सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

८६ कर्पूरमञ्जरी
**राजा—**तदो तदो ?
**विदूषकः—**तदो तं करंडिआए कदुअ साअरदत्तो णाम वाणिओ
गदो पंचालाहिवस्स सिरिवज्जाउहस्स णअरं कणणउज्जं णाम । तहिं
च सा विक्किणीदा कोडीए सुवण्णस्स ।
**राजा—**तदो तदो ?
**विदूषकः—**तदो अ,—
दहूण थोरत्थणतुंगिमाणं एकावलीए तह चंगिमाणं ।
सा तेण दिण्णा दइआइ कंठे रज्जंति छेआ समसंगमम्मि ॥ ६ ॥
अवि अ,—
णहबहलिदजोण्हाणिब्भरे रत्तिमज्झे
कुसुमसरपहारत्ताससंमीलिदाणं ।
राजा—
ततस्ततः ?
विदूषकः—
ततस्तां करण्डिकायां कृत्वा सागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्री-
आयुधस्य नगरं कान्यकुब्जं नाम । तत्र च सा विक्रीता कोट्या सुवर्णस्य ।
राजा—
ततस्ततः ?
विदूषकः—
ततश्च,—
दृष्ट्वा स्थूलस्तनतुङ्गिमानमेकावल्यास्तथा चङ्गिमानम् ।
सा तेन दत्ता दयितायाः कण्ठे रज्यन्ति च्छेकाः समसंगमे ॥
वरदानाद्येषावयोराशययोगो भविष्यतीति भावः । च्छेका विदग्धाः ।
अपि च,—
नभोबहलितज्योत्स्नानिर्भरे रात्रिमध्ये
कुसुमशरप्रहारत्राससंमीलितयोः ।

८८ कर्पूरमञ्जरी
विदूषकः—भो, देवीगदे पणअप्परूढे वि पेम्मे किं णु कप्पूर-
मंजरिं सव्वंगवित्थारिअलोअणो पिअंतो विअ ¹पलोएसि ? किं तत्तो
परिहीअमाणगुणा देवी ?
राजा—मा एवं भण,—
कीए वि संघडदि कस्स वि पेम्मगंठी
एमेअ इत्थ ण हु कारणमत्थि रूअं ।
चंगत्तणं पुणु महिज्जदि जं तहिं पि
तं दिज्जए पिसुणलोअमुहेसु मुद्दा ॥ ९ ॥
विदूषकः—भो वअस्स ! किं पुण एदं पेम्मं पेम्मं ति भणंति ?
विदूषकः—
भोः, देवीगते प्रणयप्ररूढेऽपि प्रेम्नि किमिति कर्पूरमञ्जरीं सर्वाङ्गविस्तारित
लोचनः पिबन्निवावलोकयसि ? किं ततोऽपि परिहीयमाणगुणा देवी ?
परिहीणं प्रमाणं येषामेवंविधा गुणा यस्याः सा ।
राजा—
मैवं भण,—
कयाचित्संघटते कस्यापि प्रेमग्रन्थि-
रेवमेव तत्र न खलु कारणमस्ति रूपम् ।
चङ्गत्वं पुनर्गृह्यते यत्तत्रापि
तद्दीयते पिशुनलोकमुखेषु मुद्रा ॥
प्रेमग्रन्थिसंघटने न रूपातिशयः कारणं, किं तु तत्स्वभावादेव भवति । तद्यदि
यत्सौन्दर्यान्वेषणं क्रियते केवलं तत्कुटिलमुखेषु मुद्रा दीयते । निमित्तस्यानस्य
प्रेमानुबन्ध इति पिशुनजनानाज्ञादृष्ट्या तन्निवर्त्तनेन परं सौन्दर्यमुपयुज्यत इत्यर्थः ।
अत्राप्यर्थान्तरन्यासानुप्रासादयः ।
विदूषकः—
भोः (वयस्य !) किं पुनरेतत् [प्रेम] प्रेमेति भणन्ति ?
१ 'अवलोएसि' । २ 'किं तदो विपरिहीअमाणगुणा' इति टीकानुसारी पाठः ।

९० कर्पूरमञ्जरी

राजा—
जाणं सहाअपसरंतसलोलदिट्ठी-
पेरंतलुंठिअमणाण परोप्परेण ।
वहंतमम्महविइण्णरसप्पसारो
ताणं पथासइ लहू वि स ¹चित्तमेओ ॥ ११ ॥
अपि च,—
अंतो णिविट्ठमणविब्भमडंबरो जो
सो भण्णए मअणमंडणमेत्थ पेम्मं ।
दुल्लक्खअं पि पअडेइ जणो जअम्मि
तं जाणिमो सुबहुलं मअणेंदजालं ॥ १२ ॥
विदूषकः— किं च, जदि चित्तगदं पेम्मं अणुराअं उप्पादेदि, त
किं किज्जदि भंडणाडंवरविडंबणाए ?


राजा—
ययोः स्वभावप्रसरत्सलोलदृष्टि-
पर्यन्तलुण्ठितमनसोः परस्परेण ।
वर्धमानमन्मथवितीर्णरसप्रसार-
स्तयोः प्रकाशते लघुरिव चित्तभारः ॥
स्वभावतः प्रसरन्त्याः सलोला या दृष्टयस्तासां प्रान्तैर्लुण्ठितं मनो ययोः ।
लुण्ठितमित्यनेन तदेकरसता ध्वन्यते ।
अपि च,—
अन्तर्निविष्टमनोविभ्रमाडम्बरो यः
स भण्यते मदनमण्डनमत्र प्रेम ।
दुर्लक्ष्यमपि प्रकटयति जनो जगति
तज्ज्ञानीमः सुबहुलं मदनेन्द्रजालम् ॥
विदूषकः—
किं च, यदि चित्रगतं प्रेमानुरागमुत्पादयति, तत्किं क्रियते मण्डनाडम्बरविड-
म्बनया ?


1 'लहू विअ' इति री०पु० पाठः । 2 'भारो' इति री०पु० पाठः ।

९२ कर्पूरमञ्जरी
जाणे सिरीअ जइ किज्जदि को वि ¹भेओ
माणिक्कभूसणणिसंसणकुंकुमेहिं ॥ १५ ॥
अवि अ,—
किं लोअणेहिं तरलेहिं किमाणणेण
चंदोवमेण ²सिद्दिणेहिं किमुण्णएहिं ।
ताँ किं पि अण्णमिह भूवलए णिमित्तं
जेणंगणाउ हिअआहि ण ओसरंति ॥ १६ ॥
विदूषकः—एवं णेदं । किं पुण अण्णं पि मे फट्ठेसु, जं कुमार-
त्तणे माणुसस्स णं मणोज्जं तस्स वि तारुण्णेण किं पि चंगत्तणं चंडदि ।
जाने श्रिया यदि क्रियते कोऽपि भावो
माणिक्यभूषणनिसनकुंकुमैः ॥
अपि च,—
किं लोचनैस्तरलेः किमाननेन
चन्द्रोपमेन स्तनैः किमुन्नतैः ।
तत्किमप्यन्यदिह भूवलये निमित्तं
येनाङ्गना हृदयान्नापसरन्ति ॥

९४ कर्पूरमञ्जरी
तथा अ,-
अंगं लावण्णपुण्णं सवणपरिसरे लोअणे फारतारे
वच्छं थोरत्थणिल्लं तियलिबलइअं मुट्ठिगेज्जं च मज्झं।
चक्काआरो णिअंबो तरुणिमसमए किं णु अण्णेण कज्जं
पंचेहिं चेअ बाला मअणजअमहावेजअंतीउ होंति ॥ १९ ॥
(नेपथ्ये।)
सहि कुरंगिए! इमिणा सिसिरोवआरेण णलिणि व्व कामं ^३किलिस्सामि।
विस व्व विसकंदली विसहर व्व हारच्छडा
वअस्समिव अत्तणो किरदि तालविंताणिलो।
तहा अ करणिग्गअं जलइ अंतधाराजलं
ण चंदणमहोसहं हरइ देहदाहं च मे ॥ २० ॥
तथा च,-
अङ्गं लावण्यपूर्णं श्रवणपरिसरे लोचने हारतारे
वक्षः स्थूलस्तनं त्रिवलिवलयितं मुष्टिग्राह्यं च मध्यम्।
चक्राकारो नितम्बस्तरुणिसमये किं त्वन्येन कार्यं
पञ्चभिरेव बाला मदनजयमहाराजपन्त्यो भवन्ति ॥
दारे हरणशीले तारे नयने।
(नेपथ्ये।)
सखि कुरङ्गिके! अनेन शिशिरोपचारेण नलिनीव कामं क्लाम्यसि।
शिशिरोपचारः शीतोपचारः, शिशिर्तुसमीपागमनं च।
विषमिव विसकन्दली विषधर इव हारच्छटा
वयस्यमिवात्मनः किरति तालवृन्तानिलः।
तथा च करनिर्गतं ज्वलति यन्त्रधाराजलं
न चन्दनमहौषधं हरति देहदाहं च मे ॥
तालवृन्तानिल आत्मनो वयस्यं लगाये विकिरतीव विसर्जयतीत्यर्थः।
१ 'हार' इति टीकापाठः। २ 'चेव' इति रीढभूतः पाठः। ३ 'किलिस्सामि'
इति टीकाकृतः पाठः।

तृतीयं जवनिकान्तरम् ९५
विदूषकः—सुदं पिअवअस्सेण । भरिआ कण्णा पीऊसगंडूसेण ।
ता किं अज्ज वि उवेक्खीअदि घणघम्मेण किम्मंती मुणालिआ, गाढ-
फडिअदूसहेण सलिलेण सिंचिज्जती केलिकुंकुमपुत्तलिआ छम्मासिअ-
मुत्तिआणं तडित्ति फुडंती एक्कावली, गंठिवण्णकेआरिआ खंडिज्जंती
गंधहरिणएहिं । ता सच्‍चं सुविणं ते संपण्णं । एहि, पविसम्ह ।
उट्ठिभज्जदु मअरद्धअपडाअं । पअट्टदु कण्णकुहरम्मि पंचमहुंकाराणं
रिंछोली । थंभंतु बाहप्पवाहा । मंथरिज्जंतु णीसासप्पसरा । लहदु
लावण्णं पुणण्णवभावं । ता एहि । खडकिआदुआरेण पविसम्ह ।
( इति खिडकिकोद्घाटनं नाटयति, ततः प्रविशति नायिका कुरङ्गिका च ।)
नायिका—( ससाध्वसं स्वगतम् ।) अम्मो, किं एसो सहसा गअ-
णंगणादो अवइण्णो पुण्णिमाहरिणंको ? कि वा तुट्टेण णीलकंटेण णिअ-
विदूषकः—
श्रुतं प्रियवयस्येन । भृतौ कर्णौ पीयूषगण्डूषैः । तत्किमद्याप्युपेक्ष्यते घनघर्मेण
क्लाम्यन्ती मृणालिका, गाढस्फुटितदुःसहेन सलिलेन सिच्यमाना केलिकुङ्कुमपुत्तली,
षण्मासिकमौक्तिकानां झटिति स्फुटन्नेकावली, ग्रन्थिपर्णकेदारिका लुप्यमाना
गन्धहरिणेन । तत्सत्यं ते स्वप्नं संपन्नम् । एहि, प्रविशावः । उत्थाप्यतां मकरध्व-
जपत्ताका । प्रवर्त्ततां कण्ठकुहरे पञ्चमहुंकाराणां रचना । स्तोभीक्रियन्तां बाष्पप्रवाहाः ।
मन्थरीक्रियन्तां निःश्वासप्रसराः । लभतां लावण्यं पुनर्भवभावम् । तदेहि, खिट-
विकाद्वारेण प्रविशावः ।
नायिका—
अम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः ? किं वा तुष्टेन
१ 'स्फुटं' इति टीकापाठः । २ 'गंधहरिणेण' इति टीकानुकूलः पाठः । ३ 'उट्ठिज्जदु'
इति टीकानुगः पाठः । ४ 'कंटकुहरम्मि' इति टीकानुसारी पाठः ।

९६ कर्पूरमञ्जरी
देहं लंभिदो मणोहओ ? किं वा हिअअस्स दुज्जणो णअणाण सज्जणो
मं संभावेदि ? ( प्रकाशम् । ) सहि कुरंगिए ! इदं इंदजालं विज
पेक्खामि ।
विदूषकः—( राजानं हस्ते गृहीत्वा । ) भोदि ! सचं इंदजालं संपण्णं ।
( नायिका लज्जते । )
कुरङ्गिका—सहि कप्पूरमंजरि ! अब्भुट्ठाणेण संभावेहि भट्तारं ।
( नायिका उत्थातुमिच्छति । )
राजा—( हस्ते गृहीत्वा । )
उट्ठिऊण थणभारभंगुरं मा मिअंकमुहि ! भंज मज्झअं ।
तुज्झ ईरिसनिवेसदंसणे लोअणाण मअणो पसीददु ॥ २१ ॥
अवि अ,—
जिस्सा पुरो हेरदि णो हरिआललच्छी
रोसाणिअं ण कणअं ण अ चंपआई ।
नीलकण्ठेन निजदेहं लम्भितो मनोभवः ? किं वा हृदयस्य दुर्जनो नयनानां सज्जनो
मां संभावयति ? सखि कुरङ्गिके ! इदमिन्द्रजालमिव पश्यामि ।
तुष्टेन रुष्टादिस्तुल्या तुष्टेनेत्यर्थः । 'किं वारुष्टेन' इति पाठेऽरुष्टेनेत्यकारप्रश्लेषः ।
तथापि रुष्टादिस्तुल्या रोपरहितेनेत्यर्थः । अथवा नाकारप्रश्लेषः । किं तु रुष्टेन
क्रुद्धेन नीलकण्ठेन पुनः शरीरमुत्पाद्य पुनर्दाहेनाधिकतरपीडादानाय पुनः स्वदेहं
प्रापितो मनोभव इत्यर्थः ।
विदूषकः—
भवति ! सत्यमिन्द्रजालं संपन्नम् ।
कुरङ्गिका—
सखि कर्पूरमञ्जरि ! अभ्युत्थानेन संभावय भर्तारकम् ।
राजा—
उत्थाय स्तनभारभङ्गुरं मा मृगाङ्कमुखि ! भञ्जय मध्यम् ।
तवेदृशनिवेशदर्शनाल्लोचनयोर्मदनः प्रसीदतु ॥
अपि च,—
यस्याः पुरो न हरिता दलिता हरिद्रा
उज्ज्वलीकृतं न कनकं न च चम्पकानि ।
1 'हरिदा दलित हरिता' इति टीकाकृतः पाठः ।

तृतीयं जवनिकान्तरम् ९७
ताईं सुवण्णकुसुमेहिँ विलोअणाईं
अच्चेमि जेहिँ हरिणच्छि ! तुमं सि दिट्ठा ॥ २२ ॥
विदूषकः—गब्भहरवासेण सेअसलिलसित्तगत्ता संभूदा तत्तभोदी
कप्पूरमंजरी । ता इमं सिअंचलेण विज्जिस्सं दाव । ( तथा कुर्वन् । ) हा
हा, कहं घरिल्लपवणेण णिव्वाणो पदीवो । ( विचिन्त्य स्वगतम् । ) भोदु,
लीलुज्जाणं जेव गच्छम्ह । ( प्रकाशम् । ) भो, अधआरणिचिदं वट्टदि ।
ता णिक्कमम्ह सुरंगामुखेण जेव पमदुज्जाणं दाव ।
( सर्वे निष्क्रमणं नाटयन्ति । )
राजा—( कर्पूरमञ्जरीं करे धृत्वा । )
मज्झ हत्थठिदपाणिपल्लवा ईसि संचरणबंधुरा भव ।
जं चिराअ फलहंसमंडली भोदु केलिगमणम्मि दुहवा ॥ २३ ॥
( स्पर्शसुखमभिनीय । )
जे णयस्स तउसरस्स फंटआ जे कदंबकुसुमस्स केसरा ।
अज्ज तुज्झ करफंससङ्किरणो ते हवंतु मह अगणिज्जिदा ॥ २४ ॥
तानि सुवर्णकुसुमैर्विलोचने
अर्चयामि याभ्यां हरिणाक्षि ! त्वमसि दृष्टा ॥
विदूषकः—
गर्भगृहवासेन स्वेदसलिलसिक्तगात्रा संभूता तत्रभवती कर्पूरमञ्जरी । तदिमां
निचयाञ्चलेन वीजयिष्यामि तावत्, हा हा, कथं यन्त्राधालपवनेन निर्वाणः प्रदीपः !
भवतु, लीलोद्यानमेव गच्छामः । भो, अन्धकारनृत्यं वर्तते । तन्निष्क्रामामः
सुरङ्गामुखेनैव प्रमदोद्यानं तावत् ।
राजा—
मम हस्तस्थितपाणिपल्लवा ईषत्सञ्चरणबन्धुरा भव ।
यच्चिराय कलहंसमण्डली भवतु केलिगमने दुर्भगा ॥
ये नभस्य त्रपुषस्य कण्टका ये कदम्बकुसुमस्य केसराः ।
अद्य तव करस्पर्शसङ्किरने भवन्ति ममाऽनिर्जिताः ॥
१ "बंधुरा" इति टीकापाठः । २ 'कलहंसमण्डलं' इति टीकापुस्तपाठः । ३ 'तुञ्चसि' इति
टीकापुस्त' पाठः । 'मह अंगसंगिणो', 'खलु णिम्मिअ' पुन' इतरो पाठौ भवेताम् ।
क० म० ७

९८ कर्पूरमञ्जरी

( नेपथ्ये । )
वैतालिकः—सुहणिबंधणो भोदु देवस्स चंदुज्जोओ ।
भूगोले तिमिराणुवंधमलिणे भूमीहरे व्व ट्ठिदे
संजादा णवभुज्जपिंजरमुही जोण्हाइं पुव्वा दिसा ।
मुंचंतो मुचुकुंदकेसरसिहासोहाणुकारे करे
चंदो एक्ककलाक्रमेण अ गदो संपुण्णवियत्तणं ॥ २५ ॥
अवि अ,—
अकुंकुममचंदणं दसदिसावहूमंडणं
अकंकणमकुंडलं भुवणमंडलीभूसणं ।
असोषणममोहणं मअरलंछणस्साउहं
मिअंककिरणावली णहअलम्मि पुंजिज्जदि ॥ २६ ॥
कार्ये कारणवदुपचाराद्देहजन्यरोमाञ्चनिर्जिता इत्यर्थः ।
वैतालिकः—
सुखनिबन्धनो भवतु देवस्य चन्द्रोद्द्योतः ।
भूगोले तिमिरानुबन्धमलिने भूमिरुह इव स्थिते
संजाता नवभूर्जपिञ्जरमुखी ज्योत्स्नया पूर्वा दिशा ।
मुञ्चन्मुचुकुन्दकेसरशिखाशोभानुकारान्करान्-
श्चन्द्रः पश्य कलाक्रमेण च गतः संपूर्णवियक्त्वम् ॥
तिमिरस्यानुबन्धस्तेन मलिने भूगोले भूमिरुह इव स्थिते । चन्द्रोदयानन्तरं यथा
पृष्ठमात्रमेव नीलमिक्षते तथा श्यामे भूगोले स्थिते सतीत्यर्थः । 'भूमीधरे' इति
वा पाठः, तत्र भूमिगृहे इत्यर्थः । एककलाद्विकलाद्युदयक्रमेणेति कलाक्रमेणेत्यस्यार्थः ।
अपि च,—
अकुङ्कुममचन्दनं दशदिशावधूमण्डनं
अकङ्कणमकुण्डलं भुवनमण्डलीभूषणम् ।
अशोषणममोहनं मकरलाञ्छनस्यायुधं
मृगाङ्ककिरणावली नभस्तले पुञ्जीभवति ॥
१ 'भूमंगहे' इति टीकासम्मतः पाठः । २ "वमरसिहासोहाणुकारे करे' इति टीकानुगुणः
पाठः । ३ 'देव्व कणं" इति दीक्षामित्रस्य पाठः ।

तृतीयं जवनिकान्तरम् ९९
विदूषकः—भो, एसा कञ्चणचण्डेन वण्णिदा चन्दुज्जोअलच्छी। ता
संपदं माणिक्चचण्डस्सावसरो।
(नेपथ्ये।)
द्वितीयो वैतालिकः—
डज्झंतागुरुधूववट्टियलआ दिज्जंतदीवुज्जला
लंबिज्जंतविचित्तमोत्तिअलदा मुच्चंतपारावया।
सज्जिज्जंतमणोन्नकेलिसअणा जपतदूईसआ
सेज्जुच्छंगवलंतमाणिणिजणा वह्टंति लीलाहरा ॥ २७ ॥
'अनुङ्कुम' इत्यनेन नवोद्गतायाश्चास्याः पीतत्वं व्यज्यते। 'अचन्दनं' इत्यनेन
चन्दनाधिकशीतलता द्योत्यते। 'दश'शब्देन वैधवधूमात्रशोभाकरमण्डनान्तर-
वैलक्षण्यं द्योत्यते। 'अकङ्कण' इत्यादिना भूषान्तरवैचित्र्यमस्या अभिव्यज्यते।
'अशोषण' इत्यादिनायुधवैलक्षण्यं चास्या द्योत्यते।
विदूषक —
भो, [एषा] काञ्चनचण्डेन वर्णिता चन्द्रोद्योतलक्ष्मीः। तत्साम्प्रतं माणिक्य-
चण्डस्यावसरः।
द्वितीयो वैतालिक —
दह्यमानागुरुधूपवर्तिकलिका दीयमानदीपोज्ज्वला
लम्ब्यमानविचित्रमौक्तिक्लता मुच्यमानपारावता।
सञ्जीक्रियमाणमनोज्ञकेलिशयना जपद्दूतीसक्ता
शय्योत्सङ्गचलन्मानिनीजना वहन्त लीलागृहा ॥
दह्यमाना अगुरुधूपवर्तय एव कलिका येषु। यद्वा,-दह्यमानेत्यादि उज्ज्वला
इत्यन्तमेकं पदम्। तदा दह्यमानागुरुधूपपात्र स्थ वर्तिकलिकाभिर्दीयमानदीपोज्ज्वला-
येत्यर्थः। अथवा दह्यमानागुरुधूपयुक्तवर्तिकलिकाभिरेव दीयमानदीपोज्ज्वला
इत्यर्थः। तदा शोभाधिक्यं व्यज्यते।
१ "वत्तिकलिआ' इति टीकानुसारी पाठः। २ 'सज्जाहरा' इत्यपि पाठः।

३. तृतीय जवनिका: विदूषक चातुर्य एवं गुप्त मिलन

१०० | कर्पूरमञ्जरी
अवि अ,—
देंता कप्पूरपूरच्छुरणमिव दिसासुंदरीणं मुहेसुं
लण्हं जोण्हं किरंता भुअणजणमणाणंदणं चंदणं च ।
जुण्णं कंदप्पकंदं तिहुअणकलणाकंदलिल्लं कुणंतो
जादा एणंकपादा संसअजलहरग्गम्मुक्तधारानुकारा ॥ २८ ॥
विदूषकः—
¹दिसअवअंसो णहसरहंसो ।
णिहुअणकंदो च॑ट्टइ चंदो ॥ २९ ॥
कुरङ्गिका—
ससहररइअमरट्टो माणिणिमाणघरट्टो ।
णवचंपअकोअंडो मअणो जअइ पचंड़ो ॥ ३० ॥
अपि च,—
ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु
श्लक्ष्णां ज्योत्स्नां किरन्तो भुवनजनमनआनन्ददं चन्दनमिव ।
जीर्णं कन्दर्पकन्दं त्रिभुवनचलनाकन्दलितं कुर्वन्तो
जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः ॥
श्लक्ष्णां कोमलां ज्योत्स्नां किरन्त इति संबन्धः । तादृशास्ते कीदृशा इव कर्पूर-
पूरच्छुरणं ददत इवेति विशिष्टवैशिष्ट्यन्यायेन संबन्धः । 'दिशासुन्दरीणाम्' इत्युभयत्र
संबध्यते । त्रिभुवनेति । बिना कामं कस्यापि सृष्टेरभावात् । कन्दलयन्तः पल्लव-
यन्तः इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्ग्यम् । जलधरोन्मुक्त-
धारासाम्येन मेघाद्यप्रतिहतत्वं तेषु द्योत्यते ।
विदूषकः—
दिक्त्रवधूतंसो नभःसरोहंसः ।
निधुवनकन्दः प्रसरति चन्द्रः ॥
कुरङ्गिका—
शशधररचितगर्बो मानिनीमानघरहः ।
नवचम्पककोदण्डो मदनो जयति प्रचण्डः ॥
1 'ससजल' इति टीकाहृतः पाठः । _ 2 'दिसबधुतंसो' इति टीकापाठः । 3 'पसरइ'
इति टीकाभिमतः पाठः ।

तृतीयं जवनिकान्तरम् १०१
(कर्पूरमञ्जरीं प्रति ।) पिअसहि ! तए कदं चंदवण्णणं महाराअस्स
पुरदो पढिस्सं ।
(कर्पूरमञ्जरी लज्जते । कुरङ्गिका पठति ।)
मंडले ससहरस्स गोरए दंतपंजरविलासचोरए ।
भादि लांछणमओ फुरंतओ केलिकोइलतुलं धरंतओ ॥ ३१ ॥
राजा—अहो, कप्पूरमंजरीए अभिनवअत्थदंसणं, उत्तिविचित्तत्तणं
रमणीओ सद्दो, रसणिस्सन्दो अ । (तां प्रति ।)
मा कहिं पि वअणेण विब्भमो होहि इत्ति तुह णूणमिंदुणा ।
लंछणच्छलमसीविसेसओ पेक्ख बिंबफलए णिए कदो ॥ ३२ ॥
किं च,—
'पंडुरंगि ! जइ रज्जए मुहं कोमलांगि ! खडिकारसेण दे ।
दिज्जए पुण कपोलकज्जलं ता लहेज्ज ससिणो विडंबणं ॥ ३३ ॥
(चन्द्रमुद्दिश्य ।)
घरट्टः पेषणकर्ता ।
प्रियसखि ! त्वया कृतं चन्द्रवर्णनं महाराजस्य पुरतः पठिष्यामि ।
मण्डले शशधरस्य गौरे दन्तपञ्जरविलासचौरे ।
भाति लाञ्छनमयः स्फुरन्केलिकोकिलतुलां धारयन् ॥
राजा—
अहो कर्पूरमञ्जर्या अभिनवार्थदर्शनम्, रमणीयः शब्दः, उक्तिविचित्रता,
रसनिष्यन्दश्च ।
मा कथमपि वदनेन विभ्रमो भवत्विति तव नूनमिन्दुना ।
लाञ्छनच्छलमषीविशेषकः पश्य बिम्बफलके निजे कृतः ॥
किं च,—
पाण्डुरांगि यदि रज्यते मुखं कोमलाङ्गि ! खटिकारसेन ते ।
दीयते पुनः कपोलकज्जलं तदा लभते शशिनो विडम्बनम् ॥
१ "दंसणं, रमणीओ सद्दो उत्तिविचित्तदा रस" इति टीकापाठः । २ 'रिवक्रकर
इति टीकापाठः । ३ 'पंडुरेण' इति टीकापुस्तः पाठः ।

Here is the line-by-line transcription of the text in Devanagari:

१०२ कर्पूरमञ्जरी
मुक्कसंक ! हरिणंक ! किं तुवं सुंदरीपरिसरेण हिंडसे ।
^१गोरगंडपरिपंडुरत्तणं पेच्छ दिण्णमिमिणा मुहेण दे ॥ ३४ ॥
(नेपथ्ये महान्कलकलः । सर्वे आकर्णयन्ति ।)
राजा—किं पुण एसो महाकोलाहलो ?
कर्पूरमञ्जरी—(ससाध्वसम्।) पिअसहि ! एदं अवगमिअ आगच्छ ।
(कुरङ्गिका निष्क्रम्य प्रविशति ।)
विदूषकः—देवीए पिअवअस्सस्स वंचणा किदेत्ति तक्केमि ।
कुरङ्गिका—पिअसहि ! एदं जेव पिअवअस्सस्स वंचणा गदं
मुक्तशङ्क ! हरिणाङ्क ! किं त्वं सुन्दरीपरिसरेण हिण्डसे ।
गौरगण्डपरिपाण्डुरत्वं पश्य दत्तममुना मुखेन ते ॥
अनेन सुन्दरीमुखेन ते तुभ्यं गौरगण्डपरिपाण्डुरत्वं दत्तमिति त्वमेव पश्येति
वाक्यार्थः कर्म । तादृशसुन्दरीसविधे त्वं किं कुतो न परिभ्रमसि ? अत्यनुचितं करो-
षीति भावः । अत एव साभिप्रायं संबोधनमाह—मुक्तशङ्केति । एतादृशं वस्तु
यतः प्राप्तं तत्र भक्तिर्नास्तीति विमुच्यते ? शङ्कापि लोकज्जापि ते नास्तीति मह-
दाश्चर्यमिति भावः । यद्वा,—यदेकदेशमुखैकदेशेनापि तवैतावद्दत्तं तन्निकटाटनेन विशे-
षान्तरप्राप्तिरपि सम्भाव्यते । तदपि त्वं नाचरासीति महानज्ञस्त्वमिति भावः ।
राजा—
किं पुनरेष महाकोलाहलः ?
कर्पूरमञ्जरी—
प्रियसखि ! एतदवगम्यागच्छ ।
एतत् कलकलविषयवस्तु ।
विदूषकः—
देव्या प्रियवयस्यस्य वञ्चना कृतेति तर्कयामि ।
कुरङ्गिका—
प्रियसखि ! भट्‍टारस्य वञ्चनां कृत्वा त्वया सह सङ्गमं ज्ञात्वागच्छति देवी ।
तेन कुब्जवामनकिरातवर्षवरसौविदल्लानामेष कोलाहलः ।
१ 'मुञ्ज दिंव' इत्यपि पाठः । २ 'भट्टारअस्स वणणं कडुअ तुए सह संगमं आणिअ
आगच्छदि' इति टीकापाठः ।

तृतीयं जवनिकान्तरम् १०३
अवगमिअ ओअच्छदि । ता कुञ्जवामवक्किरादवरिसघरसोविदल्लाणं
एस हल्बोलो ।
कर्पूरमञ्जरी—(सभयम्।) ता मं पेसेदु महाराओ जेण अहं
इमिणा सुरंगामुहेण ज्जेव पविखिअ रक्खाघरं गच्छामि । जाव देवी
महाराएण सह संगमं ण जाणादि ।
(इति निष्क्रान्ताः सर्वे ।)
इति तृतीयं जवनिकान्तरम् ।
कर्पूरमञ्जरी—
तन्मां प्रेषयतु महाराजो येनाहमनेन सुरंगामुखेनैव प्रविश्य रक्षागृहं गच्छामि ।
यथा देवी महाराजेन सह संगमं न जानाति ।
इति श्रीमद्विद्वद्वन्द्यवन्दिताङ्घ्रिसुन्दरपदद्वन्द्वकुन्दमतिप्रशस्तप्रकाभ्रसरत्कठोर-
किरणकरप्रभप्रतिभप्रभाकराम्भारामसुदेवविरचिते कर्पूरमञ्जरी-
प्रकाशे तृतीयं जवनिकान्तरं समाप्तम् ।
१ 'जाणच्छदि देवी' इति टीकापाठः ।

१०४ कर्पूरमञ्जरी
चतुर्थं जवनिकान्तरम्
( ततः प्रविशति राजा विदूषकश्च । )
राजा—अहो, गाढअरो गिम्हो, पवणो अ पअंडो । ता कहं णु
सहिदव्वो ? जदो,—
इह कुसुमसरेकगोअराणं इदमुभअं पि हु दूसहं ति मण्णे ।
जरढरइकरालिदो अ कालो ^२सुहअजणेण पिएण विप्पलंभो ॥ १ ॥
विदूषकः—एके दाव वम्महस्स वहणिज्जा, अण्णे तावसोस-
णिज्जा । अम्हारिसो उण जणो ण कामस्स वाहणिज्जो ण तावस्स
सोसणिज्जो ।
( नेपथ्ये । )
ता किं णुं खु दे समूळप्पाडिदचूडिअं सीसं करइस्सं ।
राजा—
अहो, गाढतरो ग्रीष्मः, पवनश्च प्रचण्डः । तत्कथं नु सोढव्यः ? यतः,—
इह कुसुमशरैकगोचराणामिदमुभयमपि सुदुःसहमिति मन्ये ।
जरठरविकरालितश्च कालस्तथा च जनेन प्रियेण विप्रलम्भः ॥
विदूषकः—
एके तावन्मदनस्य बाधनीयाः, अन्ये तापशोषणीयाः । अस्मादृशः पुनर्जना
न कामस्य बाधनीयो न तापस्य शोषणीयः ।
नेपथ्ये—
तत्किं न खलु ते समूलोत्पाटितचूलिकाविकलं शीर्षं करिष्ये ।
१ अत्र ‘गाडअरुण्डो गिम्हो पवला सञ्झा कहं णु सोदव्वो ।
सा उण सारंगच्छी एक्क घरे वि दुल्हा विधिणा ॥’ इति पाठः ।
२ ‘तह अ जणेण’ इति टीकापाठः । ३ ‘ण खु’ इति टीकाधृतः पाठः । ४ ‘^४चूडियावि-
कलं’ इति टीकापाठः ।

चतुर्थं जवनिकान्तरम् १०५
राजा— (विहस्य ।) वअस्स ! लीलावणसच्छंदचारिणा केलिसूएण
किं भणिअं ?
विदूषकः— (सक्रोधम् ।) आ दासीए उत्त ! सूलाअरणजोग्गो सि ।
(नेपथ्ये ।)
सव्वं तुम्हारिसाहिंतो संभावीयदि, जदि मे ण होंति पंक्खावलीओ ।
राजा— (विलोक्य ।) कहं उड्डीणो विअ । (विदूषकं प्रति ।)
णिस्ता तलिनवित्थरा तह दिणेसु पहुत्तणं
ससी लहइ खंडणं तह अखंडियैयो रई ।
णिदाहदिएसेसु थिप्फुरइ जस्स एस घमो
कहं ण स विही तदो खुरसिहाहि खंडिज्जदि ॥ २ ॥
किं च, णिउणं सेवणिज्जो जइ सुहअसंगमो भोदि । जदो,—
राजा—
वयस्य ! लीलावनास्वच्छन्दचारिणा केलिशुकेन किं भणितम् ?
विदूषकः—
आः दास्याःपुत्र ! शलाकाकरणयोग्योऽसि ।
नेपथ्ये—
सर्वं युष्मादृशेभ्यः संभाव्यते, यदि मे न भवन्ति पक्षावल्यः ।
राजा—
कथमड्डीन एव ।
नितान्ततलिनविस्तरास्तथा दिनेषु प्रभुत्वं
शशी लभते खण्डनं तथा चाखण्डित्यो रविः ।
निदाघदिवसेषु विस्फुरति यस्यैष घर्मः
कथं न स विधिनातः क्षुरशिखाभिः खण्ड्यते ॥
किं च निपुणं सेवनीयो यदि शुभसंगमो भवति ।
शुभः संगमो यस्य । तादृशेन च स्त्रीवृन्दानुमार्गं प्रस्वेदिति भावः । शुभः संगमो
दयिताङ्गसङ्गः वा ।
१ 'तह अ पंडहविओ रई' इति टीकादृष्टः पाठः ।

१०६ कर्पूरमञ्जरी
मज्झण्णे सिरिखंडपंककलणा आ संझमोल्हंसुअं
लीलामज्जणमा पओससमयं साअं सुरा सीअला ।
गिम्हे पच्छिमजामिणीनिहुवणं जं किं पि पंचेसुणो
एदे पंच सिलीमुहा विजइणो सेसा सरा जज्जरा ॥ ३ ॥
विदूषकः—मा एवं भण,—
पंडुच्छविच्छुरिदणाअलदादलाणं
साहारतेल्लपरिपेसलपोप्फलाणं ।
कप्पूरपंसुपरिवासिदचंदणाणं
भद्दं णिदाहदिवसाण वअस्स ! भोदु ॥ ४ ॥
यतः,—
मध्याह्ने श्रीखण्डपङ्ककलना आ संध्यमार्द्रांशुकं
लीलामज्जनमा प्रदोषसमयं सायं सुरा शीतला ।
ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो-
रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥
ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं 'शेषाः शरा जर्जराः' इत्युक्तमिति
चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने
मानाभाव इत्यभिप्रायात् । यद्वा,—पञ्चैवेषवो मदनस्य, तथापि कालभेदेनान्यानन्यां-
न्युपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तेति न कोऽपि दोषः ।
विदूषकः—
मैवं भण,—
पाण्डुच्छविच्छुरितनागलतादलानां
सहकारतैलपरिपेसलपूगफलानाम् ।
कर्पूरपांसुपरिवासितचन्दनानां
भद्रं निदाघदिवसानां वयस्य ! भवतु ॥
पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एतादृशा अत एषां भद्रं
भवत्वित्यर्थः ।
१ 'फरिससीअला' इति पाठः ।

चतुर्थं जवनिकान्तरम् १०७
राजा—एदं पुण एत्थ रमणिज्जं,—
सपञ्चमतरंगिणो सयणमीअला चेणुणो
समं सिसिरवारिणा वअणसीअला वारुणी ।
सचंदणघणत्थणी सअणसीअला कामिणी
णिद्वाहदिवसोरुहं संअलमीअलं कस्स वि ॥ ५ ॥
अपि य,—
लीलुत्तंसे सिरीसं सिहिणपरिसरे सिंधुवारण हारो
अंगे चोहं चरिद्धं रमणपणइणी मेखला उप्पलेहिं ।
दोत्तुं दोकंदलीसुं णयविसयलआ चामविज्जो मणोज्ञो
तायातंकेऽउतंतं महुसमअगदे एस वेसोऽर्थलाणं ॥ ६ ॥
राजा—
इदं पुनरत्र रमणीयम्,—
सपञ्चमतरङ्गिणः शयणशीतला वेणवः
समं शिशिरवारिणा वदनशीतला वारुणी ।
सचन्दनघनस्तनी शयनशीतला कामिनी
निदाघदिवसोरुधं सकलशीतलं कस्यापि ॥
कस्यापीत्यपिकार्ये । शीतले यद्वस्तु तन्निदाघदिवसोरुधम् । तापशमनायेति
शेषः । कस्य वा न भवति ? अपि तु सर्वस्यापि भवतीति यत्तु. ।
अपि च,—

१०८ कर्पूरमञ्जरी
विदूषकः—अहं पुण भणामि—
मज्झण्हसण्हघणचंदणपंकिलाणं
साअं णिसेविअणिरंतरमज्जणाणं ।
सामासु धीअणअवारिकणुक्खिदाणं
दासत्तणं कुणदि पंचसरो वहूणं ॥ ७ ॥
राजा—( स्मरणमभिनीय । )
पच्चग्गं णवरूअवंगिघडणारंभे जणे संगमो
जाणं ताणँ खणं व रंत्तिदिअहा गच्छंति दीहा अवि ।
जाणं ते अ मणं पि देंति ण रइं चित्तस्स संताविणो
ताणं जंति मणोरहेक्कजणणा मासोवमा वासरा ॥ ८ ॥
(विदूषकं प्रति ।) वअस्स ! अत्थि तग्गदा का वि वत्ता ?
विदूषकः—अत्थि, सुणादु पिअवअस्सो । कहेमि सुहासिअं दे ।
विदूषकः—
अहं पुनर्ब्रवीमि—
मध्याह्नश्लक्ष्णघनचन्दनपङ्किलानां
सायं निषेवितनिरन्तरमज्जनानाम् ।
श्यामासु व्यजनजवारिकणोक्षितानां
दास्यं करोति पञ्चशरोऽबलानाम् ॥
राजा—
प्रत्यग्रं नवरूपभङ्गिघटनाऽऽरम्भे जने संगमो
येषां तेषां क्षणमिव झटिति दिवसा वर्तन्ते दीर्घा अपि ।
येषां ते च मनसि ददति न रतिं चित्तस्य संतापिन-
स्तेषां यान्ति जगन्ति दीर्घतमा मासोपमा वासराः ॥
वयस्य ! अस्ति तद्गता कापि वार्ता ?
विदूषकः—
अस्ति, शृणोतु प्रियवयस्यः । कथयामि सुभाषितं ते । यतःप्रभृति कर्पूरमञ्जरी
1 'झत्ति दिअहा बहंति दीहा' इति टीकानुगुणः पाठः । 2 'जअम्मि दीहरतमा
मासोवमा' इति टीकाकृतः पाठः ।

चतुर्थ जवनिकान्तरम् १०९
जा सा कप्पूरमंजरीए रक्खाभंगेणे सुरंगा दिण्णा सा देवीए दिट्ठा । तदो
पहुदि तं सुरंगादुआरं देवीए पिहुलसिलासंचएण णीरंधं करिज पिहिद ।
अणंगसेणा, कलिंगसेणा, कामसेणा, वसंतसेणा, विब्भमसेण त्ति पंच
सेणानामधेआओ चामरधारिणीओ फरफिंदफरआ करवालहत्थपादक्कस-
हस्सेण सह कारामदिरस्स रक्खाणिमित्तं पुव्वदिसि णिउत्ताओ ।
अणंगलेहा, चित्तलेहा, चंदलेहा, मिअङ्कलेहा, विब्भमलेहे त्ति लेह-
णामधेआओ पंच सेरंधीओ पुक्खिदसिलीमुहधणूहरयेण णिविडणिबद्ध-
तूणीरदुद्वयेण धाणुक्कसहस्सेण सम दक्खिणगाए दिसाए णिविसिदाओ ।
कुंदमाला, चंदणमाला, कुवलअमाला, कंचणमाला, वउलमाला,
मंगउमाला, माणिकमाल त्ति सत्त मालत्तणामधेआओ णवणिसिदकुंत-
हत्थपाइक्कसहस्सेण सम तम्बूलकरंकवाहिणीओ मज्झिमाए दिसाए
णिविसिदाओ ।
अणंगकेली, धवरकेली, कंदप्पकेली, सुंदरकेली, कंदोट्टकेलि त्ति
रक्षाभङ्गात्सुरङ्गाद्वारे देव्या दृष्टा, तत प्रभृति तत्सुरङ्गाद्वारं देव्या बहुलशिलासंच-
येन नीरन्ध्रं कृत्वा पिहितम् । अनङ्गसेना, कलिङ्गसेना, कामसेना, वसन्तसेना,
विभ्रमसेनेति पञ्च सेनानामधेयाश्चामरधारिण्य स्फारस्फुरत्करवालहस्तपदानिकसह-
स्रेण सह कारामन्दिरस्य रक्षानिमित्तं पूर्वदिशि नियुक्ता ।
अनङ्गलेखा, चित्रलेखा, चन्द्रलेखा, मृगाङ्कलेखा, विभ्रमलेखेति लेखनामधेया
पञ्च सैरन्ध्रय पुष्पितशिलीमुखधनुर्हस्तेन निबिडनिबद्धतूणीरदुर्धरेण धानुष्कसहस्रेण
समं दक्षिणस्यां दिशि निवेशिता ।
कुन्दमाला, चन्दनमाला, कुवलयमाला, काञ्चनमाला, बकुलमाला, मङ्गलमाला,
माणिक्यमालेति सप्त मालति नामधेया नवविशितकुन्तहस्तपदातिकांसहस्रेण समं
ताम्बूलकरङ्कवाहिन्य पश्चिमायां दिशि निवेशिता ।
अनङ्गकेलि, शुभगकेलि, कन्दर्पकेलि, सुन्दरकेलि, उत्पलकेलीति पञ्च
१ 'तदो पहुदि कप्पूरमंजरी' इति टीकाकृत पाठ । २ 'मज्झमदेसे सुरंगादुआरे
देवीए' इति टीकापाठ ।