काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 81, कुल 381 में से
संदर्भ में पढ़ें“कः ? । वाग्योगविदेव । कुत एतत् ? । यो हि शब्दाज्ञानादपश-
ब्दानप्यसौ जानाति । यथैव हि शब्दज्ञाने धर्म एवमपशब्दज्ञानेऽप्य-
धर्मः । अथवा भूयानधर्मः प्राप्नोति । भूयांसो ह्यपशब्दा अल्पीयांसः
शब्दाः । एकैकस्य हि शब्दस्य बहवोऽपभ्रंशाः । तद्यथा गौरि-
त्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः ।
अथ योऽवाग्योगवित् अज्ञानं तस्य शरणम् । नात्यन्तायाज्ञानं
शरणं भवितुमर्हति । यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबे-
त्सोऽपि, मन्ये पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति जयं
परत्र वाग्योगविद्दुष्यति चापशब्दैः । कः ? । अवाग्योगविदेव । अथ
यो वाग्योगवित् विज्ञानं तस्य शरणम् । क पुनरिदं पठितम् ? ।
भ्राजा नाम श्लोकाः । किञ्च भोः श्लोका अपि प्रमाणम् ? । किञ्चातः ? ।
यदि प्रमाणमयपि श्लोकः प्रमाणं भवितुमर्हति—
‘यद्यु(दु)दुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् ॥’ इति ।
प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव” इति
गोनर्दीयः ।
लौकिकः—‘‘गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्द्रकुङ्कुमम् ॥’’
“असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्” इत्यपरे। यथा एवं—
“वयं बाल्ये डिम्भास्तरुणिमनि यूनः परिणता-
वपीच्छामो वृद्धानपरिणयविधेस्तु स्थितिरियम् ।
त्वयाऽऽरब्धं जन्म क्षपयितुममार्गेण किमिदं
न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत् ॥”
“अस्त्ययमुपदेशः । किन्तु निषेध्यत्वेन न विधेयत्वेन” इति याया-
वरीयाः । य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबु-
१ C दुष्यति अपशब्दैः कः ? । B कः । अवाग्योगवित् । अथ वाग्योगवित् १ ज्ञानं तस्य
शरणम् । नात्यन्ताय ज्ञानं भवितुमर्हति । योऽह्यजानन् ब्राह्मणं हन्यात् सुरां वा पिबेत् सोऽपि मन्ये
पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति । किञ्चातः । यतः यदि प्रमाणमयपि श्लोकः प्रमाणं
भवितुमर्हति । क पुनरिदं पठितमित्याचार्याः । भ्रान्ता नाम श्लोकास्तेष्विति गोनर्दीयः । किञ्च भोः
श्लोक एव प्रमाणम् । तदनेनापि प्रमाणेन भवितव्यमित्याचार्याः “यद्युदुम्बरवर्णानां घटीनां मण्डलं
महत् । पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्” प्रमत्तगीतमेतद्भगवतो यस्त्वप्रमत्तगीतं तत्प्रमाण-
मेवेति गोनर्दीयः ॥