सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 68, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 68

१४ काव्यमीमांसायाम्
“न” इति कालिदासः । पृथगेव हि कवित्वाद्भावकत्वं, भाव-
कत्वाच्च कवित्वम् । स्वरूपभेदाद्विषयभेदाच्च । यदाहुः—
“कश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां
कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति ।
5 नह्येकस्मिन्नतिशयवतां सन्निपातो गुणाना-
मेकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥”
“ते च द्विधा । अरोचकिनः, सतृणाभ्यवहारिणश्च” इति मङ्गलः।
“कवयोऽपि भवन्ति” इति वामनीयाः । “चतुर्द्धा” इति याया-
वरीयाः “मत्सरिणस्तत्त्वाभिनिवेशिनश्च” । “तत्र विवेकिनः पूर्वे
10 तद्विपरीतास्तु ततोऽनन्तराः” इति वामनीयाः । “अरोचकिता हि
तेषां नैसर्गिकी ज्ञानयोनिर्वा । नैसर्गिकीं हि¹ संस्कारशतेनापि
वङ्गमिव कालिकां ते न² जहति । ज्ञानयोनौ तु तस्यां विशिष्टज्ञे-
यवति वचसि रोचकितावृत्तिरेव” इति यायावरीयः । किञ्च सतृ-
णाभ्यवहारिता सर्वसाधारणी । तथाहि व्युत्पित्सोः कौतुकिनः
15 सर्वस्य सर्वत्र प्रथमं सा । प्रतिभाविवेकविकलता हि न गुणागुण-
योर्विभागसूत्रं पातयति । ततो बहु त्यजति बहु च गृह्णाति । विवे-
कानुसारेण हि बुद्धयो मधु निष्पन्दन्ते । परिणामे तु यथार्थदर्शी
स्यात् । विभ्रमभ्रंशश्च निःश्रेयसं सन्निधत्ते । मत्सरिणस्तु प्रतिभा-
तमपि न प्रतिभानं, परगुणेषु वाचंयमत्वात् । स पुनरमत्सरी ज्ञाता
20 च विरलैः³ । तदुक्तम्—
“कस्त्वं भोः कविरस्मि काव्यभिनवा सूक्तिः सखे पठ्यतां
त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रूयताम् ।
यः सम्यग्विभिनक्ति दोषगुणयोः सारं स्वयं सत्कविः
सोऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरः ॥”
25 तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकः । तदुक्तम्—
“शब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः
सान्द्रं लेढि रसामृतं⁴ विचिनुते तात्पर्यमुद्रां च यः ।
१ A reads न after हि. २ A omits न. ३ A विरलं. ४ A रसोदयं.