कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 101, कुल 172 में से
संदर्भ में पढ़ेंतृतीयं जवनिकान्तरम् ९५
विदूषकः—सुदं पिअवअस्सेण । भरिआ कण्णा पीऊसगंडूसेण ।
ता किं अज्ज वि उवेक्खीअदि घणघम्मेण किम्मंती मुणालिआ, गाढ-
फडिअदूसहेण सलिलेण सिंचिज्जती केलिकुंकुमपुत्तलिआ छम्मासिअ-
मुत्तिआणं तडित्ति फुडंती एक्कावली, गंठिवण्णकेआरिआ खंडिज्जंती
गंधहरिणएहिं । ता सच्चं सुविणं ते संपण्णं । एहि, पविसम्ह ।
उट्ठिभज्जदु मअरद्धअपडाअं । पअट्टदु कण्णकुहरम्मि पंचमहुंकाराणं
रिंछोली । थंभंतु बाहप्पवाहा । मंथरिज्जंतु णीसासप्पसरा । लहदु
लावण्णं पुणण्णवभावं । ता एहि । खडकिआदुआरेण पविसम्ह ।
( इति खिडकिकोद्घाटनं नाटयति, ततः प्रविशति नायिका कुरङ्गिका च ।)
नायिका—( ससाध्वसं स्वगतम् ।) अम्मो, किं एसो सहसा गअ-
णंगणादो अवइण्णो पुण्णिमाहरिणंको ? कि वा तुट्टेण णीलकंटेण णिअ-
विदूषकः—
श्रुतं प्रियवयस्येन । भृतौ कर्णौ पीयूषगण्डूषैः । तत्किमद्याप्युपेक्ष्यते घनघर्मेण
क्लाम्यन्ती मृणालिका, गाढस्फुटितदुःसहेन सलिलेन सिच्यमाना केलिकुङ्कुमपुत्तली,
षण्मासिकमौक्तिकानां झटिति स्फुटन्नेकावली, ग्रन्थिपर्णकेदारिका लुप्यमाना
गन्धहरिणेन । तत्सत्यं ते स्वप्नं संपन्नम् । एहि, प्रविशावः । उत्थाप्यतां मकरध्व-
जपत्ताका । प्रवर्त्ततां कण्ठकुहरे पञ्चमहुंकाराणां रचना । स्तोभीक्रियन्तां बाष्पप्रवाहाः ।
मन्थरीक्रियन्तां निःश्वासप्रसराः । लभतां लावण्यं पुनर्भवभावम् । तदेहि, खिट-
विकाद्वारेण प्रविशावः ।
नायिका—
अम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः ? किं वा तुष्टेन
१ 'स्फुटं' इति टीकापाठः । २ 'गंधहरिणेण' इति टीकानुकूलः पाठः । ३ 'उट्ठिज्जदु'
इति टीकानुगः पाठः । ४ 'कंटकुहरम्मि' इति टीकानुसारी पाठः ।