जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
ाः । अलिद्वितीयो" - check.
- L15: "मृगलेपपूर्वः क्रमेण पाशो निगलो विहङ्गः" ।" - check.
- L16: "इत्यनेन श्लोकेन (५ अ.। ५५ श्लो०)" - check.
- L23: "लग्ने रविशनिभौमाः शुक्रगृहे सप्तमे शशी क्षीणः ॥" - check.
- L24: "दृष्टो न देवगुरुणा सप्तभिरष्टभिरब्दकैर्वा स्यात् ॥ ४६ ॥" - check.
- L30: "सप्तमो राशिस्तुलेति 'शुक्र-" - notice single quote before शुक्र.
- L31: "गृहे सप्तमे कथितम् । केचित्तु सप्तमे भावे" - check.
- L31: "व्याख्यायन्ति" - check.
- L32: "परञ्च न तन्मन्मतम् ।" - check ("तन्मन्मतम्").
Everything looks extremely accurate and faithful to the source.१०४ सटीकजातकपारिजाते-
चन्द्रमा देखता हो और लग्नेशपर चन्द्रमाकी दृष्टि हो तो जातककी छः वर्षकी आयु
होती है ॥ ४४ ॥
अथ सप्तमेऽब्दे मरणम् ।
लग्ने यद्देष्का
"?
Wait, look at line 18:
The very first word is:
[ ]ग्नेश पापी हो
Ah, it's faint! It's just faint printing!
In line 18: "लग्नेश पापी हो ( याने पापग्रह का लग्न हो ) वह चन्द्रमासे १२ वें स्थान में हो या"
In line 19: "लग्नेश किसी भी राशिमें चन्द्रमाके नवांशमें हो उसे पापग्रह देखते हों तो ९ वें वर्षमें"
Wait, why does the beginning of line 19 look like that?
The ink is faint on the left margin of the page!
Notice:
In line 10: "जन्मलग्नाधिपः" - the 'ज' is normal.
In line 11: "दन्त्ये=" - normal.
In line 18: "लग्नेश" - the "ल" and "ग्ने" are a bit under-inked/faint.
In line 19: there is "लग्नेश" or "अथवा"?
Wait, look at the characters:
It has: a word, then space, then "किसी भी राशिमें".
The word has:
A letter with 'े' (matra e) on top: looks like 'लग्नेश'!
Wait, before that: is there a word?
Wait! Look at the start of line 19:
There is "लग्नेश" under-inked!
१०६ सटीकजातकपारिजाते-
बुध सूर्यके साथ होकर शुभग्रहोंसे देखा जाता हो तो राजाके समान सुखभोग युक्त
बालकको ११ वें वर्षमें मारता है। अर्थात् ऐसे योगमें राजकुमारकी भी ११ वें वर्षमें मृत्यु
होती है। (सु. फा. कार) ॥ ५० ॥
अथ द्वादशेऽब्दे मरणम् ।
चन्द्रलग्नाधिपः सूर्यः स्वपुत्रेण समन्वितः ॥
लग्नादष्टमराशिस्थो द्वादशाब्दे सितेक्षितः ॥ ५१ ॥
अल्यंशकस्थिते मन्दे सूर्येणैव निरीक्षिते ॥
पितृद्वेषसमायुक्तो द्वादशाब्दं च जीवति ॥ ५२ ॥
चन्द्रलग्नाधिपः सूर्यश्चन्द्रो यस्मिन् लग्ने ( राशौ ) भवेत्तदधिपः सूर्यो भवेद्यद्वाऽर्च्यचन्द्रः
छिद्रराशौ भवेत्तथा सूर्यः स्वपुत्रेण = शनिना सहितो लग्नादष्टमराशिगतो भवेच्छुक्रेणेक्षि-
तश्च भवेत्तदा जातस्य द्वादशाब्दे मरणं वाच्यम् । अस्मिन्योगे गुणाकरेण नवमे वर्षे मरणं
कथितम् । तथा तद्वचनम्—
'जन्मेश्वरो दिनकरः ससुतस्तथैव दृष्टः सितेन नवमप्रमितैश्च वर्षैः ।' इति ।
मन्दे=शनैश्चरे अल्यंशके=वृश्चिकनवांशे यत्र तत्र राशौ विद्यमाने, सूर्येणैव निरीक्षिते=
दृष्टे, जातकः पितृद्वेषसमायुक्तः ( तस्मिन्पुत्रे पितुर्वैरिभावमुत्पद्यत इति भावः, यथा प्रह्लादे
हिरण्यकशिपोः ) द्वादशाब्दं जीवत्यतः परं म्रियते पितुर्द्वेषेण ॥ ५१-५२ ॥
[कुण्डली १ : लग्न १२, २ भाव १ (शु. १), ६ भाव ५ (५ चं.), ८ भाव ७ (७ सू. श.)] [कुण्डली २ : लग्न ११, ३ भाव १ (१ सू.), ९ भाव ७ (श. ८)]
चन्द्रलग्नाधिप सूर्य ( याने सिंहमें चन्द्रमा हो ) अपने पुत्र ( शनि ) से युक्त होकर
अष्टम स्थानमें हो, उन्हें शुक्र देखता हो तो १२ वें वर्ष में बालक मरे ॥ ५१ ॥
शनि वृश्चिकके नवांशमें हो उसे सूर्य देखता हो तो वह बालक पिताके बैरसे युक्त हो
१२ वर्ष जीवे ॥ ५२ ॥
अथ त्रयोदशेऽब्दे मृत्युः ।
तुलांशकस्थिते मन्दे जीवदृष्टिसमन्विते ॥
त्रयोदशाब्दे मरणं जातस्य पितृवैरिणः ॥ ५३ ॥
शनैश्चरे यत्र तत्र तुलानवांशे विद्यमाने गुरुणा दृष्टे च जातो बालः पितुः वैरी भवति ।
तथा तस्य पितृद्वेषिणस्त्रयोदशे वर्षे मरणं जायते ॥ ५३ ॥
तुलाके नवांशमें शनि हो उसे गुरु देखते हों तो वह जातक पिताका वैरी हो और
१३ वें वर्षमें मरे ॥ ५३ ॥
अथ चतुर्दशेऽब्दे मृत्युः ।
कन्यांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ॥
चतुर्दशाब्दे मरणं जातः कोपी समेति च ॥ ५४ ॥
मन्दः = शनिः यत्र तत्र कन्याराशिनवांशे भवेत्तथाभूतो बुधदृष्टिसहितश्च भवेत्तदा
जातकः कोपवान् ( क्रोधी ) भवति । तदायुश्च चतुर्दश वर्षाणि । इति ॥ ५४ ॥
अरिष्टाध्यायः ॥ ४ ॥ १०७
१३ वर्षे मृत्युः १४ वर्षे मृत्युः
कन्याके नवांशमें शनि हो उसे बुध देखता हो तो वह जातक क्रोधी हो और १४ वें
वर्षमें मरे ॥ ५४ ॥
अथ पञ्चदशाब्दायुः ।
सिंहांशकस्थिते मन्दे राहुणा च निरीक्षिते ॥
शस्त्रपीडा भवेत्तस्य चायुः पञ्चदशाब्दकम् ॥ ५५ ॥
सरलार्थः ॥ ५५ ॥
सिंहके नवांशमें शनि हो, राहु उसको देखता हो तो उस बालकको शस्त्रसे घाव लगे
और उसकी आयु १५ वर्षकी होवे ॥ ५५ ॥
अथ षोडशेऽब्दे मरणम् ।
कर्कांशकस्थिते मन्दे जीवदृष्टिसमन्विते ॥
सर्पपीडा भवेत्तस्य षोडशाब्दान्मृतिं वदेत् ॥ ५६ ॥
सरलार्थः ॥ ५६ ॥
कर्कके नवांशका शनि हो बृहस्पति उसको देखता हो तो उस बालकको सर्प डसनेका
कष्ट हो और १६ वें वर्षमें मृत्यु कहे ॥ ५६ ॥
अथ सप्तदशेऽब्दे मृत्युः ।
यमांशकस्थिते मन्दे लग्ननाथेन वीक्षिते ॥
रणशूरो महाभोगी मृतः सप्तदशाब्दके ॥ ५७ ॥
यत्र तत्र गते मन्दे यमांशकस्थिते =
मिथुननवांशे विद्यमाने तथा लग्ननाथेन = जन्म-
लग्नपतिना यत्र तत्र वर्तिना वीक्षिते जातको
रणे = युद्धे शूरो भवति, महाभोगी = उत्तमसुख-
युक्तश्च भवति, तथा सप्तदशाब्दके मृतो
भवति । सप्तदशवर्षे म्रियत इत्यर्थः ॥ ५७ ॥
अत्रोदाहरणे ( रा. श. ) अनेन १५ वर्षाणि । ( बृ. शं. ) अनेन १६ वर्षाणि ।
( शु. शं. ) अनेन १७ वर्षाणि आयुः ।
शनि मिथुनांशकमें हो उसको लग्नेश देखता हो तो वह बालक रणशूर हो, महाभोगी
हो और १७ वें वर्षमें मरे ॥ ५७ ॥
१०८ सटीकजातकपारिजाते-
अथ अष्टादशेऽब्दे मृत्युः ।
परस्परक्षेत्रसमन्वितौ वा रन्ध्रेशलग्नाधिपती न सौम्यौ ॥
रिःफारिभे वा गुरुणा वियुक्ते त्वष्टादशाब्दे निधनं प्रयाति ॥ ५८ ॥
रन्ध्रेशोऽष्टमेशः, लग्नाधिपतिर्लग्नेशस्तौ न सौम्यौ=पापौ वा शुभग्रहयोगरहितौ वा
परस्परक्षेत्रसमन्वितौ लग्नेशोऽष्टमेशगृहे तथाऽष्टमेशो लग्नेशगृहे स्थितः, अथवा तावेव
गुरुणा वियुक्त=बृहस्पतिरहिते रिःफारिभे=षष्ठे द्वादशे वा भावे भवेतां तदा जातस्त्वष्टाद-
शाब्दे निधनं=मरणं प्रयाति ॥ ५८ ॥
लग्नेश-अष्टमेश दोनों पापग्रह हों, परस्पर एक दूसरेके गृहमें हों, वा १२ या ६ ठें हों
गुरुसे वियुक्त हों तो वह बालक १८ वें वर्षमें मरे ॥ ५८ ॥
अथ सद्यो मृत्युः ।
जीवांशकस्थिते मन्दे राहुणा च निरीक्षिते ॥
देहाधिपे शुभादृष्टे जातः सद्यो विनश्यति ॥
अथ १९ वर्षे मृत्युः ।
तदीशस्तुङ्गभागस्थश्चेदायुरेकोनविंशतिः ॥ ५९ ॥
यत्र तत्र मन्दे = शनौ जीवस्य = बृह-
स्पतेः (९।१२) अंशके=नवांशे स्थिते राहुणा
निरीक्षिते च देहाधिपे = लग्नेशे शुभादृ-
ष्टे=शुभग्रहैरनवलोकिते जातो बालः सद्यः =
जातमात्र एव विनश्यति = म्रियते ।
अथास्मिन्योगे तदीशः = लग्नेशो यदि
तुङ्गभागः = उच्चांशगतो भवेत्तदा तस्यैको-
नविंशति-(१९) वर्षाण्यायुर्भवत्यनन्तरं म्रियते ॥
बृहस्पतिके नवांशमें शनि हो उसे राहु देखता हो और लग्नेश शुभग्रहोंसे अदृष्ट हो तो
वह बालक जन्म लेते ही मरे । यदि उसका स्वामी उच्चराशिमें हो तो १९ वर्ष
उसकी आयु होवे ॥ ५९ ॥
अथ २० वर्षे मृत्युः ।
केन्द्रेषु पापेषु निशाकरेण सौम्यग्रहैरीक्षणवर्जितेषु ॥
षष्ठाष्टमे वा यदि शीतरश्मौ जातः सुखी विंशतिवत्सरान्तम् ॥ ६० ॥
केन्द्रेषु ( १।४।७।१० ) यथासम्भवं
विद्यमानेषु पापग्रहेषु निशाकरेण = चन्द्रेण
तथान्यैः शुभग्रहै-(बु.गु.शु.) श्चेक्षणवर्जि-
तेषु=अनवलोकितेषु, वा यदि शीतरश्मौ =
चन्द्रे लग्नात् षष्ठेऽष्टमे वा विद्यमाने (केन्द्रेषु
पापेषु च) जातकः विंशतिवत्सरान्तं सुखी
भवति, तदनन्तरं मरणमेतीति ॥ ६० ॥
केन्द्रोंमें पापग्रह हों उन्हें चन्द्रमा तथा शुभग्रह न देखते हों, या यदि चन्द्रमा छठें वा
८ वें स्थानमें हो तो वह बालक उत्पन्न होनेपर २० वर्षके भीतर सुखी रहे, बादमें
मरे ॥ ६० ॥
अरिष्टाध्यायः ॥४॥ १०६
अथ २२ वर्षे मृत्युः।
जीवेन सहितः सूर्यो लग्नस्थः कीटराशिगः ॥
अष्टमाधिपतौ केन्द्रे द्वाविंशत्यब्दके मृतिः ॥ ६१ ॥
कीटराशिगः = कर्कटराशिस्यः सूर्यो जीवेन = बृहस्पतिना सहितो लग्नस्थो भवेदर्थात्क-
र्कराशिर्लग्नं भवेत्तस्मिन् सूर्य्यगुरू च भवेतां तथा लग्नादष्टमाधिपतिः केन्द्रे (१।४।७।१० भावे)
भवेत्तदा जातस्य द्वाविंशत्यब्दके (२२ वर्षे)
मृतिर्मरणं भवति।
ननु संज्ञाध्याये 'अल्पदृष्टं वृश्चिककौर्पि-
कीटाः' इत्यनेन कीट इति वृश्चिकराशेः
संज्ञा, तत्कथं कीट इत्यत्र कर्कटो व्या-
ख्यातः ? उच्यते, कीट इत्यनेन वृश्चिक-
स्य ग्रहणे कृते तस्मादष्टमं मिथुनं, तत्पति-
र्बुधो वर्त्तते, स तदा लग्नस्थसूर्य्यात्केन्द्रेषु
१।४।७।१० न जातु भवितुमर्हतीति। यदि केन्द्रमित्यनेन केवलं प्रथमस्यैव ग्रहणं क्रियेत तदा
'अष्टमाधिपतिस्तत्र' इत्येवमेव पाठमकरिष्यदिति। अस्तु 'कीटः कर्कटराशिः' इति वराह-
वचनमुररीकृत्य कीटे कर्कटो व्याख्यातः ॥ ६१ ॥
बृहस्पति के साथ सूर्य कर्कराशिका लग्नमें हो और अष्टमेश केन्द्रमें हो तो जातक २२
वें वर्ष में मरे ॥ ६१ ॥
२६।२७ वर्षे मृत्युः।
मन्दोदये शत्रुराशौ सौम्यैरापोक्लिमोपगैः ॥
षड्विंशत्यब्दके वा स्यात् सप्तविंशतिवत्सरे ॥ ६२ ॥
शत्रुराशौ लग्नवर्त्तिनि शनौ (लग्नेशो
मन्दस्य शत्रुः शनैश्चरो लग्नवर्त्ती च भवेत्)
सौम्यैः=शुभग्रहैरापोक्लिमे (३।६।९।१२)
उपगतैः जातस्य षड्विंशत्यब्दके, अथवा
सप्तविंशतिवत्सरे (२६।२७) मरणं स्यादिति ॥
लग्नमें शनि शत्रु की राशिका हो सौम्य-
ग्रह आपोक्लिममें हों तो उस जातककी
आयु २६ या २७ वर्ष की जाने ॥ ६२ ॥
अथ २८ वर्षे मरणम् ।
रन्ध्रेशे जीवसंदृष्टे पापे पापनिरीक्षिते ॥ रन्ध्रस्थे जन्मपे मृत्युरष्टाविंशतिवत्सरे ॥ ६३ ॥
रन्ध्रेशेऽष्टमभावपतौ पापे = पापग्रहे
जीवसंदृष्टे=यत्र तत्र गुरुणाऽवलोकिते तथा
जन्मपे=जन्मराशिपतौ पापनिरीक्षिते=पापग्र-
हेण दृष्टे रन्ध्रस्थेऽष्टमभावमुपगते च जातस्या-
ष्टविंशति-(२८) वत्सरे मृत्युः स्यादिति ॥ ६३ ॥
अष्टमेश पापग्रह हो उसे गुरु देखता हो
और जन्मराशीश आठवेंमें हो तथा पापग्रह
१० जा०
११० सटीकजातकपारिजाते-
से दृष्ट हो तो बालककी मृत्यु २८ वें वर्षमें होती है ॥ ६३ ॥
अथ २९ वर्षे मृत्युः ।
चन्द्रो मन्दसहायस्तु सूर्यश्चाष्टमसंस्थितः ॥
एकोनत्रिंशके वर्षे जातो यमपुरं व्रजेत् ॥ ६४ ॥
चन्द्रो मन्दस्य = शनैश्चरस्य सहायः = सम्बन्धी ( स्थानसम्बन्धी वा दृष्टिसम्बन्धी )
तु=तथा सूर्यश्चाष्टमे = लग्नादष्टमभावे संस्थितो भवेत्तदा जात एकोनत्रिंशके ( २९ ) वर्षे
यमपुरं=यमालयं व्रजेदर्थान्प्रियते ॥ ६४ ॥
चन्द्रमा शनिका सहायक हो सूर्य अष्टममें स्थित हो तो जातक २९ वें वर्षमें यमपुरकी
यात्रा करे, याने मरे ॥ ६४ ॥
अथ २७ वा ३० वर्षे मृत्युः ।
जन्मरन्ध्रपयोर्मध्ये निशानाथे व्यये गुरौ ॥
सप्तविंशतिवर्षे वा त्रिंशद्वयसि वा मृतिः ॥ ६५ ॥
निशानाथे=चन्द्रे जन्मरन्ध्रपयोर्जन्मरा-
शिपत्यष्टमभावेशयोर्मध्ये भवति सति इह-
मुक्तं भवति । चन्द्राज्जन्मरन्ध्रेशयोरेको द्वाद-
शेऽपरो द्वितीये भवेत्, तथा गुरौ व्यये=लग्नात्
द्वादशे भावे विद्यमाने जातस्य सप्तविंशति-
( २७ ) वर्षे वा त्रिंशद्वयसि ( ३० वर्षे )
मृतिर्भवति ॥ ६५ ॥
[कुण्डली १ :]
- लग्न (३)
- द्वितीय (४)
- तृतीय (५ बु.)
- चतुर्थ (चं. ६)
- पञ्चम (७ श.)
- षष्ठ (८)
- सप्तम (९)
- अष्टम (१०)
- नवम (११)
- दशम (१२)
- एकादश (१)
- द्वादश (२ बृ.)
जन्मपति और अष्टमेशके मध्यमें चन्द्र-
मा हो और बृहस्पति १२वें हो तो २७वें वर्ष वा ३०वर्षकी उमरमें बालककी मृत्यु हो ॥६५॥
अथ ३२ वर्षे मरणम् ।
अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते ॥
त्रिंशद्वर्षमितायुष्मान् द्वात्रिंशद्वत्सरे मृतिः ॥ ६६ ॥
क्षीणे शशाङ्के यदि पापयुक्ते रन्ध्राधिपे केन्द्रगतेऽष्टमे वा ॥
पापान्विते हीनबले विलग्ने द्वात्रिंशदब्दे निधनं प्रयाति ॥ ६७ ॥
सरलार्थः ॥ ६६ ॥
अथ क्षीणे=कृष्णपक्षीये शशाङ्के = चन्द्रे
यदि पापग्रहेण युक्ते, रन्ध्राधिपेऽष्टमेशे केन्द्रे
( १।४।७।१० ) गते वाऽष्टमे गते, तथा
विलग्ने = जन्मलग्ने पापान्विते = पापग्रहयुक्ते
हीनबले च जातको द्वात्रिंशदब्दे निधन =
मरणं प्रयाति ।
[कुण्डली २ :]
- लग्न (६ रा.)
- द्वितीय (७)
- तृतीय (८)
- चतुर्थ (९ मं.)
- पञ्चम (१०)
- षष्ठ (११ चं. श.)
- सप्तम (१२ बु. र.)
- अष्टम (१)
- नवम (२)
- दशम (३)
- एकादश (४)
- द्वादश (५)
उदाहृते चक्रे ( मं० बु० ) अनेन प्रथमो
योगः । ( चं०श०रा०मं० ) अनेन द्वितीयो
योगो विचारणीयः ॥ ६७ ॥
अष्टमेश केन्द्रमें हो और लग्नेश बलसे रहित हो तो जातक ३० वर्ष की आयुवाला हो
और ३२ वें वर्ष में मृत्यु पावै ॥ ६६ ॥
यदि क्षीण चन्द्रमा पापग्रहसे युक्त हो, अष्टमेश केन्द्रमें वा अष्टममें हो, लग्नमें पापग्रह
हो और लग्न निर्बल हो तो वह बालक ३२ वें वर्षमें मरे ॥ ६७ ॥
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी पाठ्य-प्रतिलेखन (transcription) प्रस्तुत है:
अरिष्टाध्यायः ॥४॥ ११९
अथ अल्पायुर्भोगाः ।
षष्ठाष्टमे व्यये पापे लग्नेशे दुर्बले सति ॥
अल्पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥ ६८ ॥
क्रूरषष्ट्यंशके वाऽपि रन्ध्रेशे भानुजेऽपि वा ॥
पापान्विते पापखेचे चाल्पमायुर्विनिर्दिशेत् ॥ ६९ ॥
व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ ॥
क्रूरषष्ट्यंशसंयुक्तौ वाऽल्पमायुर्विनिर्दिशेत् ॥ ७० ॥
इति द्वात्रिंशद्वत्सरान्तर्भूतबालारिष्टयोगारिष्टस्वल्पायुर्भेदाः समाप्ताः ॥
अथाधुनाऽल्पायुर्भोगाः उच्यन्ते । लग्नात् षष्ठेऽष्टमे व्यये वा ( ६।८।१२ ) पापे विद्य-
माने लग्नेशे च दुर्बले = बलहीने तथा शुभग्रहाणां दृष्ट्या योगेन च रहिते जातोऽल्पायु-
र्वाऽनपत्यः = सन्तानहीनो भवति । अपि वा योगान्तरमुच्यते । रन्ध्रेशोऽष्टमेशेऽपि वा भानु-
जे = शनैश्चरे क्रूरषष्ट्यंशे ( प्रथमाध्याये षष्ट्यंशचक्रं विलोक्यम् ) विद्यमाने पापखेचे च
( रन्ध्रेशे ) पापान्विते जातस्याल्पमायुर्विनिर्दिशेदिति । अथवा लग्नात् व्ययार्थों = द्वादश-
द्वितीयौ, पापग्रहेण संयुक्तौ, शुभग्रहाणां दृष्ट्या रहितौ, तथा क्रूरषष्ट्यंशगतौ च भवेतां
तदा जातस्याल्पमायुर्विनिर्दिशेदिति ॥ ६८–७० ॥
अस्मिन् बालारिष्टप्रकरणे द्वात्रिंशद्वर्षान्तर्गतानां बालारिष्टयोगारिष्टाल्पायुषां भेदाः प्रवर्णिताः
अत्रोदाहरणे ( सू० शं० रा० मं० )
अनेन प्रथमो योगः । द्वितीययोगे ( म० बु०
श० ) अस्मिन् मं = ३।१।२०, श = ०।०।
२५। तृतीययोगे ( सू० रा० ) द्वितीयभावे
सू = १।४।२० द्वादशभावे रा = ११।५।५०।
इति प्रकल्प्य विवेचनीयम् । अत्र यान्युदाह-
रणानि दर्शितानि तानि कल्पनामात्राण्येव,
केवलं बालबोधार्थानीति ।
पापग्रह छठे, आठवें और बारहवें हों, लग्नेश बलरहित हो, शुभग्रहसे दृष्ट-युत न हो
तो वह बालक अल्पायु या अनपत्य (सन्तानरहित) होता है ॥ ६८ ॥
अष्टमेश या शनि क्रूरषष्ट्यंशकमें हों पाप पापग्रह युक्त हों तो अल्पायु जाने ॥ ६९ ॥
पापग्रहसे युक्त द्वादश द्वितीयभवन में हों और शुभग्रहकी दृष्टिसे हीन हों क्रूरषष्ट्यंशकमें
हों तो अल्पायु जाने ॥ ७० ॥
अथारिष्टभङ्गाः ।
अथाधुना पूर्वोक्तेष्वरिष्टयोगेषु सत्स्वपि कैश्चिद्ग्रहयोगैररिष्टानां परिहारो भवति, अतस्ते-
ऽरिष्टभङ्गयोगाः समुच्यन्ते—
अत्यन्तसत्त्वे यदि लग्ननाथे सौमDecide अत्यंतसत्त्वे यदि लग्ननाथे सौम Decidetal सौम Decidetal
अत्यन्तसत्त्वे यदि लग्ननाथे सौम Decidetal
अत्यन्तसत्त्वे यदि लग्ननाथे सौमDecidant
अत्यन्तसत्त्वे यदि लग्ननाथे सौमDecidant
अत्यन्तसत्त्वे यदि लग्ननाथे सौमDecide
अत्यन्तसत्त्वे यदि लग्ननाथे सौमDecide
अत्यन्तसत्त्वे यदि लग्ननाथे सौमDecide
अत्यन्तसत्त्वे यदि लग्ननाथे सौमDecide
अत्यन्तसत्त्वे यदि लग्ननाथे सौम्यान्विते तादृशदृष्टियोगे ॥
केन्द्रस्थिते पापद्दशा विहीने सद्भाग्ययुग् जीवति दीर्घमायुः ॥ ७१ ॥
लग्ननाथे=जन्मलग्नेशे, अत्यन्तसत्वे = पूर्णबलयुक्ते (स्ववर्गगतो ग्रहो भवति पूर्ण-
बलः ), सौम्यान्विते = शुभग्रहयुक्ते, तादृशानामर्थाच्छुभग्रहाणां दृष्टियोगे (शुभग्रहदृष्ट
इत्यर्थः ), केन्द्रस्थिते ( १।४।१०।७ भावगते ), पापग्रहाणां, दृशा = दृष्ट्या, विहीने
स जातोऽरिष्टयोगे सत्यपि, सद्भाग्ययुक्तमुत्तमसुखभोगादिसहितो दीर्घमायुश्चिरकालं जीवति ।
९ उक्तमपि—
(चित्र/कुण्डली चक्र का विवरण):
- १ (लग्न) : श.
- २ : सू.
- ३ : वृ.
- ४ : मं. बु.
- ५ : गु.
- ६ : सू.
- ८ : श.
- १० :
- ११ :
- १२ : रा.
११२ सटीकजातकपारिजाते-
“लग्नाधिपोऽतिबलवान्शुभैरदृष्टः केन्द्रस्थितैः शुभखगैरवलोक्यमानः ।
मृत्युं विधूय विदधाति स दीर्घमायुः सार्द्धं गुणैर्बहुभिरूर्जितया च लक्ष्म्या ॥”
इति, स्वल्पजातके ॥ ७१ ॥
अत्रोदाहरणे २२ श्लोकोक्तयोगेन (र०
मं०श०) सद्यो मरणम् । परञ्चानेनोक्त-(७१)
श्लोकयोगेनारिष्टभङ्गो जात इति चिन्त्यम् ।
यदि लग्नेश अत्यन्त बलवान् हो, शुभ-
ग्रहसे युक्त या दृष्ट हो, केन्द्रमें स्थित हो,
पापग्रहकी दृष्टिसे रहित हो तो वह जातक
सदा भाग्य से युक्त होकर दीर्घायु होता है ७१
अथ चन्द्रकृतोऽरिष्टभङ्गः ।
चन्द्रः सम्पूर्णगात्रस्तु सौम्यक्षेत्रांशगोऽपि वा ॥
सर्वारिष्टनिहन्ता स्याद् विशेषाच्छुक्रवीक्षितः ॥ ७२ ॥
सम्पूर्णगात्रः=पूर्णबिम्बश्चन्द्रो
अरिष्टाध्यायः ॥ ४ ॥ ११३
शशधरश्चन्द्रः, स्वोच्चस्थः=वृषगशिगतः, स्वगृहे=कर्कटे वा गतोऽथवा सुहृदां = स्वमि-
त्राणां वर्गे, वा सौम्यस्य=शुभग्रहस्य (बुधगुरुशुक्राणामन्यतमस्य) वर्ग स्थितो वा सम्पूर्णः=
परिपूर्णविम्बः शुभग्रहावलोकितो वा स्वकीये वर्गे न भवेत्तथाभूतश्चेच्छत्रूणामवलोकनेन
योगेन च रहितस्तथा पापग्रहाणां योगेन दृष्ट्या च रहितो भवेत्तदा सुदुस्तरमतीव कठिन-
मरिष्टं हन्ति। अत्रोपमा—यथा दिनमणिः = सूर्यः सुदुस्तरमतिगहनं प्रालेयराशि = तुषार-
जालं स्वकिरणैर्विनाशयति तथैवोक्तपरिस्थितिगतश्चन्द्रमा अरिष्टसङ्कुलमपि हन्तीति ॥ ७४ ॥
जैसे सूर्य अपने किरणोंके द्वारा अत्यन्त निविड़ कुहरों (पाला) को नाश करता है
उसी तरह चन्द्रमा अपने उच्च (वृष) में, या अपने गृह (कर्क) में, वा अपने मित्रोंके
वर्गमें, अथवा शुभवर्गमें, या पूर्णबिम्ब हो तथा शुभदृष्ट हो, वा अपने वर्गमें हो, ऐसा
होनेपर अपने शत्रुओंकी दृष्टि और योगसे सहित न हो, तो अति कठिन अरिष्टोंको
नाश करता है ॥ ७४ ॥
पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभदृष्टमूर्तिः ॥
तं चन्द्रमा रिपुविनाशगतोऽपि नूनमापत्सु रक्षति पितेव शिशुं प्रजातम् ॥ ७५ ॥
अथ शशिन्यरिविनाशग इत्यादि ३५ श्लोके यच्चन्द्रारिष्टमुक्तं तस्य परिहारोऽधुनो-
च्यते । यदि सिते = शुक्ले पक्षे क्षपायां = रात्रौ जन्म भवति, तथा कृष्णपक्षे अहनि=दिने
जन्म भवति, तथा क्रमेण शुभैरशुभैश्चावलोकितश्च चन्द्रो भवेत्तदा रिपुविनाशगतोऽपि=षष्ठा-
ष्टमभावगतोऽपि (चन्द्रः) प्रजातं शिशुमापत्सु नूनं = निश्चितमेव रक्षति । यथा पिताऽऽ-
त्मजमापत्सु यत्नेन रक्षति तथैवोक्तलक्षणलक्षितश्चन्द्रः षष्ठाष्टमगतोऽपि जायमानं शिशुमा
पत्स्वरिष्टेषु रक्षति, न मारयतीति भावः । तथा च—
बलक्षपक्षे यदि जन्म रात्रौ कृष्णे दिवाऽष्टारिगतोऽपि चन्द्रः ।
क्रमेण दृष्टः शुभपापखेटैः पितेव बालं परिपालयेत्सः ॥ इत्युक्तं जातकाभरणे ॥ ७५ ॥
शुक्लपक्षमें रात्रिमें जन्म हो और कृष्णपक्षमें दिनमें जन्म हो तो शुभाशुभदृष्ट मूर्ति
चन्द्रमा षष्ठ वा अष्टम स्थानमें प्राप्त होनेपर भी निश्चय जातककी रक्षा जिस प्रकार पिता
करता है उस प्रकार रक्षा करता है ॥ ७५ ॥
अथ गुरुकृतोऽरिष्टभङ्गः ।
केन्द्रोपगोऽतिबलवान् स्फुरदंशुमाली स्वर्लोकराजसचिवः शमयेदवश्यम् ।
एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त इव शूलधरे प्रणामः ॥७६॥
अतिबलवान् = वीर्योत्कटः, स्फुरदंशुमाली = देदीप्यमानकिरणवान्, स्वर्लोकराजसचिवः=
इन्द्रस्य मन्त्री (बृहस्पतिः), केन्द्रोपगः = १।४।७।१० भावानामन्यतमगतो यदि भवेत्तदा एक
एवासौ गुरुः सुदुस्तराण्यतिकठिनानि बहूनि = अनेकानि दुरितानि = पापानि (अरिष्टानि) अव-
श्यमेव शमयेन्नाशयेत्किमुतान्येपि शुभग्रहाः केन्द्रगताश्चेद्भवेयुरिति । यथा किल शूलधरे=
महादेवे भक्त्या प्रयुक्तः = विनम्रभावेन पुरस्कृत एकोऽपि प्रणामः सुदुस्तराणि बहूनि = विवि-
धजन्मकर्मार्जितानि, दुरितानि = कल्मषाणि, नाशयति तथैवैकोऽपि केन्द्रगतः पूर्णबलो गुरु-
र्जातकस्य विविधारिष्टानि नाशयतीति । उक्तमपि—
'लक्षान्दोषान् हन्ति देवेन्द्रमन्त्री केन्द्र प्राप्तः' इति ॥ ७६ ॥
पूर्ण-बलवान् और निर्मलबिम्बवाला वृहस्पति यदि केन्द्र (१।४।७।१०) में हो तो
वह अकेला भी अनेकों कठिन अरिष्टोंको अवश्य ही नाश करता है। जैसे भक्तिपूर्वक भीशङ्कर
जी के लिये एकबार भी किया हुआ प्रणाम कठिनसे कठिन पापोंको नाश करता है ॥७६॥
११४ सटीकजातकपारिजाते-
अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नेशो बलयुक्तश्चेत् त्रिकोणे वा चतुष्टये ॥
अरिष्टयोगजातोऽपि बालो जीवति निश्चयः ॥ ७७ ॥
सरलार्थः ॥ ७७ ॥
यदि लग्नेश बलवान् होकर त्रिकोण वा केन्द्रमें हो तो अरिष्टयोगमें भी उत्पन्न बालक
निश्चय जीवे ॥ ७७ ॥
अथ ग्रहकृतोऽरिष्टभङ्गः ।
यस्य जन्मनि तुङ्गस्थाः स्वक्षेत्रस्थानमाश्रिताः ॥
चिरायुषं शिशुं जातं कुर्वन्त्यत्र न संशयः ॥ ७८ ॥
तुङ्गस्थाः=स्वस्वोच्चराशिगताः, वा स्वक्षेत्रस्थानमाश्रिताः=आत्मीयराशिगता ग्रहाः ( बहु-
वचनात् त्र्यादिकाः ) यस्य जन्मनि =जन्मकाले भवेयुस्तं जातं, शिशुं=बालकं, चिरायुषं =
दीर्घजीविनं कुर्वन्त्यत्र न संशयः । त्र्यधिका उच्चस्थाः स्वराशिस्था वा अरिष्टनाशका भव-
न्तीति भावः ॥ ७८ ॥
जिसके जन्मसमयमें उच्चस्थ वा स्वगृहमें बहुत ग्रह हों तो वे ग्रह बच्चेको चिरायु
करते हैं इसमें संशय नहीं है ॥ ७८ ॥
अथ राहुकृतोऽरिष्टभङ्गः ।
राहुस्त्रिषष्ठलाभे लग्नात्सौम्यैर्निरीक्षितः सद्यः ॥
नाशयति सर्वदुरितं मारुत इव तूलसङ्घातम् ॥ ७९ ॥
अजवृषकर्किविलग्ने रक्षति राहुर्निरन्तरं बालम् ॥
पृथिवीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥ ८० ॥
लग्नात् त्रिषष्ठलाभे ( ३।६।११ ) गतो राहुः सौम्यैः = शुभग्रहैश्चेन्निरीक्षितो भवति
तदा सद्यः सर्वदुरितं = निखिलमरिष्टं नाशयति । तूलसङ्घातं = तूलराशि मारुतः = वायुरिवे-
त्युपमा । अथ राहुः, अज-वृष-कर्किविलग्ने = मेष-वृष-कर्कटानामन्यतमे लग्ने विद्यमान-
श्चेत्तदा जातं बालं निरन्तरं सततं रक्षति । न तदाऽरिष्टदोषोऽभिभवति । तथोक्तं च—
'राहुस्तृतीये षष्ठे वा लाभे वा शुभसंयुतः ।
तद्दृष्टो वा तदाऽरिष्टं सर्वं शमयति ध्रुवम् ।, इति शौनकेन ।
एवम्—'सुतजन्मोद्भवान् दोषान् हन्ति ध्वान्तं यथा रविः ।
राहुस्त्रिषष्ठलाभस्थः शुभग्रहानिरीक्षितः ॥
वृषकर्कजगो वाऽपि सर्वारिष्टविनाशकृत् ।' इति कालप्रकाशिकायाम् ॥
अत्रोत्तरार्धेनोपमोदाह्रियते । प्रसन्नः=प्रफुल्लितान्तःकरणो हि पृथिवीपति राजा ( क्षमा-
शीलो भूत्वा ) कृतापराधं = जातदोषं पुरुषं यथा रक्षति, तथैवोक्तलक्षणलक्षितो राहुररिष्टा-
दिदोषव्याप्तं बालकमनुकूलो रक्षति । इति ॥ ७९-८० ॥
राहु लग्नसे तीसरे, छठे या ग्यारहवें हो उसको शुभग्रह देखते हों तो जिस प्रकार रूई
की ढेरको वायु नाश करता है उसी प्रकार राहु सब कष्टों का संहार करता है ॥ ७९ ॥
मेष वृष कर्क लग्नमें राहु निरन्तर बालक की रक्षा उस प्रकार करता है जिस प्रकार
प्रसन्न राजा अपराधी पुरुषकी रक्षा करता है ॥ ८० ॥
अथ पुनश्चन्द्रकृतोऽरिष्टभङ्गः ।
निशाकरः शोभनवर्गयुक्तः शुभेक्षितः पूरितदीप्तिजालः ॥
जातस्य निःशेषमरिष्टमाशु निहन्ति यद्वद् गरलं गरुत्मान् ॥ ८१ ॥
सरलार्थः, ७२ श्लोकोक्तविषय एव पुनरुक्त इवाभाति ॥ ८१ ॥
पूर्णचन्द्रमा शुभवर्गमें प्राप्त हो उसको शुभग्रह देखते हों तो जातकके निःशेष अरिष्टका
उस प्रकार नाश करता है जैसे जहरीले सर्पका गरुड नाश करता है ॥ ८१ ॥
अथ राशीशकृतोऽरिष्टभङ्गः ।
चन्द्राधिष्ठितराशीशे लग्नस्थे शुभवीक्षिते ॥
भृगुणा वीक्षिते चन्द्रे स्वोच्चेऽरिष्टं हरेत्तदा ॥ ८२ ॥
चन्द्रो यस्मिन् राशावधिष्ठितो भवेत्तस्य राशेरीशे = स्वामिनि, लग्नस्थे = जन्मलग्नगते
शुभग्रहेण वीक्षितेऽवलोकिते च, तथा चन्द्रे स्वोच्चे = वृषराशिगते तथाभूते भृगुणा = शुक्रेण
वीक्षिते च जातस्यारिष्टं हरेन्नाशयेदिति ॥ ८२ ॥
चन्द्रराशीश लग्नमें हो उसको शुभग्रह देखते हों और उच्चस्थ चन्द्रमा शुक्रसे देखा
जाता हो तो अरिष्टको हरता है ॥ ८२ ॥
अथ लग्नेशकृतोऽरिष्टभङ्गः ।
११६ सटीकजातकपारीजाते-
ति । तत्र मध्यमायुषः प्रमाणमुच्यते-द्वात्रिंशद्वत्सरा-( ३२ ) दुपरि सप्तति-( ७० )
वर्षपर्यन्तं मध्यमायुरिति ।
अथात्र प्रसङ्गात् मध्यायुषः केचन भेदा ग्रन्थान्तरसङ्गृहीता विलिख्यन्ते ।
चतुरस्रगताः पापा लग्नात्कुर्वन्ति मध्यमायुष्यम् ।
चन्द्रात्तथैव दिवसैः सौम्यैरनवीक्षिता न शुभयुक्ताः ॥
सौम्यैः पापांशकार्कैस्त्यैः पापैः केन्द्रगतैस्तथा । मध्यमायुरयं योगः सौम्यैः केन्द्रविवर्जितैः ॥
सुतदशमे सौम्यैः स्यान्निधने रव्यान्विते व्यये चन्द्रे । गुरुशुक्रावेकगतौ जातस्तत्रैव मध्यायुः॥
पापग्रहे रन्ध्रपतौ सचन्द्रे केन्द्रस्थिते वा यदि वा त्रिकोणे ।
निरीक्षिते पापखगैर्नभस्यैर्जातस्त्वयस्त्रिंशदुपैति वर्षम् ॥
चन्द्रे कुजर्क्षे तनुगे प्रहृष्टे क्रूरग्रहः शोभनखेचरैन्द्रैः ।
केन्द्राद्वहिस्थ्यैर्निधनं प्रयाति वर्षेस्त्रयस्त्रिंशसमानकैस्तु ॥
लग्ने शनौ रात्रिकरेण युक्ते भौमे घटस्थे सुरसङ्घ ( ३३ ) वर्षैः ॥
गुरुशुक्रौ च केन्द्रस्थौ लग्नेशे पापसंयुते । आपोक्लिमस्थे सन्ध्यायां जातस्यायू रवित्रयम्(३६)
पापमध्यगते सूर्ये लग्नस्थे शत्रु वेश्मनि । जातश्च रोगपीडार्त्तः परमायू रवित्रयम् ( ३६ )
क्रूरान्तरे लग्नगते तदीशे युग्मस्थिते देवगुरौ रिपुस्थे ।
जातस्तु मृत्युं मुनिवह्नि ३७ वर्षैः प्रयाति शास्त्रज्ञपरैः प्रदिष्टम् ॥
अष्टमपतौ विलग्ने स्थिरराशौ जायते नरो यस्तु ।
चत्वारिंशद्वर्षैः ( ४० ) मरणं रन्ध्रे न शुभयुक्ते ॥
लग्नेश्वरे रन्ध्रगते सपापे केन्द्राद्वहिस्थे यदि सौम्यखेटे ।
चत्वारिंशद्वत्सरे ४० मृत्युमेति जातः पुत्रौ नाऽयथा शास्त्रमेतत् ॥
सभूमिजे रन्ध्रपतौ विलग्ने राशौ स्थिरे वा यदि वा धराजै ।
रिःफेऽष्टमे मृत्युमुपैति जातस्त्वब्दैर्द्विचत्वारि ४२ समानकैर्वा ॥
केन्द्रे गुरौ कर्मणि सूर्यपुत्रे लग्ने चरे वेदयुगैः ४४ समानैः ॥
अष्टमाधिपतौ केन्द्रे भौमे लग्नं समाश्रिते । अर्कार्कजौ त्रिषष्ठस्थौ जीवेद्रुद्रचतुष्टयम् (४४) ॥
स्वोच्चे विलग्ने क्षितिनन्दने च जीवेऽस्तगे कर्मणि सूर्यपुत्रे ।
जातो धनाढ्यो बहुशास्त्रवेत्ता वेदाब्धि ( ४० ) वर्षेर्निधनं प्रयाति ॥
जन्माधिपे रन्ध्रगते सपापे पापान्विते लग्नपतौ रिपुस्थे ।
बलान्विते वा शुभदृग्विमुक्ते पञ्चाब्धि ( ४५ ) वर्षेर्निधनं प्रयाति ॥
मेषे शशाङ्के तनुगे सुपूर्णे सौम्येक्षिते भूपतिरत्र जातः ।
पापग्रहाणां च दशाविहीने नागाब्धि ( ४८ ) वर्षेर्निधनं प्रयाति ॥
वर्गोत्तमांशगे चन्द्रे लग्नस्थे पापवीक्षिते । सौम्यैर्बलविहीनैश्च द्वादशाब्दचतुष्टयम् (४८) ॥
लग्नेशे निधनांशस्थे लग्नांशे निधनेश्वरे । पापयुक्तो तदा जातः पञ्चाशद्वर्षजीवितः ॥
द्विशरीरोदयजाते मन्दे चन्द्रे व्ययेऽष्टमे चाऽपि ।
जातस्तत्र मनुष्यो जीवेद्वर्षाणि द्विपञ्चाशत् ( ५२ ) ॥
शनैश्चरो लग्नगतः सहायस्त्वन्येन चन्द्रो व्ययमेऽष्टमाः स्युः ।
वेदान्तविज्ञानसुशीलवृत्तो जातस्तु मृत्युं नयनेषु ५२ वर्षैः ॥
चापे गुरौ लग्नगतेऽष्टमस्थे भौमे सराहौ मुनिबाण ५७ वर्षे ।
रन्ध्रेश्वरे कामगते शशाङ्के पापान्विते षन्मृतिगेऽष्टबाणै(५८) ॥
अरिष्टाध्यायः ॥ ४ ॥ ११७
शन्यंशे लग्नेशे निधनेशसमन्विते निशानाथे ।
षष्ठेऽष्टमे व्यये वा जीवे जातोऽष्टपञ्चाशत् (५८) ॥
षष्ठाष्टमव्ययगतैर्महैः समस्तैर्नृपालयोगे च । अस्मिन् योगे जातः परमायुश्चाष्टपञ्चाशत् ॥५८॥
यस्य केन्द्रे पापयुक्ते लग्ने क्रूरविवर्जिते । षष्टिशतं परं नास्ति पापैः पञ्चमसंस्थितैः ॥
लग्नेशे व्ययसंस्थे च क्षीणे पापयुतेऽपि वा । षष्टिवर्षात्परं नास्ति न लग्ने च बृहस्पतिः ॥
लग्नाधीशामृत्युषष्ठव्ययस्थाः पापाः सन्तो नैधनं वर्ज्यसंख्याः ।
अस्मिन् योगे जायते यो मनुष्यस्तस्यायुः स्यात् षष्टिवर्षं ६० प्रदिष्टम् ॥
सौरे विलग्ने, हिबुके शशाङ्के, कुजे कलत्रे, गगने दिनेशे ।
कवौज्यसौम्येष्विह तैर्युतेषु नरेश्वरो जीवति वर्षषष्ठ्या ॥
लग्नाधिमाने विबुधारिपूज्ये बुधैज्यचन्द्रैः परिपश्यमाने ।
जातं नरं भूमिपतिं धनाढ्यं करोति षष्ठ्या सुतमेन्द्रपूज्ये ॥
सिते विलग्ने बुधभास्करात्मजौ चतुष्टयस्थाः परमोच्चखेचराः ।
तृतीयलाभर्क्षगतास्तु योगे महीपतिः स्यान्निधनं च षष्ठ्या ॥
सरन्ध्रगे देवगुरौ विलग्ने कुम्भे सपापे यदि केन्द्रराशौ ।
सर्वज्ञानां पुण्यवान् शास्त्रवेत्ता जातस्तु षष्ठ्या ६० निधनं प्रयाति ॥
केन्द्रे सपापे तनुपे व्ययस्थे लग्नेश्वरे रन्ध्रगते हि वह्नौ ।
लोकान्तरं प्रापयति प्रजातं कुशीलवृत्तं कुलपांसनं तम् ॥
होराजन्माधिपती केन्द्रगतौ मृत्युनाथसंयुक्तौ ।
लग्नचतुष्टयहीने देवगुरौ पञ्चषष्टि ६५ वर्षान्तम् ॥
चन्द्रे विलग्ने स्वगृहे प्रयाते नीचे शनौ भास्करे सप्तमे च ।
अस्मिन् योगे मानुषो ज्ञातिमुख्यो जीवेत् षष्टिः पञ्चभिः सम्प्रयुक्ता (६५) ॥
होराजन्माधिनाथौ निधनमुपगतौ मृत्युनाथे च केन्द्रे
योगे जातो नरोऽस्मिन् जनयति न परं कीर्तिवित्तान्वितं च ।
षष्ठ्यां षड्भिर्युतायां (६६) निधनमभिहितं नन्दकोके तदिघ्नम्
वर्षे त्रिशोऽथवा स्यात्त्वखिलमिति खगैर्जयते पार्थिवेन्द्रः ॥
जीवे विलग्ने बुधसूर्ययुक्ते मीने शनौ द्वादशे शीतरश्मौ ।
जातो योगे चार्यवान् मृत्युभाक् च जीवेत् षष्ठ्या षट्सहायो (६६) मनुष्यः ॥
नक्षत्रनाथसहितः सविता नभस्थः सौरिर्विलग्नसहितो हिबुके सुरेज्यः ।
अस्मिन् योगे जायमानो मनुष्यः क्षोणीपतिनैधनमष्टषष्ठ्या (६८) ॥
अर्ककुजमन्दयुक्ते बलवर्जिते देवराट्पूज्ये ।
चन्द्रो व्यये सुते वा सप्ततिवर्षाणि (७०) जीवति प्रायः ॥
नीचे मन्दे केन्द्रगे वा त्रिकोणे सौम्ये केन्द्रे भास्करे वा ससौम्ये ।
योगे जातः पण्डितो धर्मशीलो ज्ञानी प्राज्ञः सप्ततेर्वत्सराणाम् ॥
प्रबले केन्द्रगे सौम्ये निधने सौम्यवर्जिते । लग्नाधिपेन दृष्टश्चेत्यापैर्जीवति सप्ततिम् (७०) ॥
पञ्चमस्थे धरासूनौ नीचे मन्देऽस्तगे रवौ ।
अस्मिन् जातो मनुष्यस्तु सप्तत्यां ७० निधनं व्रजेत् । इति ॥ ८४ ॥
लग्नेश बलरहित हो और बृहस्पति केन्द्र ( १।४।७।१० ) त्रिकोण ( ५।९ ) में हो,
और छठें आठवें बारहवें पापग्रह हों तो मध्यमायु होती है ॥ ८४ ॥
११८ सटीकजातकपारिजाते-
बत्तीस वर्षके बाद ७० वर्ष पर्यन्त मध्यमायुका योग होता है।
अथ पूर्णायुःप्रदा योगाः।
चतुष्टये शुभैर्युक्ते लग्नेशे शुभसंयुते ॥
गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत् ॥ ८५ ॥
केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते ॥
ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ ८६ ॥
उच्चान्वितैस्त्रिभिः खेटैर्लग्न रन्ध्रे शसंयुतैः ॥
रन्ध्रे पापविहीने च दीर्घमायुर्विनिर्दिशेत् ॥ ८७ ॥
रन्ध्रेस्थितैस्त्रिभिः खेटैः स्वोच्चमित्रस्ववर्गगैः ॥
लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ॥ ८८ ॥
स्वोच्चस्थितेन केनापि खेचरेण समन्वितः ॥
शनिर्वा रन्ध्रनाथो वा दीर्घमायुर्विनिर्दिशेत् ॥ ८६ ॥
त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ॥
लग्नेशो बलसंयुक्तः पूर्णमायुर्विनिर्दिशेत् ॥ ६० ॥
षट्सप्तरन्ध्रभावेषु शुभेषु सहितेषु च ॥
त्रिषडायेपु पापेषु दीर्घमायुर्विनिर्दिशेत् ॥ ६१ ॥
रिःफशत्रुगताः पापा लग्नेशो यदि केन्द्रगः ॥
रन्ध्रस्थानगता पापाः कर्मेशः स्वोच्चराशिगः ॥
योगद्वयेऽपि दीर्घायुरुपैति बहुसम्मतम् ॥ ६२ ॥
रन्ध्रे शस्तगृहधीशो यस्मिन् राशौ व्यवस्थितः ॥
तदीशोलग्ननाथश्च केन्द्रगो यदि तादृशम् ॥ ६३ ॥
द्विस्वभावं गते लग्ने तदीशे केन्द्रगेऽपि वा ॥
स्वोच्चमूलत्रिकोणो वा चिरं जीवति भाग्यवान् ॥ ६४ ॥
द्विस्वभावं गते लग्ने लग्नेशात् केन्द्रगौ यदि ॥
द्वौ पापौ यस्य जनने तस्यायुर्दीर्घमादिशेत् ॥ ६५ ॥
चरांशकस्था रविमन्दभौमाः स्थिरांशकस्थौ गुरुदानवेज्यौ ॥
शेषाश्च युग्मांशगता यदि स्युस्तदा समुद्भूतनरः शतायुः ॥ ६६ ॥
अथाधुना येषु योगेषु समुद्भूवा मनुजाः पूर्णमायुष्यं भजन्ति ते योगाः समुच्यन्ते ।
तत्र सरलार्था अपि श्लोका बालबोधार्थं व्याख्यायन्ते । चतुष्टये=केन्द्रे ( १।४।७।१० )
शुभैः = शुभग्रहैर्युक्तेऽर्थाच्छुभग्रहाः केन्द्रवर्तिनो भवेयुः, लग्नेशे शुभग्रहाणामन्यतमेन
संयुक्ते, गुरुणा दृष्टिसंयोगे = बृहस्पतिनावलोकिते लग्नेशे जातस्य पूर्णमायुः ( सप्तत्यूर्ध्वं
शतान्तं ) विनिर्दिशेत्(१) ॥ ८५ ॥
विलग्नेशे = जन्मलग्नपतौ केन्द्रान्विते ( १।४।७।१० भावानामन्यतमगते ) गुरुणा
शुक्रेण च समन्विते वा ताभ्यां = गुरुशुक्राभ्यां केन्द्रगते लग्नेशे निरीक्षितेऽपि जातस्य पूर्ण-
मायुः विनिर्दिशेदिति(२) ॥ ८६ ॥
त्रिभिः शुभैः पापैर्वा खेटैः = ग्रहैः उच्चान्वितैः = स्वस्वोच्चराशिगतैस्तथाभूतैर्लग्नेशेन,
रन्ध्रेशेनाष्टमभावपतिना च संयुतैस्तथा रन्ध्रेऽष्टमे भावे पापविहीने = पापग्रहरहितेऽस्मिन्
योगे जातस्य दीर्घमायुः विनिर्दिशेदिति(३) ॥ ८७ ॥
अरिष्टाध्यायः ॥ ४ ॥ ११६
त्रिभिः खेटैः (पापैः शुभैर्वा) रन्ध्रस्थितैरष्टमभावगतैः, वा स्वोच्चराशिगतैर्वा
स्वमित्राणां वर्गगतैर्वा स्ववर्गंगतैश्च तथा लग्नेशे = जन्मलग्नाधिपतौ बलसंयुक्ते (स्ववर्गादि-
गते) जातस्य दीर्घमायुर्विनिर्दिशेदिति (४) ॥ ८८ ॥
यस्य जन्मकाले यत्र तत्र गतः शनिवा रन्ध्रनाथोऽष्टमेशः स्वोच्चस्थितेनात्मोच्चराशि-
गतेन केनापि खेचरेण = ग्रहेण समन्वितो भवति तस्य जातस्य दीर्घमायुर्विनिर्दिशेदिति (५) ॥
यस्य जन्मकाले पापाः (रविभौमशनिसपापबुधक्षीणोन्दुराहुकेतवः) त्रिषडाय-
(३।६।११) गताः, शुभाः (बुधगुरुशुक्रशुक्लचन्द्राः) केन्द्रत्रिकोण- (१।४।७।१०।५।९)
गताः स्युस्तथा लग्नेशो बलसंयुक्तो भवेत्तस्य जातस्य पूर्णमायुर्विनिर्दिशेद
१२० सटीकजातकपारिजाते-
युग्मांशगताः = द्विस्वभाव=( ३।६।९।१२ ) राशीनां नवांशगतः स्युस्तदाऽस्मिन् योगे
समुद्भूतः = जातो नरः शतायुः = वर्षशतं जीवेदिति (१३) ॥ ६६ ॥
अथ पूर्वोक्तेषु ( १३ भेदेषु ) दीर्घायुर्योगेषु दीर्घायुषः प्रमाणमुच्यते सप्तत्युपरिश-
तान्तं पूर्णमायुः = सप्ततिवर्षा-(७०) दूर्ध्वं शतान्तं ( १०० वर्ष ) यावत् पूर्णायुः
( दीर्घायुः ) भवतीति ।
चतुष्टय ( १।४।७।१० ) भाव शुभग्रहसे युक्त हो लग्नेश शुभग्रहसे युक्त हो और गुरुसे
देखा जाता हो तो पूर्ण आयुको देता है ॥ ८५ ॥
केन्द्रस्थ लग्नेश गुरु और शुक्रसे युक्त हो वा गुरु और शुक्र उसे देखते हों तो पूर्णायु
को देता है ॥ ८६ ॥
तीन ग्रह उच्चराशिके हों लग्नेश और अष्टमेशसे युक्त हों, तथा अष्टम स्थान पापग्रहसे
रहित हो तो पूर्णायुको देता है ॥ ८७ ॥
अष्टमभावमें तीनग्रह हों या अपनी उच्चराशिके मित्रस्थानके वा अपने वर्ग के हों और
लग्नेश बलवान् हो तो दीर्घायुको देता है ॥ ८८ ॥
उच्चराशिमें स्थित कोई भी ग्रह हो उससे शनि वा अष्टमेश युक्त हो तो दीर्घ आयुको
देता है ॥ ८९ ॥
पापग्रह तृतीय, एकादश, षष्ठ स्थानमें हों शुभग्रह केन्द्र-त्रिकोणमें हों और लग्नेश बली
हो तो पूर्णायुको देते हैं ॥ ९० ॥
शुभग्रहसे युक्त षष्ठ, सप्तम और अष्टम भाव हों और तीसरे, ग्यारहवें, छठे पापग्रह हों
तो दीर्घायु को करते हैं ॥ ९१ ॥
पापग्रह १२ वें ६ ठें हों और यदि लग्नेश केन्द्रमें बैठा हो, वा अष्टमस्थानमें पापग्रह हों
और वृषमेश अपनी उच्चराशिमें हो तो बहुत पंडितों का संमत है कि इन दोनों योगोंसे
दीर्घायु होती है ॥ ९२ ॥
अष्टमेश जिस भावमें हो उसका स्वामी जिस राशिमें स्थित हो उस राशिका स्वामी
और लग्नेश केन्द्रमें हों तो दीर्घायु होती है ॥ ९३ ॥
जिसका द्विस्वभाव लग्नमें जन्म हो, लग्नेश केन्द्रस्थ हो वा अपनी उच्च राशिका वा
मूलत्रिकोणका हो तो वह चिरकाल तक जीये और भाग्यशाली होवे ॥ ९४ ॥
जिसके जन्मसमयमें द्विस्वभाव लग्न हो और लग्नेशसे केन्द्रमें दो पापग्रह हों तो
उसकी दीर्घायु होती है ॥ ९५ ॥
सूर्य, शनि और मंगल चरराशिके नवांशमें हों, बृहस्पति और शुक्र स्थिर राशिके
नवांशमें हो, और शेष ( चं० बु० रा० के० ) ग्रह द्विस्वभाव राशिमें स्थित हों तो इस
योगका उत्पन्न मनुष्य सौ वर्ष तक जीवित रहता है ॥ ९६ ॥
अथ पूर्णायुषः प्रमाणम् ।
सप्तत्युपरिशतान्तं पूर्णमायुः ।
सत्तर वर्षके बाद सौ वर्ष पर्यन्त पूर्णायु होती है ।
अथ योगविशेषात् युगान्तमायुः ।
मन्दांशकस्था रविजीवभौमा धर्मस्थितास्तन्नवभागसंस्थाः ।
बलान्विता लग्नगतो हिमांशुर्युगान्तमायुः श्रियमादधाति ॥ ६७ ॥
रविजीवभौमाः=सूर्यवृहस्पतिमङ्गलाः, मन्दस्य=शनैश्वरस्य (१०।११राश्योः) अंशके=
नवांशे यत्र तत्र स्थिताः स्युः, वा त एव धर्मस्थिताः = नवमभावगतास्तन्नवभागसंस्थाः =
तस्यैव नवमभावराशेर्नवांशे स्थिता एवं बलान्विताश्च भवेयुस्तथा बलान्वितो हिमांशु-
श्चन्द्रो लग्नगतो भवेत्तदा जातस्य युगान्तं जातयुगसमानमायुः, श्रियं=सम्पत्तिमादधाति ।
तथोक्तं होराप्रकाशे—
अरिष्टाध्यायः ॥ ४ ॥ १२१
मन्दांशकस्थौ रविभौमजीवा धर्माश्रिताः कर्मयुताः बलोत्थाः ।
राश्यावसाने हिमगौ विलगने युगान्तमायुः श्रियमादधाति ॥ इति ॥
सूर्य, गुरु, और भौम शनि के नवांशमें स्थित हों, या नवमभावमें वा उसके नवांशमें
बलवान् हों और लग्नमें चन्द्रमा हो तो लक्ष्मीयुत युगान्त आयु होती है ॥ ९७ ॥
अथ मुनित्वप्रदो ग्रहयोगः ।
एकांशभागौ गुरुसूर्यपुत्रौ धर्मस्थितौ वा यदि कर्मसंस्थौ ।
अर्कोदये सौम्यनिरीक्ष्यमाणौ मुनिर्भवेदत्र भवश्चिरायुः ॥ ९८ ॥
[कुण्डली १]
- १ (लग्न) : सू.
- २ : शु.
- १२ : बु.
- १० : बृ. ३ शं ३. १०
धर्मस्थितौ=नवमगतौ यदि वा कर्मसंस्थौ=
दशमगतौ गुरुशनी एकांशभागौ=तुल्यनवां-
शगतौ, सौम्यैः=शुभग्रहैर्निरीक्ष्यमाणौ=दृष्टौ
च भवेतां तथा अर्कोदये = सूर्यस्योदयेऽर्का-
ङ्गगनस्थः सूर्यो भवेत् तदाऽत्रास्मिन् योगे
भवः=जातश्चिरायुर्दीर्घजीवी मुनिः = तपस्वी
भवेदिति ॥ ९८ ॥
बृहस्पति और शनि एक ही अंशके होकर धर्म में (९) वा कर्म (१०) में स्थित हों
सूर्योदयमें शुभग्रहसे देखे जाते हों तो इस योगमें उत्पन्न होनेवाला चिरायुमुनि (तपस्वी)
होता है ॥ ९८ ॥
अथ अमितायुः ।
गुरुशशिसहिते कुलीरलग्ने शशितनये भृगुजे च केन्द्रयाते ।
भवरिपुसहजोपगैश्च शेषैरमितमिहायुरनुक्रमाद्दिना स्यात् ॥ ६६ ॥
[कुण्डली २]
- ४ (कर्क - लग्न) : चं. गु.
- ५ : ५
- ६ : र. ६
- ७ : ७ बु. शु.
- ८ : ८
- ९ : ९ रा. मं.
- १० : श.
- ११ : के.
कर्कटो राशिलंग्नं भवेत्तस्मिन् गुरुचन्द्रौ
भवेतां, बुधः शुक्रश्च केन्द्रगतौ भवेतां, शेषाः
(सूर्य-भौम-शनि-राहु-केतवः) पापाः भव-
रिपुसहजेषु (११।६।३) उपगताश्चेद्वेध्रवेयुस्त-
देहास्मिन् योगे जातस्यानुक्रमाद्दिना=गणि-
तागतं विनैवामितमप्रमाणमायुः स्यादर्थाद-
स्मिन् योगे जातस्यायुर्गणना न कार्या, तस्या-
सम्भवत्वादिति । उक्तं च सारावल्याम्—
“कर्किलग्ने गुरुः सेन्दुः केन्द्रगौ बुधभार्गवौ ।
शेषैस्त्रिषष्ठलाभस्थैरमितायुर्भवेन्नरः ॥ इति ॥ ९९ ॥
कर्क लग्न हो उसमें बृहस्पति और चन्द्रमा हों, बुध और शुक्र केन्द्रमें बैठे हों, शेष ग्रह
(सू० मं० श० रा० के०) ग्यारहवें छठे तीसरे स्थानमें हों तो अमित आयु होती है ॥ ९९ ॥
अथ देवसादृश्यप्रदा ग्रहस्थितिः ।
त्रिकोणे पापनिर्मुक्ते केन्द्रे सौम्यविवर्जिते ।
रन्ध्रे पापविहीने च जातस्त्वमरसन्निभः ॥ १०० ॥
शन्यादिभौमपर्यन्तं लग्नादौ खेचराः स्थिताः ।
वैशेषिकांशसंयुक्ता जातस्त्वमरसन्निभः ॥ १०१ ॥
पापग्रहाः त्रिकोणे ( ५।९ ) न भवेयुः, शुभग्रहाः केन्द्रे ( १।४।७।१० ) न भवेयुः,
अष्टमेऽपि भावे पापग्रहरहिते जातोऽमरसन्निभः = देवतुल्यो भवति ॥ १०० ॥
१२२ सटीकजातकपारिजाते-
शन्यादिभौमपर्यन्तं = शनिमारभ्य कुजावधिकाः खेचराः = ग्रहा लग्नादौ = लग्नादिभावे
स्थितास्तथा सन्तो वैशेषिकांशसंयुक्ताः = दशवर्गे तत्कालविचारेण द्वित्र्यादिस्ववर्गे वर्तमानाः
(अ० १ श्लो० ४४-४७) चेद् भवेयुस्तदा जातोऽमरसन्निभः = देवतुल्यो भवेत् ॥ १०१॥
त्रिकोणमें पापग्रह न हों और केन्द्रमें शुभग्रह न हों अष्टमभाव पापग्रहसे रहित हो ऐसे
योगमें उत्पन्न जातक देवताके सदृश होता है ॥ १०० ॥
लग्नादि भावोंमें शनिसे लेकर मंगल पर्यन्त ग्रह स्थित होकर अपने २ वैशेषिकांशके हों
तो जातक देवता के तुल्य होवे ॥ १०१ ॥
अथ असङ्ख्यायुःप्राप्तिः ।
मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोगृहमध्यमांशे ।
सिंहासनांशे यदि वा धराजे जातस्त्वसङ्ख्यातमुपैति मन्त्रैः ॥ १०२ ॥
इदानीमसङ्ख्यायुर्योग उच्यते । मेषान्त्यलग्ने = मेषराशेरन्तिमो भागो लग्नं भवेत्तस्मिन्
सगुरौ वा भृगौ = बृहस्पतिर्वा शुक्नो गतो भवति, निशाकरे = चन्द्रे, गोगृहमध्यमांशो = वृषरा-
शेर्मध्यमे (५) नवांशे विद्यमाने, तथा धराजे = भौमे सिंहासनांशे = स्वकीयपञ्चवर्गे स्थिते
जातस्तु मन्त्रैः = मन्त्रादीनामनुष्ठानैरसङ्ख्यातं = सङ्ख्यारहितमायुरुपैति । उक्तयोगे जातो नरो
मान्त्रिको भवति तथा मन्त्रादीनां जपादिवलेनातिदीर्घजीवित्वमाप्नोतीति भावः ॥ १०२ ॥
मेषका अन्त्यलग्न गुरु या शुक्रसे युत हो और चन्द्रमा वृषके मध्य नवांशमें हो मंगल
अपने सिंहासनांशमें हो तो जातक मन्त्रबलसे असंख्यायु होवे ॥ १०२ ॥
अथ मुनिसमत्वम् ।
देवलोकांशके मन्दे भौमे पारावतांशके ।
सिंहासने गुरौ लग्ने जातो मुनिसमो भवेत् ॥ १०३ ॥
इदानीं मुनित्वप्राप्तियोग उच्यते । यस्य जन्मकाले मन्दो देवलोकांशके = स्वसप्तवर्गे,
भौमः पारावतांशके = स्वकीयषड्वर्गे, गुरुः सिंहासने = स्वकीयपञ्चवर्गे लग्ने च भवेत्स जातो
मुनिसमो भवेत् ॥ १०३ ॥
शनि देवलोकांशमें हो मंगल पारावतांशमें हो और गुरु सिंहासनांशका लग्नमें हो तो
जातक मुनिके सदृश होवे ॥ १०३ ॥
अथ युगान्तमायुः ।
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।
त्रिकोणे कर्कटे लग्ने युगान्तं स तु जीवति ॥ १०४ ॥
गुरौ केन्द्रे वर्त्तमाने गोपुरांशे = स्वकीयचतुर्वर्गे च प्राप्ते, शुक्रे त्रिकोणे ( ९।५ )
गते पारावतांशके स्वषड्वर्गे प्राप्ते, कर्कराशौ लग्ने च जातो नरो यः स तु युगान्तं
यावज्जीवति ॥ १०४ ॥
गुरु गोपुरांशका होकर केन्द्रमें हो, शुक्र पारावतांशमें त्रिकोणमें हो, कर्क लग्न हो तो
वह युगान्त पर्यन्त जीवित रहता है ॥ १०४ ॥
अथ ब्रह्मपदप्राप्तिः ।
चापांशे कर्कटे लग्ने तस्मिन् देवेन्द्रपूजिते ।
त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं व्रजेत् ॥ १०५ ॥
लग्ने सेज्ये भृगौ कामे कन्यायामुडुनायके ।
चापे मेषांशके लग्ने जातो याति परं पदम् ॥ १०६ ॥
यस्य जन्मकाले कर्कराशिलग्नं स्यात्तस्मिन्धनुराशेर्नवांशो भवेत्तथा तत्र बृहस्पतिः
स्थितो भवेत् त्रयो वा चत्वारो ग्रहाः केन्द्रे भवेयुः तदा स जातो ब्रह्मपदं = ब्रह्मसायुज्यं
अरिष्टाध्यायः ॥ ४ ॥ १२३
व्रजेत् । अस्मिन् योगे जातो नरो ज्ञानी भवति, तथा ज्ञानाग्निदग्धाखिलपुण्यपापः सन्
मोक्षभागभवति ॥ १०५ ॥
तथा च लग्ने गुरुर्भवेत्, सप्तमे भृगुः (शुकः) भवेत्, कन्यायां चन्द्रो भवेत्, धनुराशौ
मेषनवांशके लग्नं भवेत्तदाऽस्मिन् योगे जातोऽपि परं पदं=ब्रह्मसायुज्यं याति ॥ १०६ ॥
कर्कलग्न धनुके अंश ( १६ अं० ४० क० के बाद २० अं० तक ) का हो उसपर गुरु हो,
तीन या चार ग्रह केन्द्रमें हों तो जातक ब्रह्मपदको प्राप्त करे ॥ १०५ ॥
जिसके जन्म समयमें धनु राशिमें मेषका नवांश याने ८।१६।२०॑ लग्न हो उसमें बृहस्पति
हो, ७ वें भावमें शुक्र हो और कन्या राशिमें चन्द्रमा हो वह जातक परमपद याने मोक्ष प्राप्त
करता है । (सु. शा. कार) ॥ १०६ ॥ ( २ )
┌──────┬──────────────┬──────┐ ┌──────┬──────────────┬──────┐
│ ५ │ ल. २०॑ बृ. │ ३ │ │ │ १० │ ८ │
│ ६ │ ४ │ २ │ │ ११ │ ९ वृ. ल. ३ │ │
├──────┼──────────────┼──────┤ │ │ │ ७ │
│७ शु.र│ मोक्षयोगः १ │ १ चं.│ │ १२ │ │ ६ चं.│
├──────┼──────────────┼──────┤ │ │ │ │
│ ८ │ │ ११ │ │ १ │ ३ शु. │ ५ │
│ ९ │ १० मं. श. │ १२ │ │ │ २ ४ │ │
└──────┴──────────────┴──────┘ └──────┴──────────────┴──────┘
अथ आयुषः सप्तविधता ।
बालारिष्टं योगसञ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः ।
दिव्यं योगाभ्यासमन्त्रक्रियाद्यैरायुः सप्तैतानि सङ्कीर्तितानि ॥ १०७ ॥
इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते
बालारिष्टाध्यायः चतुर्थः ॥ ४ ॥
𑁍𑁍𑁍
अथेदानीमायुषः सप्त भेदा निरूप्यन्ते । प्रथमं बालारिष्टं वर्षाष्टकं यावत् । द्वितीयं
योगसञ्जातं विंशतिवर्षं यावत् । तृतीयमल्पमल्पायुरिति द्वात्रिंशद्यावत् । तेषां त्रयाणां
भङ्गादतिक्रमणाच्चतुर्थं मध्यममायुः सप्ततिपर्यन्तम् । ततो दीर्घमायुः शतान्तं तत्पञ्चमम् ।
ततो दिव्यं देवतुल्यमायुस्तत्षष्ठम् । ततोऽप्यूर्ध्वं योगाभ्यासमन्त्रक्रियाद्यैर्जातमसङ्ख्यमा-
युस्तत्सप्तममिति सप्त भेदा भवन्त्यायुषः । तेषां पूर्वपूर्वस्य भङ्गाययोत्तरं वर्द्धते । अथा-
युषां प्रमाणभेदा ये प्रदर्शितास्ते सत्यपि ग्रहयोगे न भवन्ति सर्वेषामनाचारादिदुष्टक्रिया-
निरतानाम् । तथोक्तं चायुःप्रकरणे केशवेन—
"स्याद्दिष्टं सुशीलपथ्यसुभुजां न स्यादिदं पापिनाम्" इति ॥ १०७ ॥
पारिजाते सुधा टीका कपिलेश्वररचिता । चतुर्थेऽरिष्टसञ्ज्ञेऽस्मिन्नध्याये पूर्णतां गता ॥४॥
( १ ) बालारिष्ट ८ वर्ष तक, (२) योगारिष्ट २० वर्ष तक, (३) अल्पायु ३२ वर्ष तक,
इनके भङ्गसे (४) मध्यायु ७० वर्ष तक, (५) दीर्घायु १०० वर्ष तक, उसके बाद (६) देवायु
उसके अनन्तर ( ७ ) योगाभ्यास, मन्त्रादिके अनुष्ठानादि द्वारा असङ्ख्यायु ये सात
प्रकारके आयुके भेद कहे गये हैं। (सु. शा. कार) ॥ १०७ ॥
इति जातकपारिजाते चतुर्थोऽध्याये 'विमला' हिन्दीटीका समाप्ता ॥
𑁍𑁍𑁍