काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 76, कुल 381 में से
संदर्भ में पढ़ें२२ काव्यमीमांसायाम्
वेवानयोर्भेदहेतुः। सा च षोढा द्वन्द्वादिभेदेन। तत्र षट्समासीस-
माससूक्तम्—
“द्वन्द्वोऽस्मि द्विगुरस्मि च गृहे न मे सतत॒मव्ययीभावः।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥”
[5] तद्धितवृत्तिः पुनरनन्ता। तद्धि शास्त्रप्रायोवादो यदुत तद्धितमूढाः
पाणिनीयाः[इति]। माञ्जिष्ठं रौचनिकं सौरं सैन्धवं वैयासीयमिति
तद्धितान्ताः। प्रातिपदिकविषया चेयम्। कृद्वृत्तिश्च धातुविषया।
कर्ता हर्ता कुम्भकारो नगरकार इति कृदन्ताः। तिङ्वृत्तिर्दशधा
दशलकारीभेदेन। द्विधा च सा धातुसौधातुविषयत्वेन। अपाक्षीत्
[10] पचति पक्ष्यतीति धातवीयान्याख्यातानि। अपल्लवयत् पल्लवयति
पल्लवयिष्यतीति सौधातवीयानि।
तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्वीयमानमा-
नन्त्याय कल्पते। तज्जन्मा चैष¹ विदुषां वादो यत्किल दिव्यं समा-
सहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता² तथापि नान्तः शब्दराशेरा-
[15] सीत्[इति]। तत्र दयितसुब्वृत्तयो विदर्भाः। वल्लभसमासगतयो³
गौडाः। प्रियतद्धिता दाक्षिणात्याः। कृतप्रयोगरुचय उदीच्याः।
अभीष्टतिङ्वृत्तयः सर्वेऽपि सन्तः। तेषां च विशेषलक्षणानुसन्धा-
नेनावर्द्धताख्यातगणः। उक्तञ्च—
“विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये।
[20] आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते॥”
पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम्। “तस्य च
त्रिधाऽभिधाव्यापारः” इत्यौद्भटाः। वैभक्तः शाक्तः शक्तिविभक्ति-
मयश्च। प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा
वैभक्तः। लुप्तास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ
[25] शाक्तः। उभयात्मा च शक्तिविभक्तिमयः। तत्र वैभक्तः—
“नमस्तस्मै वराहाय लीलयोद्धरते महीम्।
खुरयोर्मध्यगो यस्य मेरुः खणखणायते॥”
१ A च. २ A adds च. ३ B वृत्तयो.