कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 112, कुल 172 में से
संदर्भ में पढ़ें१०६ कर्पूरमञ्जरी
मज्झण्णे सिरिखंडपंककलणा आ संझमोल्हंसुअं
लीलामज्जणमा पओससमयं साअं सुरा सीअला ।
गिम्हे पच्छिमजामिणीनिहुवणं जं किं पि पंचेसुणो
एदे पंच सिलीमुहा विजइणो सेसा सरा जज्जरा ॥ ३ ॥
विदूषकः—मा एवं भण,—
पंडुच्छविच्छुरिदणाअलदादलाणं
साहारतेल्लपरिपेसलपोप्फलाणं ।
कप्पूरपंसुपरिवासिदचंदणाणं
भद्दं णिदाहदिवसाण वअस्स ! भोदु ॥ ४ ॥
यतः,—
मध्याह्ने श्रीखण्डपङ्ककलना आ संध्यमार्द्रांशुकं
लीलामज्जनमा प्रदोषसमयं सायं सुरा शीतला ।
ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो-
रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥
ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं 'शेषाः शरा जर्जराः' इत्युक्तमिति
चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने
मानाभाव इत्यभिप्रायात् । यद्वा,—पञ्चैवेषवो मदनस्य, तथापि कालभेदेनान्यानन्यां-
न्युपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तेति न कोऽपि दोषः ।
विदूषकः—
मैवं भण,—
पाण्डुच्छविच्छुरितनागलतादलानां
सहकारतैलपरिपेसलपूगफलानाम् ।
कर्पूरपांसुपरिवासितचन्दनानां
भद्रं निदाघदिवसानां वयस्य ! भवतु ॥
पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एतादृशा अत एषां भद्रं
भवत्वित्यर्थः ।
१ 'फरिससीअला' इति पाठः ।