काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 75, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये षष्ठोऽध्यायः । २१
मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुक-
पाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु
नालिकेरपाकमिति । तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः ।
वरमकविर्न पुनः कुकविः स्यात् । कुकविता हि सोच्छ्वासं मरणम् ।
मध्यमाः संस्कार्याः । संस्कारो हि सर्वस्य गुणमुत्कर्षति । द्वादशव- ५
र्णमपि सुवर्णं पावकपाकेन हेमीभवति । शेषा ग्राह्याः । स्वभावशुद्धं
हि न संस्कारमपेक्षते । न मुक्तामणेः शाणस्तारतायै प्रभवति । अन-
वस्थितपाकं पुनः कपित्थपाकमामनन्ति । तत्र पलालधूननेन अन्न-
कणलाभवत्सुभाषितलाभः ।
सम्यगभ्यस्यतः काव्यं नवधा परिपच्यते । १०
हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् ॥
अयमत्रैव शिष्याणां दर्शितस्त्रिविधो विधिः ।
किन्तु वि(त्रि)विधमप्येतत्त्रिंजगलस्य(?) वर्त्तते ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
शिष्यविशेषेषु काव्यपाककल्पः पञ्चमोऽध्यायः ॥ १५
षष्ठोऽध्यायः पदवाक्यविवेकः ।
व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टः। तद-
भिधेयोऽर्थः। तौ पदम्। तस्य पञ्च वृत्तयः-सुब्वृत्तिः, समासवृत्तिः,
तद्धितवृत्तिः कृद्वृत्तिः, तिङ्वृत्तिश्च । गौरश्वः पुरुषो हस्तीति जाति-
वाचिनः शब्दाः । हरो हरिर्हिरण्यगर्भः काल आकाशं दिगिति २०
द्रव्यवाचिनः । श्वेत्तः कृष्णो रक्तः पीत इति च गुणवाचिनः । प्राद्-
यश्चादयश्चासत्त्ववचनाः । नगरमुप प्रस्थितः पन्थाः, वृक्षमन्व द्योतते
विद्युदिति कर्मप्रवचनीयाः । “सेयं सुब्वृत्तिः पञ्चतथ्यपि वाङ्मयस्य
माता” इति विद्वांसः । सुब्वृत्तिरेव समासवृत्तिः । व्याससमासा-
१ B हारो. २ B त्रिभ्य···वर्त्तते. ३ B निर्घण्टादिभिः.