काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 63, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये तृतीयोऽध्यायः । ९
ईषदसमासमीषदनुप्रासमुपचारगर्भञ्च जगाद सा पाञ्चाली रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
ततः सोऽवन्तीन्प्रत्युच्चचाल यत्रावन्तीवैदिशसुराष्ट्रमलवार्बुदभृ-
गुकच्छादयो जनपदाः । तत्राभियुञ्जाना तमौमेयतीति समानं पूर्वेण ।
सा प्रवृत्तिरावन्ती । पाञ्चालमध्यमादाक्षिणात्ययोरन्तरचारिणी हि
सा। अत एव सात्त्वतीकैशिक्यौ तत्र वृत्ती । तां ते मुनयोऽभितुष्टुवुः—
“पाञ्चालनेपथ्यविधिर्नराणां
स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः ।
यज्जल्पितं यच्चरितादिकं त-
दन्योन्यसंभिन्नमवन्तिदेशे ॥”
ततश्च स दक्षिणां दिशमाससाद यत्र मलयमेकलकुन्तलकेरल-
पालमञ्जरमहाराष्ट्रगङ्गकलिङ्गादयो जनपदाः । तत्राभियुञ्जाना
तमौमेयीति समानं पूर्वेण । सा दाक्षिणात्या प्रवृत्तिः । तां ते
मुनयोऽभितुष्टुवुः ।
“आमूलतो वलितकुन्तलचारुचूड-
श्चूर्णालकप्रचयलाञ्छितभालभागः ।
कक्षानिवेशनिबिडीकृतनीविरेष
वेषश्चिरं जयति केरलकामिनीनाम् ॥”
तामनुरक्तमनाः स यन्नेपथ्यः सारस्वतेय आसीदिति समानं
पूर्वेण । साऽपि यद्विचित्रनृत्तगीतवाद्यविलासादिकमाविर्भावया-
मास सा कैशिकी वृत्तिः । तां ते मुनय इति समानं पूर्वेण । यदत्यर्थं
च स तया वशंवदीकृतः स्थानानुप्रासवदसमासं योगवृत्तिगर्भं
च जगाद सा वैदर्भी रीतिः । तां ते मुनय इति समानं पूर्वेण ।
तत्र वेषविन्यासक्रमः प्रवृत्तिः, विलासक्रमो वृत्तिः, वचन-
विन्यासक्रमो रीतिः । “चतुष्टयी गतिर्वृत्तीनां प्रवृत्तीनां च, देशानां
पुनरानन्त्यं तत्कथमिव कार्त्स्न्येन परिग्रहः” इत्याचार्याः । “अनन्ता-
मपि हि देशांश्चतुर्धैवाकल्प्य कल्पयन्ति चक्रवर्तिक्षेत्रं सामान्येन,
१ B मानिनीनाम्.
२