सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 78, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 78

कविरहस्ये षष्ठोऽध्यायः । २३
शाक्तः — "विभ्रस्तशत्रुः स्पृहयालुलोकः
प्रपन्नसामन्त उदग्रसत्त्वः ।
अधिष्ठितौदार्यगुणोऽसिपत्र-
जितावनिर्नास्ति नृपस्त्वदन्यः ॥
यथा वा — "कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः ।
हेरम्भीत्याश्रिताशेषकालियाहिकुला इव ॥"
शक्तिविभक्तिमयः — "अथागादेकदा स्पष्टचतुराशामुखद्युतिः ।
तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः ॥"
तत्र वाक्यं दशधा। एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्या-
तम्, एकाभिधेयाख्यातम्, परिणताख्यातम्, अनुवृत्ताख्यातम्,
समुच्चिताख्यातम्, अध्याहृताख्यातम्, कृदभिहिताख्यातम्, अनपे-
क्षिताख्यातमिति ।
तत्रैकाख्यातम् — "जयत्येकपदाक्रान्तसमस्तभुवनत्रयः ।
द्वितीयपदविन्यासव्याकुलाभिनयः शिवः ॥"
अनेकाख्यातम् । तच्च द्विधा सान्तरं निरन्तरम् [इति]। तयोः
प्रथमम् —
"देवासुरास्तमथ मन्थगिरां विरामे
पद्मासनं जय जयेति बभाषिरे च ।
द्राग्भेजिरे च परितो बहु मेनिरे च
स्वाग्रेसरं विदधिरे च ववन्दिरे च ॥"
द्वितीयम् — "त्वं पासि हंसि तनुषे मनुषे बिभर्षि
विभ्राजसे सृजसि संहरसे विरौषि ।
आस्से निरस्यसि सरस्यसि रासि लासि
सङ्क्रीडसे त्रुडसि मेध्यसि मोदसे च ॥"
"आख्यातपरतन्त्रा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि"
इत्याचार्याः । "एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्ते-
रेकमेवेदं वाक्यम्" इति यायावरीयः ।
१ B शक्तः. २ C हरिभीत्याश्रिताः शेष०. ३ C मेधसि.