कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 107, कुल 172 में से
संदर्भ में पढ़ेंतृतीयं जवनिकान्तरम् १०१
(कर्पूरमञ्जरीं प्रति ।) पिअसहि ! तए कदं चंदवण्णणं महाराअस्स
पुरदो पढिस्सं ।
(कर्पूरमञ्जरी लज्जते । कुरङ्गिका पठति ।)
मंडले ससहरस्स गोरए दंतपंजरविलासचोरए ।
भादि लांछणमओ फुरंतओ केलिकोइलतुलं धरंतओ ॥ ३१ ॥
राजा—अहो, कप्पूरमंजरीए अभिनवअत्थदंसणं, उत्तिविचित्तत्तणं
रमणीओ सद्दो, रसणिस्सन्दो अ । (तां प्रति ।)
मा कहिं पि वअणेण विब्भमो होहि इत्ति तुह णूणमिंदुणा ।
लंछणच्छलमसीविसेसओ पेक्ख बिंबफलए णिए कदो ॥ ३२ ॥
किं च,—
'पंडुरंगि ! जइ रज्जए मुहं कोमलांगि ! खडिकारसेण दे ।
दिज्जए पुण कपोलकज्जलं ता लहेज्ज ससिणो विडंबणं ॥ ३३ ॥
(चन्द्रमुद्दिश्य ।)
घरट्टः पेषणकर्ता ।
प्रियसखि ! त्वया कृतं चन्द्रवर्णनं महाराजस्य पुरतः पठिष्यामि ।
मण्डले शशधरस्य गौरे दन्तपञ्जरविलासचौरे ।
भाति लाञ्छनमयः स्फुरन्केलिकोकिलतुलां धारयन् ॥
राजा—
अहो कर्पूरमञ्जर्या अभिनवार्थदर्शनम्, रमणीयः शब्दः, उक्तिविचित्रता,
रसनिष्यन्दश्च ।
मा कथमपि वदनेन विभ्रमो भवत्विति तव नूनमिन्दुना ।
लाञ्छनच्छलमषीविशेषकः पश्य बिम्बफलके निजे कृतः ॥
किं च,—
पाण्डुरांगि यदि रज्यते मुखं कोमलाङ्गि ! खटिकारसेन ते ।
दीयते पुनः कपोलकज्जलं तदा लभते शशिनो विडम्बनम् ॥
१ "दंसणं, रमणीओ सद्दो उत्तिविचित्तदा रस" इति टीकापाठः । २ 'रिवक्रकर
इति टीकापाठः । ३ 'पंडुरेण' इति टीकापुस्तः पाठः ।