कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 98, कुल 172 में से
संदर्भ में पढ़ें९० कर्पूरमञ्जरी
राजा—
जाणं सहाअपसरंतसलोलदिट्ठी-
पेरंतलुंठिअमणाण परोप्परेण ।
वहंतमम्महविइण्णरसप्पसारो
ताणं पथासइ लहू वि स ¹चित्तमेओ ॥ ११ ॥
अपि च,—
अंतो णिविट्ठमणविब्भमडंबरो जो
सो भण्णए मअणमंडणमेत्थ पेम्मं ।
दुल्लक्खअं पि पअडेइ जणो जअम्मि
तं जाणिमो सुबहुलं मअणेंदजालं ॥ १२ ॥
विदूषकः— किं च, जदि चित्तगदं पेम्मं अणुराअं उप्पादेदि, त
किं किज्जदि भंडणाडंवरविडंबणाए ?
राजा—
ययोः स्वभावप्रसरत्सलोलदृष्टि-
पर्यन्तलुण्ठितमनसोः परस्परेण ।
वर्धमानमन्मथवितीर्णरसप्रसार-
स्तयोः प्रकाशते लघुरिव चित्तभारः ॥
स्वभावतः प्रसरन्त्याः सलोला या दृष्टयस्तासां प्रान्तैर्लुण्ठितं मनो ययोः ।
लुण्ठितमित्यनेन तदेकरसता ध्वन्यते ।
अपि च,—
अन्तर्निविष्टमनोविभ्रमाडम्बरो यः
स भण्यते मदनमण्डनमत्र प्रेम ।
दुर्लक्ष्यमपि प्रकटयति जनो जगति
तज्ज्ञानीमः सुबहुलं मदनेन्द्रजालम् ॥
विदूषकः—
किं च, यदि चित्रगतं प्रेमानुरागमुत्पादयति, तत्किं क्रियते मण्डनाडम्बरविड-
म्बनया ?
1 'लहू विअ' इति री०पु० पाठः । 2 'भारो' इति री०पु० पाठः ।