काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 74, कुल 381 में से
संदर्भ में पढ़ेंशसमकालं कवते स आवेशिकः। यो यदैवेच्छति तदैवाविच्छिन्न-
वचनः सोऽविच्छेदी। यः कन्याकुमारादिषु सिद्धमन्त्रः सरस्वतीं
सङ्क्रामयति स सङ्क्रामयिता।
सततमभ्यासवशतः सुकवेः वाक्यं पाकमायाति। “कः पुनरयं
पाकः?” इत्याचार्याः। “परिणामः” इति मङ्गलः। “कः पुनरयं प-
रिणामः?” इत्याचार्याः। “सुपां तिङां च श्रवः यैषा व्युत्पत्तिः”
इति मङ्गलः। “सौशब्द्यमेतत्। पदनिवेशनिष्कम्पता पाकः”
इत्याचार्याः। तदाहुः—
“आवापोद्धरणे तावद्यावद्दोलायते मनः।
पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती॥”
“आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्ति-
वैमुख्यं पाकः” इति वामनीयाः। तदाहुः—
“यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम्।
तं शब्दन्याय(स)निष्णाताः शब्दपाकं प्रचक्षते॥”
“इयमशक्तिर्न पुनः पाकः” इत्यवन्तिसुन्दरी। यदेकस्मिन्वस्तुनि
महाकवीनामनेकोऽपि पाठः परिपाकवान्भवति। तस्माद्रसोचित-
शब्दार्थसूक्तिनिबन्धनः(नं) पाकः। यदाह—
“गुणालङ्काररीतियुक्तिशब्दार्थग्रथनक्रमः।
स्वदते सुधियां येन वाक्यपाकः स मां प्रति॥”
तदुक्तम्— “सति वक्तरि सत्यर्थे शब्दे सति रसे सति।
अस्ति तन्न विना येन परिस्रवति वाङ्मधु॥”
“कार्यानुमेयत्तया यत्तच्छब्दनिवेद्यः परं पाकोऽभिधाविषयः। त-
त्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौ” इति यायावरीयः।
स च कविग्रामस्य काव्यमभ्यस्यतो नवधा भवति। तत्राद्यन्तयो-
रस्वादु पिचूमन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्,
आदावस्वादु परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चा-
स्वादु वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ
१ A सिद्धिमन्त्रः. २ B संक्रमयति. ३ B संक्रमयिता. ४ BC श्रवः सैषा.
५ B अवापो०. ६ B च.