काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 70, कुल 381 में से
संदर्भ में पढ़ें१६ काव्यमीमांसायाम्
पञ्चमोऽध्यायः काव्यपाककल्पः ।
“बहुज्ञता व्युत्पत्तिः” इत्याचार्याः । सर्वतोदिक्का हि कविवचः ।
तदुक्तम्— “प्रसरति किमपि कथञ्चन नाभ्यस्ते गोचरे वचः कस्य ।
इदमेव तत्कवित्वं यद्वाचः सर्वतोदिक्काः ॥”
“उचितानुचितविवेको व्युत्पत्तिः” इति यायावरीयः । “प्रति-
भाव्युत्पत्त्योः प्रतिभा श्रेयसी” इत्यानन्दः । सा हि कवेरव्युत्प-
त्तिकृतं दोषमशेषमाच्छादयति । तदाह—
“अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः ।
यस्त्वशक्तिकृतस्तस्य झगित्येवावभासते ॥”
शक्तिशब्दश्चायमुपचरितः प्रतिभाने वर्तते ।
“एतत्किं शिरसि स्थितं मम पितुः खण्डं सुधाजन्मनो
लालाटं किमिदं विलोचनमिदं हस्तेऽस्य किं पन्नगाः ।
इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः
प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ॥”
“व्युत्पत्तिः श्रेयसी” इति मङ्गलः । सा हि कवेरशक्तिकृतं
दोषमशेषमाच्छादयति । तथा हि—
“कवेः संव्रियतेऽशक्तिर्व्युत्पत्त्या काव्यवर्त्मनि ।
वैदग्धीचित्त(त्र)चित्तानां हेया शब्दार्थगुम्फना ॥”
व्युत्पत्तिर्यथा— “कृतः कण्ठे निष्को नहि किमुत तन्वी मणिलता
कृशं लीलापत्रं श्रवसि निहितं कुण्डलमुचि ।
न कौशेयं चित्रं वसनमवदातं तु वसितं
समासन्नीभूते निधुवनविलासे वनितया ॥”
“प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ” इति यायावरीयः ।
न खलु लावण्यलाभादृते रूपसम्पत् । ऋते रूपसम्पदो १वा लावण्यल-
ब्धिर्महते सौन्दर्याय । उभययोगो यथा—
१ B omits वा.