कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 100, कुल 172 में से
संदर्भ में पढ़ें९४ कर्पूरमञ्जरी
तथा अ,-
अंगं लावण्णपुण्णं सवणपरिसरे लोअणे फारतारे
वच्छं थोरत्थणिल्लं तियलिबलइअं मुट्ठिगेज्जं च मज्झं।
चक्काआरो णिअंबो तरुणिमसमए किं णु अण्णेण कज्जं
पंचेहिं चेअ बाला मअणजअमहावेजअंतीउ होंति ॥ १९ ॥
(नेपथ्ये।)
सहि कुरंगिए! इमिणा सिसिरोवआरेण णलिणि व्व कामं ^३किलिस्सामि।
विस व्व विसकंदली विसहर व्व हारच्छडा
वअस्समिव अत्तणो किरदि तालविंताणिलो।
तहा अ करणिग्गअं जलइ अंतधाराजलं
ण चंदणमहोसहं हरइ देहदाहं च मे ॥ २० ॥
तथा च,-
अङ्गं लावण्यपूर्णं श्रवणपरिसरे लोचने हारतारे
वक्षः स्थूलस्तनं त्रिवलिवलयितं मुष्टिग्राह्यं च मध्यम्।
चक्राकारो नितम्बस्तरुणिसमये किं त्वन्येन कार्यं
पञ्चभिरेव बाला मदनजयमहाराजपन्त्यो भवन्ति ॥
दारे हरणशीले तारे नयने।
(नेपथ्ये।)
सखि कुरङ्गिके! अनेन शिशिरोपचारेण नलिनीव कामं क्लाम्यसि।
शिशिरोपचारः शीतोपचारः, शिशिर्तुसमीपागमनं च।
विषमिव विसकन्दली विषधर इव हारच्छटा
वयस्यमिवात्मनः किरति तालवृन्तानिलः।
तथा च करनिर्गतं ज्वलति यन्त्रधाराजलं
न चन्दनमहौषधं हरति देहदाहं च मे ॥
तालवृन्तानिल आत्मनो वयस्यं लगाये विकिरतीव विसर्जयतीत्यर्थः।
१ 'हार' इति टीकापाठः। २ 'चेव' इति रीढभूतः पाठः। ३ 'किलिस्सामि'
इति टीकाकृतः पाठः।