कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 96, कुल 172 में से
संदर्भ में पढ़ें८६ कर्पूरमञ्जरी
**राजा—**तदो तदो ?
**विदूषकः—**तदो तं करंडिआए कदुअ साअरदत्तो णाम वाणिओ
गदो पंचालाहिवस्स सिरिवज्जाउहस्स णअरं कणणउज्जं णाम । तहिं
च सा विक्किणीदा कोडीए सुवण्णस्स ।
**राजा—**तदो तदो ?
**विदूषकः—**तदो अ,—
दहूण थोरत्थणतुंगिमाणं एकावलीए तह चंगिमाणं ।
सा तेण दिण्णा दइआइ कंठे रज्जंति छेआ समसंगमम्मि ॥ ६ ॥
अवि अ,—
णहबहलिदजोण्हाणिब्भरे रत्तिमज्झे
कुसुमसरपहारत्ताससंमीलिदाणं ।
राजा—
ततस्ततः ?
विदूषकः—
ततस्तां करण्डिकायां कृत्वा सागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्री-
आयुधस्य नगरं कान्यकुब्जं नाम । तत्र च सा विक्रीता कोट्या सुवर्णस्य ।
राजा—
ततस्ततः ?
विदूषकः—
ततश्च,—
दृष्ट्वा स्थूलस्तनतुङ्गिमानमेकावल्यास्तथा चङ्गिमानम् ।
सा तेन दत्ता दयितायाः कण्ठे रज्यन्ति च्छेकाः समसंगमे ॥
वरदानाद्येषावयोराशययोगो भविष्यतीति भावः । च्छेका विदग्धाः ।
अपि च,—
नभोबहलितज्योत्स्नानिर्भरे रात्रिमध्ये
कुसुमशरप्रहारत्राससंमीलितयोः ।