्लोकः प्रमाणं
भवितुमर्हति । क पुनरिदं पठितमित्याचार्याः । भ्रान्ता नाम श्लोकास्तेष्विति गोनर्दीयः । किञ्च भोः
श्लोक एव प्रमाणम् । तदनेनापि प्रमाणेन भवितव्यमित्याचार्याः “यद्युदुम्बरवर्णानां घटीनां मण्डलं
महत् । पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्” प्रमत्तगीतमेतद्भगवतो यस्त्वप्रमत्तगीतं तत्प्रमाण-
मेवेति गोनर्दीयः ॥
कविरहस्ये षष्ठोऽध्यायः । २७
ध्येतेति कवीनां भावः । किञ्च “कविवचनायत्ता लोकयात्रा । सा
च निःश्रेयसमूलम्” इति महर्षयः । यदाहुः—
“काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि ।
तावत्सारस्वतं स्थानं कविरासाद्य मोदते ॥”
किञ्च—“श्रीमन्ति राज्ञां चरितानि यानि
प्रभुत्वलीलाश्च सुधाशिनां याः ।
ये च प्रभावास्तपसामृषीणां
ताः सत्कविभ्यः श्रुतयः प्रसूताः ॥”
उक्तञ्च—“ख्याता नराधिपतयः कविसंश्रयेण
राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।
राज्ञा समोऽस्ति न कवेः परमोपकारी
राज्ञो न चास्ति कविना सदृशः सहायः ॥
वल्मीकजन्मा स कविः पुराणः
कवीश्वरः सत्यवतीसुतश्च ।
यस्य प्रणेता तदिहानवद्यं
सारस्वतं वर्त्म न कस्य वन्द्यम् ? ॥”
“असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्” इति च केचित् ।
यथा—
“प्रसर्पन्प्रग्रीवैर्भृतभुवनकुक्षिर्झणझणा-
करालः प्रागल्भ्यं वदति तरुणीनां प्रणयिषु ।
विलासव्यत्यासाज्जघनफलकास्फालनघन-
स्फुटच्छेदोत्सक्तः कलकनककाञ्चीकलकलः ॥”
अपि च—“नित्यं त्वयि प्रचुरचित्रकपत्रभङ्गी-
ताटङ्कताडनविपाण्डुरगण्डलेखाः ।
स्विद्यन्तु रत्नरशनारणनाभिराम-
कामार्तिनर्तितनितम्बतटास्तरुण्यः ॥”
“प्रक्रमापन्नो निबन्धनीय एवायमर्थः” इति यायावरीयः । तदिदं
श्रुतौ शास्त्रे चोपलभ्यते । तत्र याजुषः—
१ A तंक्ति.